श्रीशारिकासहस्रनामस्तोत्रम्
॥ श्रीशारिकासहस्रनामस्तोत्रम् ॥
श्रीभैरव उवाच -
या सा देवी पुराख्याता शारिकारूपधारिणी ।
जालन्धरराक्षसघ्नी प्रद्युम्नशिखरे स्थिता ॥ १॥
तस्या नामसहस्रं ते मन्त्रगर्भं जयावहम् ।
कथयामि परां विद्यां सहस्राख्याभिधां शिवे ॥ २॥
शिलायाः शारिकाख्यायाः परसर्वस्वरूपिणीम् ।
विना नित्यक्रियां देवि विना न्यासं विनाऽर्चनम् ॥ ३॥
विना पुरस्क्रियां जाप्यं विना होमं च तर्पणम् ।
विना श्मशानगमनं विना समयपूजनम् ॥ ४॥
यया लभेत् फलं सर्वं तां विद्या शृणु पार्वति ।
या देवी चेतना लोके शिलारूपास्ति शारिका ॥
सृजत्यवति विश्वं तु संहरिष्यति तामसी ।
सैव संसारिणां देवि परमैश्वर्यदायिनी ॥ ६॥
परं पदं प्रदाप्यान्ते महाविद्यात्मिका शिला ।
तस्या नामसहस्रं ते वर्णयामि रहस्यकम् ॥ ७॥
रहस्यं मम सर्वस्वं सकलाचारवल्लभम् ।
यो जपेत् परमां विद्यां पठेदाख्यासहस्रकम् ॥ ८॥
धारयेत् कवचं दिव्यं पठेत स्तोत्रेश्वरं परम् ।
किं तस्य दुर्लभं लोके नाप्नुयाद् यद्यदीश्वरि ॥ ९॥
अस्य नाम्नां सहस्रस्य महादेव ऋषिः स्मृतः ।
छन्दोऽनुष्टुप् देवता च शारिका परिकीर्तिता ॥ १०॥
शर्म बीजं रमा शक्तिः सिन्धुरः कीलकं स्मृतम् ।
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ ११॥
ध्यानमस्याः प्रवक्ष्यामि शृणु पर्वतनन्दिनि ।
॥ विनियोगः ॥
अस्य श्रीशारिकाभगवतीसहस्रनामस्तोत्रस्य, श्रीमहादेव ऋषिः,
अनुष्टुप् छन्दः, श्रीशारिका भगवती देवता, शां बीजं,
श्रीं शक्तिः, फ्रां कीलकं, धर्मार्थकाममोक्षार्थे विनियोगः
ऋष्यादिन्यासं कृत्वा, ह्रांश्रामित्यादिना कराङ्गन्यासौ ॥
॥ ऋष्यादिन्यासः ॥
ॐ श्रीमहादेवऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
श्रीशारिकाभगवती देवतायै नमः हृदये ॥
शां बीजाय नमः दक्षस्तने ॥
श्रीं शक्तये नमः वामस्तने ॥
फ्रां कीलकाय नमः नाभौ ॥
श्रीशारिकाभगवती प्रसादसिद्ध्यर्थे पाठे विनियोगाय नमः पादयोः ॥
॥ षडङ्गन्यासः ॥
॥ करन्यासः ॥
ह्रां श्रां अङ्गुष्ठाभ्यां नमः । ह्रीं श्रीं तर्जनीभ्यां नमः ।
ह्रूं श्रूं मध्यमाभ्यां नमः । हैं श्रैं अनामिकाभ्यां नमः ।
ह्रौं श्रौं कनिष्ठाभ्यां नमः । ह्रः श्रः करतलकरपुष्ठाभ्यां नमः ।
॥ अङ्गन्यासः ॥
ह्रां श्रां हृदयाय नमः । ह्रीं श्रीं शिरसे स्वाहा ।
