श्रीपादस्तवः
भूमेरामोदनाथ प्रदिशति निभृतस्मेरमीक्षाविशेषं
शेषोपान्तस्थितायाः कमितरि भगवत्यन्तरुज्जृम्भमाणं
कोपं सापत्न्यलभ्यं विगमयितुमुपादाय हस्तैश्चतुर्भि-
र्नीन्तं तेन स्वमूर्ध्नि प्रदिशतु कुशलं पादपद्मं रमायाः ॥ १॥
रेखाभिर्यत् सिराभिः किसलयमिव कल्पद्रुमस्योपगूढं
लेखानां शेखरत्वं गतमत इव यद्यच्च शोणप्रकाशम् ।
पादद्वन्द्वं रमायाः प्रणतजनमनः कामितार्थप्रदं तद्
दारिद्र्यं दारयेन्नः कुसुमसमरुचा भासमानं नखाल्या ॥ २॥
सिक्तं रक्तैरिव स्वैर्वपुरुरगपतेर्विश्वरूपस्य विष्णो-
रध्यासोद्भूतसम्मर्दनदलितकृतच्छिद्रचर्मान्तवान्तैः ।
शोणीकुर्वन्ति भासः शशरुधिरनिभा यत्प्रसूताः प्रसूत्यै
भूयाद् भूयः समृद्धेर्जलनिधिजनुषः पादपङ्केरुहं नः ॥ ३॥
आदावामृश्यमानं किसलयरुचिभिः केशवस्याङ्गुलीभिः
पश्चादाचुम्ब्यमानं मृदु मृदुमुखपद्मेन शोणाघरेण ।
भूयश्चालिङ्ग्यमानं दृढतरमुरसि प्रापयद्भ्यां कराभ्यां
भूयाद् भूत्यै चिरं नः शिरसि विनिहितं पादपद्मं रमायाः ॥ ४॥
क्षिप्तं क्षीराम्बुराशेस्तटभुवि पयसां फेनपुञ्जावृतायां
केलीसञ्चारकाले भसितपरिवृताङ्गारवद् यद् विभाति ।
तन्नः सम्मृज्यमानं नमदमरवधूमौलिभिः पादपद्मं
श्रीदेव्याः श्रेयसे स्तात् प्रणतिगतिभयापद्रवत्कान्तहस्तम् ॥ ५॥
वक्षस्यक्षीणरागं निदधति दयिते कुङ्कुमेनेव लिप्तं
कुर्वन्ती कान्तिरेतत् सुभगयतितरां यत्प्रसूता नितान्तम् ।
मूर्धन्येनं च रत्नाम्बररचितशिरश्छादनेनेव गुप्तं
भार्गव्या भर्गमुख्यैः परिणुतमवतात् पादपद्मं सदा नः ॥ ६॥
अब्धेर्जाता प्रवालावलिरिति मुनिभिर्दैवतैस्तत्र संस्था-
दुत्पन्ना कल्पवृक्षादिति दितितनयैर्बाडवाग्नेः शिखेति ।
नानानद्यागमासादितमरुणपयोजन्यमित्यन्यलोकै-
रव्यादुत्प्रेक्ष्यमाणं पदकमलयुगं पद्मजायाश्चिरं नः ॥ ७॥
श्रीपादस्तवमेतद् ये पठन्ति प्रातरुत्थिताः ।
अष्टैश्वर्यं भवेत् तेषामाश्चैव हि न संशयः ॥ ८॥
इति श्रीश्रीपादस्तवः समाप्तः ।
स्तोत्रसमुच्चयः २ (८८)
Proofread by Rajesh Thyagarajan