श्रीशिवकामसुन्दरीदण्डकम्
पतञ्जलिमहर्षिप्रणीतं
या माया सा च माया परशिवसचिवा विश्वसंसृष्टिरक्षा-
भङ्गप्रावीण्यशिल्पप्रकटितमहिमा मोहयन्ती जगन्ति ।
मानं मेयं च माता न भवति च यया जायते विद्यया स्वं
तत्त्वं भावः पराम्बा जयतु मम हृदि श्रीकरी ब्रह्मविद्या ॥ १॥
जय ! जय ! जगदम्ब ! जलरुहभवमुख्यनाकालयव्यू-
हसेवासमानम्रकोटीमणीधोरणीभानुभास्वत्पदाब्जे ! नम -
चित्तरागासिके ! चित्तरङ्गासिके ! ॥ २॥
अगाधसंसारहिंसासमातङ्कशङ्काऽगदङ्कारदीक्षाङ्कुरे ! अखण्ड-
विध्यण्ड षण्डोपरि द्योतमानालयाकल्पकल्पद्रुमानल्प पुष्पभ्रम-
द्भृङ्गगीतोदयोल्लासिचिन्तामणिस्यन्दमानाम्बुपूरातिवर्धिष्णु-
पर्यन्तपीयूषपाथोधिरिङ्खत्तरङ्गच्छटाटोपवल्गत्कणश्रेणिजीवत्-
प्रपञ्चप्रवृत्तस्तुत प्रक्रियेऽविक्रिये ! ॥ ३॥
मन्द्रचन्द्राङ्कुरोत्तंसफालानलज्वालमालौघलीलापतङ्गी-
कृतानङ्गसञ्जीवनालोकिते ! भूरिकारुण्यभारातिखिन्नाशये !
वल्गुपाशाङ्कुशेक्षुस्फुरच्चाप-पुष्पेषुहस्ते !
नमस्ते समस्तैकमातः ! शिवे ! ॥ ४॥
जय जय शिवकामसुन्दरि(र्य) अनन्तं दिगन्तं भजन्तं गुणं
तावकं भावुकं किं पुनः स्तोतुमस्तीह कश्चित् सुधीरत्र ? वृत्राहिते
शस्त्रशब्दासहे; प्रस्तुतत्रासशुष्यद्वपुष्यञ्जसा भूतशान्तत्विषि
ज्योतिषि स्वाहया सेविते; जीविते जीवितेशे निराशे, मुहुस्रस्यति
प्रायशो रक्षसि, प्राणरक्षौषधं काङ्क्षति द्रागहो पाशिनि, व्याकुले
चानिले, वित्तनाथेऽप्यथ स्वस्तिकामे, चिराल्लज्जया भङ्गुरे शङ्करे,
कुण्ठदोर्दण्डचण्डिम्नि हा पुण्डरीकेक्षणे मुक्तलज्जामरं त्रस्तविद्याधरं
भग्नसाध्यच्छटं खिन्नखिन्नोरगं भिन्नतुन्नार्णवं खण्ड्यमानाण्डजं
चूर्ण्यमानाचलं पाट्यमानद्रुमं भक्षितैणाङ्ककं पातिताहस्करं
निर्मनुष्यं निरालोकमेवं जगद्राधमानं चिरादेधमानं बलादन्तक-
स्यान्तकं वेधसो वेधसञ्चेश्वरस्येश्वरं शार्ङ्गिणः
शार्ङ्गिणं सर्वलोकद्रुहं
माहिषञ्चासुरं प्रोद्यतानेकदोर्दण्डखेलोल्ललत्खेटखड्गासिशङ्खेषु-
बाणासनाद्यायुधस्तोमकिम्मीरिताशावकाशा ।
समप्रोच्चलत्पुष्कलावर्तकध्वानधिक्कारचञ्चून्मिषत्सिंहनादार्भटी-
विस्फुटत्सर्वविध्यण्डभाण्डा तटित्कोटिसन्दोहनिन्दाकरामन्द
कल्पान्तकालान्तकालीकनेत्रानलोल्लाससच्छात्रकृच्छ्रेतरज्वाल-
मालापुषा धीरधीरस्वनद्घण्टिकाकाण्डनिर्घातघोषोत्त्रुटत्सन्धि-
बन्धान्विताद्रीन्द्रनिर्यच्छिलाधूलिकापालिकापीतदैत्यौघमेघ-
स्रवद्रक्तधारापगापूरजालेन शूलेन निर्भिद्य धूम्राक्षरक्षश्च चण्डञ्च
मुण्डं निशुम्भञ्च शुम्भं तथा रक्तबीजं मधु कैटभञ्चापि हत्वा
समस्तासुरानीकमुत्तेजिता वीरलक्ष्मीविलासेन देवि त्वमेव ह्यरक्षः
समस्तं जगत्तत्क्षणे किं ब्रुवे वा प्रसन्नामपि त्वां न सन्ना भयेनाक्षमा
नेक्षितुं वाऽमरास्तेऽपि ते विक्रमप्रक्रियाजल्पनेऽल्पे पुनः के वयं किं
पराऽलं गिरां देवता सापि किं वा परैस्त्वां त्वमेवाभिजानासि ॥ ६॥
लोकाननेकान् यदेका सृजस्यादरेणावसि ध्वंसयस्यम्ब !
केयूरकोटीरभेदेन भिन्नं यथा स्वर्णमेकं तथोपाधिभेदादनेकासि ।
मायया मोहिता ह्याद्रियन्ते परं दैवतं नैव ते संविदन्त्यन्तरे त्वां परं
तत्त्वमित्यल्पपुण्या जना दोष एष त्वयैवोत्पादितः किं ? न वा
यत्प्रपञ्चस्य संवृद्धये नैकमार्गाः कृताः । तावता माद्यति, क्रुध्यति,
द्रुह्यति, त्रस्यति, स्पर्धते, खिद्यते, क्लिश्यते, याचते, नश्यति,
भ्रश्यति प्रायशोऽयं जनः; त्वां परे श्रद्धयाऽऽराध्य साध्यान्तरं
सन्त्यजन्तोमुधैवाभिमानञ्च भोगं तृणायाप्यमत्वाऽमृतत्वं भजन्ते
हरप्राणभूते ! जगत्त्राणशीले ! भवत्पादसेवाविधिः सर्वलभ्यः
किमस्माकमप्यक्षिपद्यां गताऽसीति चित्रं यतस्तादृशैरप्यजस्रं
मुनीन्द्रैः विमृग्यासि तत्त्वामहं भावये चेतसा पाहि शं देहि
शैलात्मजे ! ॥ ७॥
इति उमापतिशिवप्रणीता श्रीशिवकामसुन्दरीदण्डकं समाप्ता ।
Proofread by Aruna Narayanan