ह्रूं श्रूं शिखायै वषट् । हैं श्रैं कवचाय हुम् ।
ह्रौं श्रौं नेत्रत्रयाय वौषट् । ह्रः श्रः अस्त्राय फट् ।
॥ ध्यानम् ॥
बालार्ककोटिसदृशीमिन्दुचूडां कराम्बुजैः ।
वरचक्राभयासींश्च धारयन्तीं हसन्मुखीम् ॥ १॥
सिंहारूढां रक्तवस्त्रां रक्ताभरणभूषिताम् ।
वामदेवाङ्कनिलया हृत्पद्मे शारिकां भजे ॥ २॥
बालार्ककोटिद्युतिमिन्दुचूडां वरासिचक्राभयबाहुमाद्याम् ।
सिंहाधिरूढां शिववामदेहलीनां भजे चेतसि शारिकेशीम् ॥ ३॥
॥ स्तोत्रम् ॥
ॐ ह्रीं श्रीं हूं फ्रां आं शां श्रीशारिका श्यामसुन्दरी ।
शिला शारी शुकी शान्ता शान्तमानसगोचरा ॥ १॥
शान्तिस्था शान्तिदा शान्तिः श्यामा श्यामपयोधरा ।
देवी शशाङ्कबिम्बाभा शशाङ्ककृतशेखरा ॥ २॥
शशाङ्कशोभिलावण्या शशाङ्कमध्यवासिनी ।
शार्दूरलवाहा देवेशी शार्दूलस्थितिरुत्तमा ॥ ३॥
शादूलचर्मवसना शक्तिः शार्दूलवाहना ।
गौरी पद्मावती पीना पीनवक्षोजकुट्मला ॥ ४॥
पीताम्बरा रक्तदन्ता दाडिमीकुसुमोपमा ।
स्फुरद्रत्नांशुखचिता रत्नमण्डलविग्रहा ॥ ५॥
रक्ताम्बरधरा देवी रत्नमालाविभूषणा ।
रत्नसंमूर्छितात्मा च दीप्ता दीप्तशिखा दया ॥ ६॥
दयावती कल्पलता कल्पान्तदहनोपमा ।
भैरवी भीमनादा च भयानकमुखी भगा ॥ ७॥
कारा कारुण्यरूपा च भगमालाविभूषणा ।
भगेश्वरी भगस्था च कुरुकुल्ला कृशोदरी ॥ ८॥
कादम्बरी पटोत्कृष्टा परमा परमेश्वरी ।
सती सरस्वती सत्या सत्यासत्यस्वरूपिणी ॥ ९॥
परम्परा पटाकारा पाटला पाटलप्रभा ।
पद्मिनी पद्मवदना पद्मा पद्माकरा शिवा ॥ १०॥
शिवाश्रया शरच्छान्ता शची रम्भा विभावरी ।
द्युमणिस्तरणा पाठा पीठेशी पीवराकृतिः ॥ ११॥
अचिन्त्या मुसलाधारा मातङ्गी मधुरस्वना ।
वीणागीतप्रिया गाथा गारुडी गरुडध्वजा ॥ १२॥
अतीव सुन्दराकारा सुन्दरी सुन्दरालका ।
अलका नाकमध्यस्था नाकिनी नाकिपूजिता ॥ १३॥
पातालेश्वरपूज्या च पातालतलचारिणी ।
अनन्ताऽनन्तरूपा च ह्यज्ञाता (१००) ज्ञानवर्धिनी ॥ १४॥
अमेया ह्यप्रमेया च ह्यनन्तादित्यरूपिणी ।
द्वादशादित्यसम्पूज्या शमी श्यामाकबीजिनी ॥ १५॥
विभासा भासुरवर्णा समस्तासुरघातिनी ।
सुधामयी सुधामूर्तिः सुधा सर्वप्रियङ्करी ॥ १६॥
सुखदा च सुरेशानी कृशानुवल्लभा हविः ।
स्वाहा स्वाहेशनेत्रा च ह्यग्निवक्त्राऽग्नितर्पिता ॥ १७॥
सोमसूर्याग्निनेत्रा च भूर्भुवःस्वःस्वरूपिणी ।
भूमिर्भूदेवपूज्या च स्वयम्भूः स्वात्मपूजका ॥ १८॥
