श्रीशारदास्तोत्रम् ३
निदानमनुकम्पायाः पदाधःकृतपङ्कजाम् ।
सदा नम्रालिसुखदां कदा द्रक्ष्यामि शारदाम् ॥ १॥
विदामग्रसरो भूयाद्यदालोकनमात्रतः ।
रदालिजितकुन्दां तां कदा द्रक्ष्यामि शारदाम् ॥ २॥
अम्भोदनीलचिकुरां कुम्भोद्भवनिषेविताम् ।
दम्भोलिधारिसंसेव्यां कदा द्रक्ष्यामि शारदाम् ॥ ३॥
रम्भानिभोरुयुगलां कुम्भाभस्तनराजिताम् ।
शुम्भादिदैन्यशमनीं कदा द्रक्ष्यामि शारदाम् ॥ ४॥
अव्याजकरुणामूर्तिं सुव्याहारप्रदायिनीम् ।
रव्यादिमण्डलान्तःस्थां कदा द्रक्ष्यामि शारदाम् ॥ ५॥
मह्यम्ब्वादिजगद्रूपां मह्यं लोकेषु ये जनाः ।
द्रुह्यन्ति तेषां भयदां कदा द्रक्ष्यामि शारदाम् ॥ ६॥
शल्यापहारचतुरां वल्याशासितमार्दवाम् ।
कल्याणदाननिरतां कदा द्रक्ष्यामि शारदाम् ॥ ७॥
अस्मानवाप्तकामांस्ते यस्मात्प्रकुरुते कृपा ।
तस्मात्कृतोपकारां त्वां कदा द्रक्ष्यामि शारदाम् ॥ ८॥
कुन्देन्दुदुग्धधवलां मन्देतरधनं जवात् ॥
विन्देद्यदङ्घ्रिनम्रस्तां कदा द्रक्ष्यामि शारदाम् ॥ ९॥
वन्दारुजनवृन्दानां मन्दारव्रतधारिणीम् ।
वृन्दारकेन्द्रविनुतां कदा द्रक्ष्यामि शारदाम् ॥ १०॥
क्षमानिर्धूतवसुधां शमादिगुणदायिनीम् ।
रमासंस्तुतचारित्रां कदा द्रक्ष्यामि शारदाम् ॥ ११॥
समाराधयतां नैव यमाद्भीर्यत्पदाम्बुजे ।
समाधिमात्रगम्यां तां कदा द्रक्ष्यामि शारदाम् ॥ १२॥
सुमालिविलसद्ग्रीवां समानाधिकवर्जिताम् ।
कुमारगणनाथेड्यां कदा द्रक्ष्यमि शारदाम् ॥ १३॥
सामादिवेदविनुतां भूमानन्दप्रदायिनीम् ।
सीमातिलङ्घिकरुणां कदा द्रक्ष्यामि शारदाम् ॥ १४॥
गण्डाग्रराजत्कस्तूरी खण्डान्यसुखदायिनीम् ।
शुण्डालास्याग्निभूसेव्यां कदा द्रक्ष्यामि शाग्वाम् ॥ १५॥
तुण्डाधरीकृतविधुं चण्डाज्ञाननिवारिणीम् ।
भण्डादिदैत्यदर्पघ्नीं कदा द्रक्ष्यामि शारदाम् ॥ १६॥
जुष्ट्वा वेदशिरोवाग्भिरिष्ट्वा च विविधैर्मखैः ।
दृष्ट्वा हृष्यन्ति लोके यां कदा द्रक्ष्यामि शारदाम् ॥ १७॥
तेजोविजितगाङ्गेयां रजोगुणनिवारिणीम् ।
भुजोद्धृतबिसाहन्तां कदा द्रक्ष्यामि शारदाम् ॥ १८॥
दिवाकरेन्दुताटङ्कां प्रवाहकविताप्रदाम् ।
सवादिकर्मभिस्तुष्टां कदा द्रक्ष्यामि शारदाम् ॥ १९॥
लवाद्यस्याः कटाक्षस्य सवाजिरथकुञ्जराम् ।
अवाप्नुयाच्छ्रियं लोकः कदा द्रक्ष्यामि शारदाम् ॥ २०॥
दुर्लभां दुष्टमनसां सुलभां शुद्धचेतसाम् ।
वलन्मुक्तासरां कण्ठे कदा द्रक्ष्यामि शारदाम् ॥ २१॥
द्राक्षासदृक्षवाग्दात्रीं वीक्षापालितविष्टपाम् ।
लाक्षारञ्जितपादाब्जां कदा द्रक्ष्यामि शारदाम् ॥ २२॥
धृत्वा लक्ष्यं भ्रुवोर्मध्ये कृत्वा कुम्भकमादरात् ।
ध्यात्वा हृष्यन्ति यां लोकाः कदा द्रक्ष्यामि शारदाम् ॥ २३॥
निष्पापाराध्यचरणां दुष्प्रापामकृतात्मभिः ।
पुष्पालिगर्भितकचां कदा द्रक्ष्यामि शारदाम् ॥ २४॥
नीलाम्बुजतुल्यनयनां बालाब्जविलसत्कचाम् ।
कैलासनाथविनुतां कदा द्रक्ष्यामि शारदाम् ॥ २५॥
लीलानिर्मितलोकालिं लोलामम्बुजसम्भवे ।
कालाटवीदवशिखां कदा द्रक्ष्यामि शारदाम् ॥ २६॥
पुराणागमसंवेद्यां विरागिजनसेविताम् ।
