शरणाष्टकम्
आर्तत्राणपरायणे ! भगवति ! ब्रह्मेन्द्रनारायण-
स्तुत्ये शाणित सत्कृपाणनृशिरोऽभीतिष्टपाणे शिवे !।
मातर्मुक्तशिरोरुहे ! नरशिरःस्त्रग्भूषणे भीषणे !
श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ १॥
आजन्मामरणं च कालहरणं प्रायो ममाकारणं
शुद्धान्तःकरणं कदाचन च ना नाम्नस्तवोच्चारणम् ।
सत्कर्मांचरणं च नाहह वृथा प्राणस्य सन्धारणं
श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ २॥
नाधीतं विधिवन्न वा हरिहरौ भक्त्या समाराधितौ ।
तप्तं नैव तपो मनागपि मया मायामयेऽस्मिन् भवे ।
न प्रत्तं न हुतं च सम्यगधुना भीतोऽन्तकालेऽन्तकात्
श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ ३॥
नो तीर्थाण्युपसेवितानि गुरवो भक्त्या न संसेविता
नो श्राद्धैरपि तर्पिताः स्वपितरश्चीर्णं न किञ्चिद् व्रतम् ।
भक्त्या नातिशयोर्चिताः सपदि हा ! हन्तातिचिन्तातुरः
श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ ४॥
नाचारो मम विद्यते न विनयो वैधं न शौचं परं
न ज्ञानं न विरागता न च पराभक्तिर्भवत्यामपि ।
मातः शासनतोऽव मां पितृपते प्रेताकृती शासने
श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ ५॥
स्वं वर्णोचितमाश्रमोचितमपि प्रायेण नानुष्ठितं
सत्कृत्यं विधिवन्मया हतधिया शास्त्रोदितं श्रेयसे ।
चेतः सीदति साम्प्रतं जननि ! मे तत् सव्यथं सर्वथा
श्यामे ! त्वच्चरणं ! व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ ६॥
नीतं दुर्व्यसनैर्महद्भिरशिवोदकैः शिवे ! शैशवं
तारुण्यञ्च कलत्रपुत्रभरणाद्यर्थेपदर्थेहया ।
कालत्रासवशेन सम्प्रति जडीभूतो जराजर्जरः
श्यामे ! त्वच्चरणं व्रजामि शरणं गन्यन्तरं नास्ति मे ॥ ७॥
सञ्चिन्त्यान्तकमन्ततोऽन्तिकतमं सन्त्रासपर्याकुलं
स्वान्तं ध्वान्तमनन्तकं जननि ! मेऽशान्तं समुद्गाहते ।
हन्ताश्वासय साम्प्रतं सकृदपि व्याहृत्य मा भैरिति
श्यामे ! त्वच्चरणं व्रजामि शरणं गत्यन्तरं नास्ति मे ॥ ८॥
माता रुदितमिदं मे मरणासन्न-प्रसन्नमिश्रस्य ।
शृणु शिवहृदयनिषण्णे बहुदयहृदयेऽवसन्नस्य ॥ ९॥
इति पण्डितश्रीप्रसन्नमिश्रेण विरचितं शरणाष्टकं सम्पूर्णम् ।
Encoded and proofread by Ameya Sakhare