स्वयम्भू पुष्पमालाढ्या स्वयम्भू पुष्पवल्लभा ।
आनन्दकन्दली कन्दा स्कन्दमाता शिलालया ॥ १९॥
चेतना चिद्भवाकारा भवपत्नी भयापहा ।
विघ्नेश्वरी गणेशानी विघ्नविध्वंसिनी निशा ॥ २०॥
वश्या वशिजनस्तुत्या स्तुतिः श्रुतिधरा श्रुतिः ।
शास्त्रविधानविज्ञा च वेदशास्त्रार्थकोविदा ॥ २१॥
वेद्या विद्यामयी विद्या विधातृवरदा वधूः ।
वधूरूपा वधूपूज्या वधूपानप्रतर्पिता ॥ २२॥
वधूपूजनसन्तुष्टा वधूमालाविभूषणा ।
वामा वामेश्वरी वाम्या कुलाकुलविचारिणी ॥ २३॥
वितर्कतर्कनिलया प्रलयानलसन्निभा ।
यज्ञेश्वरी यज्ञमुखा याजका यज्ञपात्रका ॥ २४॥
यक्षेश्वरी यक्षधात्री पार्वती पर्वताश्रया ।
पिलम्पिला पदस्थाना पददा नरकान्तका ॥ २५॥
नारी नर्मप्रिया श्रीदा श्रीदश्रीदा (२००) शरायुधा ।
कामेश्वरी रतिर्हूतिराहुतिर्हव्यवाहना ॥ २६॥
हरेश्वरी हरिवधूर्हाटकाङ्गदमण्डिता ।
हपुषा स्वर्गतिर्वैद्या सुमुखा च महौषधिः ॥ २७॥
सर्वरोगहरा माध्वी मधुपानपरायणा ।
मधुस्थिता मधुमयी मधुदानविशारदा ॥ २८॥
मधुतृप्ता मधुरूपा मधूककुसुमप्रभा ।
माधवी माधवीवल्ली मधुमत्ता मदालसा ॥ २९॥
मारप्रिया मारपूज्या मारदेवप्रियङ्करी ।
मारेशी च मृत्युहरा हरिकान्ता मनोन्मना ॥ ३०॥
महावैद्यप्रिया वैद्या वैद्याचारा सुरार्चिता ।
सामन्ता पीनवपुषी गुटी गुर्वी गरीयसी ॥ ३१॥
कालान्तका कालमुखी कठोरा करुणामयी ।
नीला नाभी च वागीशी दूर्वा नीलसरस्वती ॥ ३२॥
अपारा पारगा गम्या गतिः प्रीतिः पयोधरा ।
पयोदसदृशच्छाया पारदाकृतिलालसा ॥ ३३॥
सरोजनिलया नीतिः कीर्तिः कीर्तिकरी कथा ।
काशी काम्या कपर्दीशा काशपुष्पोपमा रमा ॥ ३४॥
रामा रामप्रिया रामभद्रदेवसमर्चिता ।
रामसम्पूजिता रामसिद्धिदा रामराज्यदा ॥ ३५॥
रामभद्रार्चिता रेवा देवकी देववत्सला ।
देवपूज्या देववन्द्या देवदावनचर्चिता ॥ ३६॥
दूती द्रुतगतिर्दम्भा दामिनी विजया जया ।
अशेषसुरसम्पूज्या निःशेषासुरसूदिनी ॥ ३७॥
वटिनी वटमूलस्था लास्यहास्यैकवल्लभा ।
अरूपा निर्गुणा सत्या सदासन्तोषवर्धिनी ॥ ३८॥
सोम्या यजुर्वहा याम्या ( ३००) यमुना यामिनी यमी ।
दाक्षी दया च वरदा दाल्भ्यसेव्या पुरन्दरी ॥ ३९॥
पौरन्दरी पुलोमेशी पौलोमी पुलकाङ्कुरा ।
पुरस्था वनभूर्वन्या वानरी वनचारिणी ॥ ४०॥
समस्तवर्णनिलया समस्तवर्णपूजिता ।
समस्तवर्णवर्णाढ्या समस्तगुरुवल्लभा ॥ ४१॥
