श्रीशारदास्तुतिः
करोतु कल्याणपरम्परां नः
कारुण्यवाराशिरपाङ्गपातैः ।
कल्याणशैलप्रतिमस्तनाढ्या
कञ्जातसञ्जातमनोज्ञजाया ॥ १॥
एणाङ्कगर्वापहृतिप्रचण्ड-
तुण्डाधराधःकृतपक्वबिम्बा ।
एकान्तवासादरशालिमौनि-
लभ्याङ्घ्रिपद्मावतु वाक्सवित्री ॥ २॥
ईशाजविष्ण्वादिसुरार्च्यमाना
कुन्देन्दुशङ्खस्फटिकाच्छकान्तिः ।
ईहावियुक्ताप्यनिजस्वरूपा
बालेन्दुचूडावतु भारती नः ॥ ३॥
लक्ष्मीशिवाशोभितपार्श्वभागा
शचीप्रमुख्यामरमानिनीड्या ।
ललामराजन्निटिलप्रदेशा
वीणालसत्पाणिरवत्वजस्रम् ॥ ४॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीशारदास्तुतिः समाप्ता ।
Proofread by PSA Easwaran