श्रीशारदास्तोत्रम्
विबुधवन्दिते बुधजनाश्रिते ।
जननि शारदे भवतु ते कृपा ॥ १॥
मतिविकासिते मतिविशोधिते ।
मतिवरार्चिते कुरु कृपां शिवे ॥ २॥
विमलबोधिते निजसुखात्मिके ।
यदि तु ते कृपा स तु सुखी भवेत् ॥ ३॥
जननि ते पदं जडविभासकम् ।
स्फुरत् सर्वदा स्फुटतरं हृदि ॥ ४॥
चिदवलम्ब्य हे जननि मन इदम् ।
अति सुशोभनं विशतु तव पदम् ॥ ५॥
तव सुशोभनं विमलरूपकम् ।
जगति विस्तृतं कुरु दयान्विते ॥ ६॥
तव कृपान्विता जगति नैकशा- ।
स्तिमिरहारकाः सन्तु बुधजनाः ॥ ७॥
मलहरात्मके विमलजनपुरे ।
जननि त्वं सदा निवस ज्ञानदे ॥ ८॥
जयतु जयतु नित्यं शारदा वेदमाता (मालिनीवृत्तम्)
जयतु जयतु देवी ज्ञानदा मोक्षदा च ।
जयतु जयतु या श्रीः सर्वदेवैरूपास्या
जयतु जयतु नित्यं भारती चित्स्वरूपा ॥ ९॥
इति श्री श्रीधरस्वामीविरचितं श्रीशारदास्तोत्रं सम्पूर्णम् ॥
रचनास्थल शिगेहॡ शके १८६४
Composed on the occasion of inauguration of shigehaLLI vedapAThashAlA