समस्तमुण्डमालाढ्या मालिनी मधुपस्वना ।
कोशप्रदा कोशवासा चमत्कृतिरलम्बुसा ॥ ४२॥
हासदा सदसद्रूपा सर्ववर्णमयी स्मृतिः ।
सर्वाक्षरमयी विद्या मूलविद्येश्वरीश्वरी ॥ ४३॥
अकारा षोडशाकारा काराबन्धविमोचिनी ।
ककारव्यञ्जना क्रान्ता सर्वमन्त्राक्षरालया ॥ ४४॥
अणुरूपाऽप्यमला च त्रैगुण्याऽप्यपराजिता ।
अम्बिकाऽम्बालिका चाम्बा अनन्तगुणमेखला ॥ ४५॥
अपर्णा पर्णशाला च साट्टहासा हसन्तिका ।
अद्रिकन्याऽप्यट्टहासाऽप्यजराऽस्वाऽप्यरुन्धती ॥ ४६॥
अब्जाक्षी चाब्जिनी देवी ह्यम्बुजासनपूजिता ।
अब्जहस्ता ह्यब्जपादा चाब्जपूजनतोषिता ॥ ४७॥
अकारमातृका देवी सर्वानन्दकरी कला ।
आनन्दसुन्दरी आद्या आघूर्णारुणलोचना ॥ ४८॥
आदिदेवान्तकाऽक्रूरा आदित्यकुलभूषणा ।
आम्बीजमण्डना देवी चाकारमातृकावलिः ॥ ४९॥
इन्दुस्तुतेन्दुबिम्बास्या इनकोटिसमप्रभा ।
इन्दिरा मन्दुराशाला चेतिहासकथास्मृतिः ॥ ५०॥
इला चेक्षुरसास्वादा इकाराक्षरभूषिता ।
इन्द्रस्तुता चेन्द्रपूज्या इनभद्रा इनेश्वरी ॥ ५१॥
इभगतिरिभगीतिरिकाराक्षरमातृका ।
ईश्वरी वैभवप्रख्या चेशानीश्वरवल्लभा ॥ ५२॥
ईशा कामकलादेवी ईकाराश्रितमातृका 400 ।
उग्रप्रभोग्रचित्ता च उग्रवामाङ्गवासिनी ॥ ५३॥
उषा वैष्णवपूज्या च उग्रतारोल्मुकानना ।
उमेश्वरीश्वरी श्रेष्ठा उदकस्था ह्युदेश्वरी ॥ ५४॥
उदकाऽच्छोदकदा च उकारोद्भासमातृका ।
ऊष्मा प्यूषा ऊषणा च तथोचितवरप्रदा ॥ ५५॥
ऋणहर्त्री ऋकारेशी ऋऌवर्णा ऌवर्णभाक् ।
ॡकारभ्रुकुटिर्बाला बालादित्यसमप्रभा ॥ ५६॥
एणाङ्कमुकुटा चैहा एकाराक्षरबीजिता ।
एणप्रिया एणमध्यवासिनी एणवत्सला ॥ ५७॥
एणाङ्कमध्यसंस्था च ऐकारोद्भासकूटिनी ।
ओङ्कारशेखरा देवी औचित्यपदमण्डिता ॥ ५८॥
अम्भोजनिलयस्थाना अःस्वरूपा च स्वर्गतिः ।
षोडशस्वररूपा च षोडशस्वरगायिनी ॥ ५९॥
षोडशी षोडशाकारा कमला कमलोद्भवा ।
कामेश्वरी कलाभिज्ञा कुमारी कुटिलालका ॥ ६०॥
कुटिला कुटिलाकारा कुटुम्बसंयुता शिवा ।
कुला कुलपदेशानी कुलेशी कुब्जिका कला ॥ ६१॥
कामा कामप्रिया कीरा कमनीया कपर्दिनी ।
कालिका भद्रकाली च कालकामान्तकारिणी ॥ ६२॥
कपालिनी कपालेशी कर्पूरचयचर्चिता ।
कादम्वरी कोमलाङ्गी काश्मीरी कुङ्कुमद्युतिः ॥ ६३॥
कुन्ता कूर्चार्णबीजाढ्या कमनीया कुलाऽकुला ।
करालास्या करालाक्षी विकरालस्वरूपिणी ॥ ६४॥
काम्यालका कामदुघा कामिनी कामपालिनी ।
