श्रीशारदाम्बा स्तुतिः
ॐ श्री ।
श्रीशङ्कर ।
(शार्दूलविक्रीडित)
श्रीमच्छङ्करदेशिकेन्द्रभगवत् सम्पूजितामुत्तमां
लक्ष्म्यादित्रितयान्वितां सुखमयीं श्रीचक्रयन्त्रस्थिताम् ।
विश्वोत्पत्तिलयस्थितिं विदधतीं श्रीराजराजेश्वरीं
शृङ्गेरीपुरवासिनीं भगवतीं श्रीशारदाम्बां भजे ॥ १॥
द्वैताद्वैतमतानुयाय्यभिमतां विद्वद्वरैर्वन्दितां
सर्वैर्दर्शनसङ्ग्रहैर्विरचितख्यातक्कणन्नूपुराम् ।
मोहध्वान्तविनाशिनीं कलिमलप्रध्वंसिनीं तारिणीं
शृङ्गेरीपुरवासिनीं भगवतीं श्रीशारदाम्बां भजे ॥ २॥
वेदोद्यानविहारिणीं उपनिषत्तत्त्वार्थसंरक्षिणीं
नानाशास्त्रकलापिनीं मुखलसद् ब्रह्मप्रभाशोभिनीम् ।
तुङ्गातीरसमुल्लसद्वनभुवां सौन्दर्यमास्वादिनीं
शृङ्गेरीपुरवासिनीं भगवतीं श्रीशारदाम्बां भजे ॥ ३॥
रत्नाभूषणभूषितां स्मितमुखीं दिव्याम्बरालङ्कृतां
वाणीं कामदुहां वराभयकरां प्रेमप्रसन्नाननाम् ।
वात्सल्यामृतवर्षिनेत्रयुगुलां सर्वात्मिकां चिन्मयीं
शृङ्गेरीपुरवासिनीं भगवतीं श्रीशारदाम्बां भजे ॥ ४॥
भावाकर्षकहेमकान्तिमतुलां दिव्यप्रभाभास्वरां
भक्तानां वरदायिनीं शुभकरीं सच्चित्सुखान्दोलिनीम् ।
सर्वापन्नगवज्रसन्निभपदां वन्द्यां जगन्मातरं
शृङ्गेरीपुरवासिनीं भगवतीं श्रीशारदाम्बां भजे ॥ ५॥
इति स्वामी वरदानन्दभारतीविरचिता श्रीशारदाम्बास्तुतिः सम्पूर्णा ।
भावार्चना (प्राचार्य अ. दा. आठवले)
https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496
Encoded and proofread by Arun Parlikar