श्रीशिवकामसुन्दर्यष्टकम्
श्रीव्याघ्रपादमहर्षिप्रणीतं
पुण्डरीकपुरमध्यवासिनीं नृत्तराजसहधर्मचारिणीम् ।
अद्रिराजतनयां दिने दिने चिन्तयामि शिवकामसुन्दरीम् ॥ १॥
ब्रह्मविष्णुमुखरामरेडितां बाहुपद्मशुकवत्सशोभिताम् ।
बाहुलेयकलभाननात्मजां चिन्तयामि शिवकामसुन्दरीम् ॥ २॥
वेदशीर्षविनुतात्मवैभवां वाञ्छितार्थफलदानतत्पराम् ।
व्याससूनुमुखतापसार्चितां चिन्तयामि शिवकामसुन्दरीम् ॥ ३॥
दिव्यरत्नमणिभूषणाम्बरां देवराजमहिलादिसंवृताम् ।
दानवारिसहजां दयानिधिं चिन्तयामि शिवकामसुन्दरीम् ॥ ४॥
षोडशार्णपरदेवतामुमां पञ्चबाणनिचयोद्भवेक्षणाम् ।
पारिजाततरुमूलमण्टपां चिन्तयामि शिवकामसुन्दरीम् ॥ ५॥
विश्वयोनिममलामनुत्तमां वाग्विलासफलदां विचक्षणाम् ।
वारिवाहसदृशालकाम्बरां चिन्तयामि शिवकामसुन्दरीम् ॥ ६॥
नन्दिकेशविनुतात्मवैभवां नाममन्त्रजपकृत्सुखप्रदाम् ।
नाशहीनपददां नटेश्वरीं चिन्तयामि शिवकामसुन्दरीम् ॥ ७॥
सोमसूर्यहुतभुग्विलोचनां सर्वमोहनकरीं सुधीडिताम् ।
सत्रिवर्गपरमात्मसौख्यदां चिन्तयामि शिवकामसुन्दरीम् ॥ ८॥
पुण्डरीकचरणर्षिणा कृतं स्तोत्रमेतदघहं पठन्ति ये ।
पुण्डरीकपुरनायिकाऽम्बिका यच्छतीष्टमखिलं महेश्वरी ॥ ९॥
इति श्रीव्याघ्रपादमहर्षिप्रणीतं श्रीशिवकामसुन्दर्यष्टकं सम्पूर्णम् ।
Proofread by Aruna Narayanan