कन्थाधरा कृपाकर्त्री ककाराक्षरमातृका ॥ ६५॥
खड्गहस्ता खर्परेशी खेचरी खगगामिनी ।
खेचरीमुद्रया युक्ता खेचरत्वप्रदायिनी ॥ ६६॥
खगासना खलोलाक्षी खेटेशी खलनाशिनी ।
खेवटकायुधहस्ता (५००) च खरांशुद्युतिसन्निभा ॥ ६७॥
खान्ता खबीजनिलया खकारोल्लासमातृका ।
वैखरी बीजनिलया खरा खेचरवल्लभा ॥ ६८॥
गुण्या गजास्यजननी गणेशवरदा गया ।
गोदावरी गदाहस्ता गङ्गाधरवरप्रदा ॥ ६९॥
गोधा गोवाहनेशानी गरलाशनवल्लभा ।
गाम्भीर्यभूषणा गङ्गा गकारार्णविभूषणा ॥ ७०॥
घृणा घोणाकरस्तुत्या घुर्घुरा घोरनादिनी ।
घटस्था घटजासेव्या घनरूपा घुणेश्वरी ॥ ७१॥
घनवाहनसेव्या च घकाराक्षरमातृका ।
ङान्ता ङवर्णनिलया ङाणुरूपा ङणालया ॥ ७२॥
ङेशा ङेन्ता ङनाजाप्या ङवर्णाक्षरभूषणा ।
चामीकररुचिश्चान्द्री चन्द्रिका चन्द्ररागिणी ॥ ७३॥
चला चलञ्चला चेला चन्द्रा चन्द्रकरा चली ।
चञ्चुरीकस्वनालापा चमत्कारस्वरूपिणी ॥ ७४॥
चटुली चाटुकी चार्वी चम्पा चम्पकसन्निभा ।
चीनांशुकधरा चाट्वी चकारार्णविभूषणा ॥ ७५॥
छत्री च्छत्रधरा च्छिन्ना च्छिन्नमस्ता छटच्छविः ।
छायासुतप्रिया च्छाया छवर्णामलमातृका ॥ ७६॥
जगदम्बा जगज्ज्योतिर्ज्योतीरूपा जटाधरा ।
जयदा जयकर्त्री च जयस्था जयहासिनी ॥ ७७॥
जगत्प्रिया जगत्पूज्या जगत्कर्त्री जरातुरा ।
ज्वरघ्नी जम्भदमनी जगत्प्राणा जयावहा ॥ ७८॥
जम्भारवरदा जैत्री जीवना जीववाक्प्रदा ।
जाग्रती च जगन्निद्रा जगद्योनिर्जलन्धरा ॥ ७९॥
जालन्धरधरा जाया जकाराक्षरमातृका ।
झम्पा झिञ्झेश्वरी झान्ता झकाराक्षरमातृका ॥ ८०॥
ञाणुरूपा ञिणावासा (६००) ञकोरेशी ञणायुधा ।
ञवर्गबीजभूषाढ्या ञकाराक्षरमातृका ॥ ८१॥
टङ्कायुधा टकाराढ्या टोटाक्षी टसुकुन्तला ।
टङ्कायुधा टलीरूपा टकाराक्षरमातृका ॥ ८२॥
ठक्कुरा ठक्कुरेशानी ठकारत्रितयेश्वरी ।
ठःस्वरूपा ठवर्णाढ्या ठकाराक्षरमातृका ॥ ८३॥
डका डक्केश्वरी डिम्भा डवर्णाक्षरमातृका ।
ढिणी ढेहा ढिल्लहस्ता ढकाराक्षरमातृका ॥ ८४॥
णेशा णान्ता णवर्गान्ता णकाराक्षरभूषणा ।
तुरी तुर्या तुलारूपा त्रिपुरा तामसप्रिया ॥ ८५॥
तोतुला तारिणी तारा सप्तविंशतिरूपिणी ।
त्रिपुरा त्रिगुणा ध्येया त्र्यम्बकेशी त्रिलोकधृत् ॥ ८६॥
त्रिवर्गेशी त्रयी त्र्यक्षी त्रिपदा वेदरूपिणी ।
त्रिलोकजननी त्राता त्रिपुरेश्वरपूजिता ॥ ८७॥
त्रिकोणस्था त्रिकोणेशी कोणत्रयनिवासिनी ।
