शारदे नृत्यतु मम वदने
शारदे, गानविशारदे ! विलसतु भवती मानससदने ।
संस्कृतभाषाभूषितवेषा नृत्यतु नित्यं मम वदने ॥
ऋषिमुनिगदितानि वेदपुराणानि दार्शनिकानां विविधमतानि ।
कविवररचितानि काव्यनाट्यादीनि भवन्तु भारति भवदाभरणानि ॥
वीणानिनाद इव नादमयी वाणी प्रभवतु कण्ठे भवती दयया ।
जगदखिलं नयतु नादविलीनं शान्तिमयं भवतु मनुकुलहृदयम् ॥
--- गुण्ड्मि गणपय्यहोळ्ळः