श्रीशारदादशकम्
(श्रीकालटिक्षेत्रे)
करवाणि वाणि किं वा जगति प्रचयाय धर्ममार्गस्य ।
कथयाशु तत्करोम्यहमहर्निशं तत्र मा कृथा विशयम् ॥ १॥
गणनां विधाय मत्कृतपापानां किं धृताक्षमालिकया ।
तान्ताद्याप्यसमाप्तेर्निश्चलतां पाणिपङ्कजे धत्से ॥ २॥
विविधाशया मदीयं निकटं दूराज्जनाः समायान्ति ।
तेषां तस्याः कथमिव पूरणमहमम्ब सत्वरं कुर्याम् ॥ ३॥
गतिजितमरालगर्वां मतिदानधुरन्धरां प्रणम्रेभ्यः ।
यतिनाथसेवितपदामतिभक्त्या नौमि शारदां सदयाम् ॥ ४॥
जगदम्बां नगतनुजाधवसहजां जातरूपतनुवल्लीम् ।
नीलेन्दीवरनयनां बालेन्दुकचां नमामि विधिजायाम् ॥ ५॥
भारो भारति न स्याद्वसुधायास्तद्वदम्ब कुरु शीघ्रम् ।
नास्तिकतानास्तिकताकरणात्कारुण्यदुग्धवाराशे ॥ ६॥
निकटेवसन्तमनिशं पक्षिणमपि पालयामि करतोऽहम् ।
किमु भक्तियुक्तलोकानिति बोधार्थं करे शुकं धत्से ॥ ७॥
शृङ्गाद्रिस्थितजनतामनेकरोगैरुपद्रुतां वाणि ।
विनिवार्य सकलरोगान्पालय करुणार्द्रदृष्टिपातेन ॥ ८॥
मद्विरहादतिभीतान्मदेकशरणानतीव दुःखार्तान् ।
मयि यदि करुणा तव भो पालय शृङ्गाद्रिवासिनो लोकान् ॥ ९॥
सदनमहेतुकृपाया रदनविनिर्धूतकुन्दगर्वालिम् ।
मदनान्तकसहजातां सरसिजभवभामिनीं हृदा कलये ॥ १०॥ var मदनरिपुसहोत्थां
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीशारदादशकं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com