कराग्रविलसन्मालां कदा द्रक्ष्यामि शारदाम् ॥ २७॥
मुरारिमुखसंसेव्यां सुरारिमदमर्दिनीम् ।
स्वरादिभुवनाधीशां कदा द्रक्ष्यामि शारदाम् ॥ २८॥
सुराचार्यसदृक्षः स्याद्गिरा यत्पदपूजकः ।
चराचरजगत्कर्त्रीं कदा द्रक्ष्यामि शारदाम् ॥ २९॥
वीराराध्यपदाम्भोजां क्रूरामयविनाशिनीम् ।
घोरापस्मारशमनीं कदा द्रक्ष्यामि शारदाम् ॥ ३०॥
शरणं सर्वलोकानां शरदभ्रनिभाम्बराम् ।
करराजद्बोधमुद्रां कदा द्रक्ष्यामि शारदाम् ॥ ३१॥
स्मरणात्सर्वपापघ्नीं चरणाम्बुजयोः सकृत् ।
वरदां पदनम्रेभ्यः कदा द्रक्ष्यामि शारदाम् ॥ ३२॥
पर्णाहारैः सेव्यमानां कर्णाग्रलसदुत्पलाम् ।
स्वर्णाभरणसंयुक्तां कदा द्रक्ष्यामि शारदाम् ॥ ३३॥
पूर्णचन्द्रसमानास्यां तूर्णमिष्टप्रदायिनीम् ।
चूर्णयन्तीं पापवृन्दं कदा द्रक्ष्यामि शारदाम् ॥ ३४॥
प्रभाजिततटित्कोटिं सभासु प्रतिभाप्रदाम् ।
विभावरीशतुल्यास्यां कदा द्रक्ष्यामि शारदाम् ॥ ३५॥
मत्तमातङ्गगमनां चित्तपद्मगतां सताम् ।
वित्तनाथार्चितपदां कदा द्रक्ष्यामि शारदाम् ॥ ३६॥
यतिनाथसमाराध्यां मतिदानधुरन्धराम् ।
पतितायापि वरदां कदा द्रक्ष्यामि शारदाम् ॥ ३७॥
यथा दुष्टा लिपिर्वैधी वृथा स्यान्नम्रफालगा ।
तथा करोति यद्ध्यानं कदा द्रक्ष्यामि शारदाम् ॥ ३८॥
रोगालिवारणचणां भोगानां पूगदायिनीम् ।
योगाभ्यासरतध्येयां कदा द्रक्ष्यामि शारदाम् ॥ ३९॥
विधातुममरान्नम्रान्सुधाकलशधारिणीम् ।
क्रुधारहितहृल्लभ्यां कदा द्रक्ष्यामि शारदाम् ॥ ४०॥
वीतां निर्जरनारीभिर्गीतां गन्धर्वगायकैः ।
पीताम्बरादिविनुतां कदा द्रक्ष्यामि शारदाम् ॥ ४१॥
शिक्षिताखिलदैतेयां कुक्षिस्थितजगत्त्रयीम् ।
रक्षितामरसन्दोहां कदा द्रक्ष्यामि शारदाम् ॥ ४२॥
शिखाभिर्गीतमाहात्म्यां सुखाराध्यपदां श्रुतेः ।
नखांशुजितचन्द्राभां कदा द्रक्ष्यामि शारदाम् ॥ ४३॥
शोकापहारचतुरां राकाचन्द्रसमाननाम् ।
केकासदृशवाग्भङ्गीं कदा द्रक्ष्यामि शारदाम् ॥ ४४॥
शृङ्गाद्रिवासनिरतां गङ्गाधरसहोदरीम् ।
तुङ्गातटचरीं भूयः कदा द्रक्ष्यामि शारदाम् ॥ ४५॥
शृङ्गारजन्मधरणिं गङ्गां तापनिवारणे ।
तुङ्गां पयोधरयुगे कदा द्रक्ष्यामि शारदाम् ॥ ४६॥
सुयशोदाननिरतां शयनिर्जितपल्लवाम् ।
इयत्तातीतसौन्दर्यां कदा द्रक्ष्यामि शारदाम् ॥ ४७॥
स्वर्गापवर्गसुखदां दुर्गापद्विनिवारिणीम् ।
दुर्गाशाकम्भरीरूपां कदा द्रक्ष्यामि शारदाम् ॥ ४८॥
कदा शृङ्गगिरिं द्रक्ष्ये कदा तुङ्गां पिबाम्यहम् ।
कदा स्तोष्येऽग्रतो देव्याः कदा द्रक्ष्यामि शारदाम् ॥ ४९॥
कदा पापक्षयो भूयात्कदा पुण्यसमागमः ।
कदा पदे नमस्यामि कदा द्रक्ष्यामि शारदाम् ॥ ५०॥
सुहृदः शत्रवो वा मे ये सन्ति भुवि शारदे ।
अविशेषेण सर्वांस्तान्पाहि दत्त्वा शुभां धियम् ॥ ५१॥
शारदे त्वत्पदाम्भोजलोलम्बायितमानसः ।
अकार्षं स्तोत्रमेतच्छ्रीसच्चिदानन्दनामकः ॥ ५२॥
य इदं प्रपठेद्भक्त्या शारदास्तोत्रमण्डलम् ।
प्राप्नोति सततं लोके मङ्गलानां स मण्डलम् ॥ ५३॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं शारदास्तोत्रं (३) सम्पूर्णम् ।
Proofread by PSA Easwaran