श्री शिवकामसुन्दरीमन्त्रवर्णरत्नस्तुतिः
(ॐ ऐं शिं सौं मं ।)
ओमित्यक्षरमुद्यतं तदनु च व्याहृत्यभिख्या पुनः
गायत्री स्मृतिभिस्त्रयी शिवगलात्सर्गादिमेऽधीत्य तत् ।
यस्यास्सान्द्रकृपावलोकनवशाद्ब्रह्मा ससर्जाखिलं
तां देवीं शिवकामसुन्दरसखीं ध्यायामि साऽस्मीत्यहम् ॥ १॥
ऐं वर्णं प्रतिभाप्रकाशनपरं द्वैतीयकं यन्मनोः
अभ्यासादनिलानलोक्तविभवे यक्षे गते देवराट् ।
गौरीं हैमवतीमुमां भगवतीं दृष्ट्वा विमुक्तोऽभवत्
तां देवीं शिवकामसुन्दरसखीं ध्यायामि साऽस्मीत्यहम् ॥ २॥
शिं वर्णं शिवदं तृतीयमपरं मन्त्रस्य यस्याः पुरा
जापं जापमवापुरद्भुततमास्सिद्धीश्च सिद्धाः पराः ।
नन्दीशप्रमुखाश्च यामभिनुताः पञ्चाश्रवह्न्यश्रगे
तां देवीं शिवकामसुन्दरसखीं ध्यायामि साऽस्मीत्यहम् ॥ ३॥
सौं वर्णं च तुरीयमन्तरनिशं यन्मन्त्रराजः स्वयं
ध्यायन् शक्रसमो भुवि प्रथितवान् भूत्वा विजेजीयते ।
आत्मारामविहारवान् स सुकृती स्वान्तेऽपि यस्याः पदे
तां देवीं शिवकामसुन्दरसखीं ध्यायामि साऽस्मीत्यहम् ॥ ४॥
मं वर्णं मनुपञ्चमं विधिमुखात् ज्ञात्वा समन्याह्वये
स्थाने व्योम्नि सभान्तरे परशिवस्यानन्द लास्यानुगाम् ।
स्वाभिन्नां सनकादयस्सुकृतिनः पश्यन्ति यां शाम्भवीं
तां देवीं शिवकामसुन्दरसखीं ध्यायामि साऽस्मीत्यहम् ॥ ५॥
शार्दूलाङ्घ्रितनूभवेन शिवकाम्यम्बामनोर्वर्णभाक्
स्तोत्रं यत्कृतमन्वहं च पठतां तेषां शिवानुग्रहात् ।
वाक्श्रीसौख्ययशस्सुमङ्गलधराकान्तात्मजातादिमाः
दीर्घायुष्यमरोगतां च चरमे दैव्यं पदं स्याद्ध्रुवम् ॥ ६॥
इति उपमन्युमहर्षिविरचिता श्रीशिवकामसुन्दरीमन्त्रवर्णरत्नस्तुतिः ।
Proofread by Aruna Narayanan