त्रिकोणपूजनतुष्टा त्रिकोणपूजनश्रिता ॥ ८८॥
त्रिकोणदानसंलग्ना सर्वकोणशुभार्थदा ।
वसुकोणस्थिता देवी वसुकोणार्थवादिनी ॥ ८९॥
वसुकोणपूजिता च षट्चक्रक्रमवासिनी ।
नागपत्रस्थिता शारी त्रिवृत्तपूजनार्थदा ॥ ९०॥
चतुर्द्वाराग्रगा चक्रबाह्यान्तरनिवासिनी ।
तामसी तोमरप्रख्या तुम्बुरुस्वननादिनी ॥ ९१॥
तुलाकोटिस्वना तापी तपसां फलवर्धिनी ।
तरलाक्षी तमोहर्त्री तारकासुरघातिनी ॥ ९२॥
तरी तरणिरूपा च तकाराक्षरमातृका ।
स्थली स्थविररूपा च स्थूला स्थाली स्थलाब्जिनी ॥
स्थावरेशा स्थूलमूखी थकाराक्षरमातृका ।
दूतिका शिवदूती च दण्डायुधधरा द्युतिः ॥ ९४॥
दया दीनानुकम्पा च दम्भोलिधरवल्लभा ।
देशानुचारिणी द्रेक्का द्राविडेशी दवीयसी ॥ ९५॥
दाक्षायणी द्रुमलता (७००) देवमाताऽधिदेवता ।
दधिजा दुर्लभादेवी देवता परमाक्षरा ॥ ९६॥
दामोदरसुपूज्या च दामोदरवरप्रदा ।
दनुपुत्रीविनाशा च दनुपुत्रकुलार्चिता ॥ ९७॥
दण्डहस्ता दण्डिपूज्या दमदा च दमस्थिता ।
दशधेनुसुरूपा च दकाराक्षरमातृका ॥ ९८॥
धर्म्या धर्मप्रसूर्धन्या धनदा धनवर्धिनी ।
धृतिर्धूती धन्यवधूर्धकाराक्षरमातृका ॥ ९९॥
नलिनी नालिका नाप्या नाराचायुधधारिणी ।
नीपोपवनमध्यस्था नागरेशी नरोत्तमा ॥ १००॥
नरेश्वरी नृपाराध्या नृपपूज्या नृपार्थदा ।
नृपसेव्या नृपवन्द्या नरनारायणप्रसूः ॥ १०१॥
नर्तकी नीरजाक्षी च नवर्णाक्षरभूषणा ।
पद्मेश्वरी पद्ममुखी पत्रयाना परापरा ॥ १०२॥
पारावारसुता पाठा परवर्गविमर्दिनी ।
पूः पुरारिवधूः पम्पा पत्नी पत्रीशवाहना ॥ १०३
पीवरांसा पतिप्राणा पीतलाक्षी पतिव्रता ॥
पीठा पीठस्थिताऽपीठा पीतालङ्कारभूषणा ॥ १०४॥
पुरूरवःस्तुता पात्री पुत्रिका पुत्रदा प्रजा ।
पुष्पोत्तंसा पुष्पवती पुष्पमालाविभूषणा ॥ १०५॥
पुष्पमालातिशोभाढ्या पकाराक्षरमातृका ।
फलदा स्फीतवस्त्रा च फेरवारावभीषणा ॥ १०६॥
फल्गुनी फल्गुतीर्थस्था फवर्णाकृतमण्डला ।
बलदा बालखिल्या च बाला बलरिपुप्रिया ॥ १०७॥
बाल्यावस्था बर्बरेशी बकाराकृतिमातृका ।
भद्रिका भीमपत्नी च भीमा भर्गशिखा भया ॥ १०८
भयघ्नी भीमनादा च भयानकमुखेक्षणा ।
भिल्लीश्वरी भीतिहरा भद्रदा भद्रकारिणी ॥ १०९॥
भद्रेश्वरी भद्रधरा भद्राख्या भाग्यवर्धिनी (८००) ।
भगमाला भगावासा भवानी भवतारिणी ॥ ११०॥
भगयोनिर्भगाकारा भगस्था भगरूपिणी ।
भगलिङ्गामृतप्रीता भकाराक्षरमातृका ॥ १११॥
