शक्तिस्तवः
ब्रह्मा उवाच-
त्वं सावित्रि च वाग्देवी त्वं श्रीः सर्वजगत्प्रसूः ।
स्वाहा त्वं देवयज्ञेषु पितृयज्ञेषु च स्वधा ॥ १॥
स्वधा त्वं देवलोकेषु हविस्त्वं खलु मानुषे ।
त्वं हि विद्याश्च मन्त्राश्च वेदास्त्वं हि सुरात्मिका ॥ २॥
अर्द्धमात्रात्मिका त्वं वै यानुच्चार्या विशेषतः ।
त्वमेव परमा शक्तिर्जगत्कारणरूपिणी ॥ ३॥
विचार्याऽष्टाङ्गयोगेन लक्षणाद्यैर्मुहुर्मुहुः ।
यत् स्थिरीक्रियते देवि ! तत् ते रूपं सनातनम् ॥ ४॥
यदव्यक्तमनिर्देश्यं निष्कलं परमात्मनः । (निष्फलम्)
रूपं तवैव तत् सूक्ष्मं सकलं च जगन्मयि! ॥ ५॥
या सृष्टिशक्तिरस्माकं स्थितिशक्तिस्तथा हरेः ।
अन्तशक्तिस्तथेशस्य सा त्वं शक्तिः सनातनी ॥ ६॥
त्वं जातवेदोगता शक्तिरुग्रा
त्वं दाहिका सूर्यकरस्य शक्तिः ।
आह्लादिका त्वं बहु चन्द्रिकाया-
स्तां त्वामहं नौमि नमामि चाम्बिकाम् ॥ ७॥
योषा योषित्प्रियाणां त्वं विद्या त्वं चोर्ध्वरेतसाम् ।
वाञ्छा त्वं सर्वजगतां माया च त्वं तथा हरेः ॥ ८॥
यया प्रकाश्यते ब्रह्म सा त्वं नित्या प्रसीद मे ।
विश्वादिस्त्वमनादिस्त्वं विश्वयोनिरयोनिजा ॥ ९॥
अनन्तात् सर्वजगतस्त्वमेवैकान्तरूपिणी ।
एका त्वं त्रिविधा भूत्वा मोक्षसंहारकारिणी ॥ १०॥
संसारसागरोत्तारतरणिः सुखमोक्षदे ।
त्वं नित्या त्वमनित्या च त्वं चराचरमोहिनी ॥ ११॥
नमस्ते जगतां मातः ! सृष्टिरूपे सनातनि ।
स्थितिरूपे नमस्तुभ्यं नमः संहाररूपिणि ॥ १२॥
एवं संस्तूयमाना सा योगनिद्रा विरिञ्चिना ।
आविर्बभूव प्रत्यक्षं ब्रह्मणः परमात्मनः ॥ १३॥
देवी उवाच-
परितुष्टास्मि लोकेश स्तोत्रेणानेन ते विभो ! ।
वरं वृणीष्व भद्रं मे यत् ते मनसि वर्तते ॥ १४॥
ईश्वर उवाच-
मां समीक्ष्य वरं वव्रे जगत्संहारकारकम् ।
सृष्टिशक्तिं मयि त्वं च विष्णौ पालनरूपिणीम् ॥ १५॥
संहारशक्तिमीशाने देहि मातर्नमोऽस्तु ते ।
एकश्चरति भूतेशो न द्वितीयां समीहते ।
तथा मोहय सर्वेशं दाराः स्वयं जिघृक्षति ॥ १६॥
देवी उवाच-
यदुक्तं भवता ब्रह्मन् ! तच्च सत्यं न चान्यथा ।
मोहयित्वाऽहमीशानं सतीरूपेण शङ्करम् ॥ १७॥
संहरिष्यामि लोकेश! जगदेतच्चराचरम् ।
तत्रापि तां तनुं त्यक्त्वा सम्भविष्यामि पार्वती ॥ १८॥
इति तस्मै समाभाष्य ब्रह्मणे परमेश्वरी ।
वीक्ष्यमाणा जगत्स्रष्ट्रा तत्रैवान्तरधीयत ॥ १९॥
तस्यामन्तर्हितायां च ब्रह्मा लोकपितामहः ।
कृताञ्जलिपुटो भूत्वा विष्णुमाह प्रजापतिः ॥ २०॥
संहारकरणे योग्यं वीरभावं च यद् भवेत् ।
तन्निदेशे महादेवे विष्णो लोकेषु दुर्लभम् ॥ २१॥
इति तद् वचनं श्रुत्वा भगवान् हरिरीश्वरः ।
आदिष्टवान् मयि भद्रे वीरभावं सुदुर्लभम् ॥ २२॥
वीरभावे स्थितः सोऽहं मातस्त्वां समुपास्महे ।
अद्यापि परमेशानि ! मातस्तुभ्यं नमो नमः ॥ २३॥
प्रकृतिः सर्वभूतानां त्वं हि सर्वजगत्प्रसूः ।
या मुक्तिर्मम देवेशि ! क्षितिरूपा तु जीयते ।
स त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ २४॥
या मे मूर्तिर्द्वितीया च जलमयीति कथ्यते ।
सा त्वमेव न मे नाहं मातः! सत्यं नमा नमः ॥ २५॥
आग्नेयी या तृतीया मे जगत्क्षोभणकारिणी ।
सा त्वमेव न मे नाहं मातः! सत्यं नमो नमः ॥ २६॥
चतुर्थी वायवी मूर्तिः सृष्टिसंहारकारिणी ।
सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ २७॥
पञ्चमी या च सर्वेषां परिणामस्वरूपिणी ।
सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ २८॥
षष्ठी या सर्वदेवानामाप्यायनीति गीयते ।
सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ २९॥
सप्तमी मम मूर्तिर्या जगदाह्लादकारिणी ।
सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ ३०॥
अष्टमी मम मूर्तिर्या स्थितिसंहारकारिणी ।
सा त्वमेव न मे नाहं मातः ! सत्यं नमो नमः ॥ ३१॥
तवैवाहं न मे किञ्चिद् यदिह जगतीतले ।
त्वयैवेदं जगद्व्याप्तं जगत् सर्वं त्वमेव हि ॥ ३२॥
देवी उवाच-
मया सर्वं जगद् व्याप्तं वत्स ! सत्यं प्रभाषसे ।
ममैवैतेऽवताराश्च मत्स्य कूर्मादयोऽपरे ॥ ३३॥
त्वमेवाहं न चान्योऽस्ति ब्रह्माहं विष्णुरप्यहम् ।
अहमेव जगत् सर्वं नास्ति किञ्चिन्मया विना ॥ ३४॥
यत्तु पश्यसि हे वत्स ! यत्किञ्चिज्जगतीतले ।
ब्रह्मादिस्तम्बपर्यन्तमहमेव न संशयः ॥ ३५॥
इहैकस्थो जगत् कृत्स्नं पश्याद्य सचराचरम् ।
इत्युक्त्वा दर्शयामास शम्भवे जगदीश्वरी ॥ ३६॥
स्वशरीरे जगत् कृत्स्नं सम्प्रविष्टमनेकधा ।
जगन्मयीं ततो दृष्ट्वा शम्भुर्मायाविमोहितः ॥
मामुद्धर जगन्मातर्मोहसागरमध्यतः ॥ ३७॥
इति गन्धर्वतन्त्रे अष्टात्रिंशः पटलान्तर्गतः
ब्रह्मप्रोक्तः शक्तिस्तवः समाप्ता ।
Gandharva Tantra PaTala 38 Verses 10-45
Proofread by Manusiri Janakiraman