श्रीशिवास्तुतिः
(शिष्याशीर्वचनात्मकस्तवाः)
कालाहङ्कारनिर्वापणचणहृदयाम्भोजबालारुणाभे
कायक्लेशादिहीनैरपि सुखसुलभैः सेवनैः प्रीयमाणे ।
काणादाक्षाङ्घ्रिशेषप्रमुखबुधवरैश्चिन्त्यमानाङ्घ्रिपद्मे
सर्वज्ञं श्रीनृसिंहं कुरु शिवदयिते सत्वरं मद्विनम्रम् ॥
यत्पादाम्भःप्रभूतप्रणतिरतिजवात्कर्तुमीष्टे जगत्यां
कादाचित्कापि मूकं सुरगुरुजयिनं वाग्भिरन्यादृशाभिः ।
सा त्वं वेलाविहीनप्रसृमरकरुणापूरपूर्णैः कटाक्षैः
सर्वज्ञं श्रीनृसिंहं कुरु शिवदयिते सत्वरं मद्विनम्रम् ॥ २॥
यां बोद्धुं शान्तिदान्तिप्रमुखगुणवरैः संयतन्ते यतीन्द्राः
यस्याः कारुण्यलेशाज्जगति जनततिर्जन्ममृत्यू जहाति ।
सा त्वं सच्चित्स्वरूपा शुकमुखमुनिभिश्विन्त्यमाना नितान्तं
सर्वज्ञं श्रीनृसिंहं कुरु शिवदयिते सत्वरं मद्विनम्रम् ॥ ३॥
विद्यानाथाब्जनेत्रप्रमुखसुरवराराध्यपादारविन्दे
विद्यादानप्रवीणे प्रणतजनमनोबोधदानव्रताढ्ये ।
कायश्रीधिक्कृतोद्यद्दिनकरनिकरे चक्रराजासनस्थे
सर्वज्ञं श्रीनृसिंहं कुरु शिवदयिते सत्वरं मद्विनम्रम् ॥ ४॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीशिवास्तुतिः समाप्ता ।
Proofread by PSA Easwaran psaeaswaran at gmail.com