मान्या मानप्रदा मीना मीनकेतनलालसा ।
मदोद्धता मनोन्मान्या मेना मैनाकवत्सला ॥ ११२॥
मधुमत्ता मधुपूज्या मधुदा मधु माधवी ।
मांसाहारा मांसप्रीता मांसभक्ष्या च मांसदा ॥ ११३
मारार्ता मत्स्यरूपा च मत्स्यधाता महत्तरा ।
मेरुशृङ्गाग्रतुङ्गास्या मोदकाहारपूजिता ॥ ११४॥
मातङ्गिनी मधुमत्ता मदमत्ता मदेश्वरी ।
मञ्जा मुग्धानना मुग्धा मकाराक्षरभूषणा ॥ ११५॥
यशस्विनी यतीशानी यत्नकर्त्री यजुःप्रिया ।
यज्ञधात्री यज्ञफला यजुर्वेदऋचाम्फला ॥ ११६॥
यशोदा यतिसेव्या च यात्रा यात्रिकवत्सला ।
योगेश्वरी योगगम्या योगेन्द्रजनवत्सला ॥ ११७॥
यदुपुत्री यमघ्नी च यकाराक्षरमातृका ।
रत्नेश्वरी रमानाथसेव्या रथ्या रजस्वला ॥ ११८॥
राज्यदा राजराजेशी रोगहर्त्री रजोवती ।
रत्नाकरसुता रम्या रात्री रात्रिपतिप्रभा ॥ ११९॥
रक्षोघ्नी राक्षसेशानी रक्षोनाथसमर्चिता ।
रतिप्रिया रतिमुख्या रकाराकृतिशेखरा ॥ १२०॥
लम्बोदरी ललज्जिह्वा लास्यतत्परमानसा ।
लूतातन्तुवितानास्या लक्ष्मीर्लज्जा लयालिनी ॥ १२१॥
लोकेश्वरी लोकधात्री लाटस्था लक्षणाकृतिः ।
लम्बा लम्बकचोल्लासा लकाराकारवर्धिनी ॥ १२२॥
लिङ्गेश्वरी लिङ्गलिङ्गा लिङ्गमाला लसद्द्युतिः ।
लक्ष्मीरूपा रसोल्लासा रामा रेवा रजस्वला ॥ १२३॥
लयदा लक्षणा (९००) लोला लकाराक्षरमातृका ।
वाराही वरदात्री च वीरसूर्वीरदायिनी ॥ १२४॥
वीरेश्वरी वीरजन्या वीरचर्वणचर्चिता ।
वरायुधा वराका च वामना वामनाकृतिः ॥ १२४॥
वधूता वधका वध्या वध्यभूर्वाणिजप्रिया ।
वसन्तलक्ष्मीर्वटुकी वटुका वटुकेश्वरी ॥ १२६॥
वटुप्रिया वामनेत्रा वामाचारैकलालसा ।
वार्ता वाम्या वरारोहा वेदमाता वसुन्धरा ॥ १२७
वयोयाना वयस्या च वकाराक्षरमातृका ।
शम्भुप्रिया शरच्चर्या शाद्वला शशिवत्सला ॥ १२८॥
शीतद्युतिः शीतरसा शोणोष्ठी शीकरप्रदा ।
श्रीवत्सलाञ्छना शर्वा शर्ववामाङ्गवासिनी ॥ १२९॥
शशाङ्कामललक्ष्मीश्च शार्दूलतनुरद्रिजा ।
शोषहर्त्री शमीमूला शकाराकृतिशेखरा ॥ १३०॥
षोडशी षोडशीरूपा षढा षोढा षडानना ।
षट्कूटा षड्रसास्वादा षडशीतिमुखाम्बुजा ॥ १३१॥
षडास्यजननी षण्ठा षवर्णाक्षरमातृका ।
सारस्वतप्रसूः सर्वा सर्वगा सर्वतोमुखा ॥ १३२॥
समा सीता सतीमाता सागराभयदायिनी ।
समस्तशापशमनी सालभञ्जी सुदक्षिणा ॥ १३३॥
सुषुप्तिः सुरसा साध्वी सामगा सामवेदजा ।
