श्रीस्थलदेवीस्तोत्रम् अथवा श्रीस्थलदेव्यष्टकम्
रम्यमन्दिरान्तरे मृगेन्द्रपीठ संस्थितां
रक्तवस्त्रसंयुतां सुरक्तदन्तिका शिवाम् ।
नीलरत्न-सन्निभां प्रफुल्ल-कञ्ज-लोचनां
श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ १॥
दीप्त-भास्कराननां भुजाकलाप-मण्डितां
चण्डमुण्डघातिनीं प्रचण्ड-विक्रमान्विताम् ।
शूलखड्गपाश-चाप-सायकैर्विभूषितां
श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ २॥
सैरिभान्तकारिणीं सुरेन्द्र-दुःखहारिणीं
धूम्रनेत्रनाशिनीं निशुम्भशुम्भघातिनीम् ।
रक्तबीजदारिकां समस्त-विश्वरक्षिकां
श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ३॥
कालिकां कपालिनीं कृपामयीं विभावतीं
दैत्यसङ्घभक्षिकां दिवौकसां हिते रताम् ।
दुर्जनप्रमाथिनीं नृमुण्डमालया युतां
श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ४॥
नीलकण्ठ वल्लभां प्रपन्न भीतिनाशिकां
पार्वतीं सरस्वतीं सुमङ्गलां च शङ्करीम् ।
देवनायकादिभिर्निरन्तरं प्रपूजितां
श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ५॥
अम्बिकां विभूतिदां विचित्रशक्तिसम्भृतां
विश्वसिन्धुतारिणीं कृतान्तभीतिहारिणीम् ।
सत्प्रबोधदायिकां धियस्तमो निवारिकां
श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ६॥
भक्त कल्पवल्लरीं समग्रसाध्यसाधिकां
चण्डिकान्दयापरां दरिद्रदुःखहारिणीम् ।
रत्नमालयावृतां प्रदीप्ततेजउज्ज्वलां
श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ७॥
सौम्यभावभासिकां सुराङ्गनां सुरार्चिता-
मक्षरां निरामयां यशस्करां त्रिलोचनाम् ।
चन्द्रबिम्ब सन्निभां त्रिलोकसुन्दरीमुमां
श्रीस्थले निवासिनीं महेश्वरीं नमाम्यहम् ॥ ८॥
चण्डिकाष्टकं त्विदं दिवागमे सुरालये
यो नरः समाहितः पठेत्सदा मुदान्वितः ।
स्यान्स विक्रमीगुणी सुपुत्रवान् निरामयः
सत्कलत्रसंयुतः सुखी धनी च कोविदः ॥
इति श्रीस्थलदेवीस्तोत्रं सम्पूर्णम् ।
Sarthal or Shristhala devi or aShTAdashabhUjA devI is worshipped in
Kishtavad (kishtwar, kaShTavArakaH deshaH) in Haryana
Encoded and proofread by Vani V