सत्यप्रिया सोममुखी सूत्रस्था सूतवल्लभा ॥ १३४॥
सनकेशी सुनन्दा च स्ववर्गस्था सनातनी ।
सेतुभूता समस्ताशा सकाराक्षरवल्लभा ॥ १३४॥
हालाहलप्रिया हेला हाहारावविभूषणा ।
हाहाहूहूस्वरूपा च हलधात्री हलिप्रिया ॥ १३६॥
हरिनेत्रा घोररूपा हविष्या हूतिवल्लभा ।
हं क्षं लं क्षः स्वरूपा च सर्वमातृकपूजिता ॥ १३७॥
ॐ ऐं सौः ह्रीं महाविद्या आं शां फ्रां हूंस्वरूपिणी । (१०००)
इति श्रीशारिकादेव्या मन्त्रनामसहस्रकम् ॥ १३८॥
॥ फल श्रुति ॥
पुण्यं पुण्यजनस्तुत्यं नुत्यं वैष्णवपूजितम् ।
इदं यः पठते देवि श्रावयेद्यः शृणोति च ॥ १३९
स एव भगवान् देवः सत्यं सत्यं सुरेश्वरि ।
एककालं द्विकालं वा त्रिकालं पठते नरः ॥ १४०
वामाचारपरो देवि तस्य पुण्यफलं शृणु ।
मूकत्वं बधिरत्वं च कुष्ठं हन्याच्च श्वित्रिकाम् ॥ १४१॥
वातपित्तकफान् गुल्मान् रक्तस्रावं विषूचिकाम् ।
सद्यः शमयते देवि श्रद्धया यः पठेन्निशि ॥ १४२॥
अपस्मारं कर्णपीडां शूलं रौद्रं भगन्दरम् ।
मासमात्रं पठेद्यस्तु स रोगैर्मुच्यते ध्रुवम् ॥ १४३॥
भौमे शनिदिने वापि चक्रमध्ये पठेद्यदि ।
सद्यस्तस्य महेशानि शारिका वरदा भवेत् ॥ १४४॥
चतुष्पथे पठेद्यस्तु त्रिरात्रं रात्रिव्यत्यये ।
दत्त्वा बलिं सुरां मुद्रां मत्स्यं मांसं सभक्तकम् ॥ १४५
वब्बोलत्वग्रसाकीर्णं शारी प्रादुर्भविप्यति ।
यः पठेद् देवि लोलायां चितायां शवसन्निधौ ॥ १४६॥
पायम्पायं त्रिवारं तु तस्य पुण्यफलं शृणु ।
ब्रह्महत्यां गुरोर्हत्यां मद्यपानं च गोवधम् ॥ १४७॥
महापातकसङ्घातं गुरुतल्पगतोद्भवम् ।
स्तेयं वा भ्रूणहत्यां वा नाशयेन्नात्र संशयः ॥ १४८॥
स एव हि रमापुत्रो यशस्वी लोकपूजितः ।
वरदानक्षमो देवि वीरेशो भूतवल्लभः ॥ १४९॥
चक्रार्चने पठेद्यस्तु साधकः शक्तिसन्निधौ ।
त्रिवारं श्रद्धया युक्तः स भवेद्भैरवेश्वरः ॥ १५०॥
किङ्किं न लभते देवि साधको वीरसाधकः ।
पुत्रवान् धनवांश्चैव सत्याचारपरः शिवे ॥ १५१॥
शक्तिं सम्पूज्य देवेशि पठेत् स्तोत्रं परामयम् ।
इह लोके सुखं भुक्त्वा परत्र त्रिदिवं व्रजेत् ॥ १५२॥
इति नामसहस्रं तु शारिकाया मनोरमम् ।
गुह्याद्गुह्यतमं लोके गोपनीयं स्वयोनिवत् ॥ १५३॥
॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये
श्रीशारिकायाः सहस्रनामस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by DPD, NA