श्रीशारदाष्टकम्
सकलनिगमसारे वेदवेदान्तवेद्ये
प्रणतजनमनोज्ञे शृङ्गपूर्वासचित्ते ।
निखिलसुकविगीते शङ्करास्याब्जहंसे
त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ १॥
विधिवदननिवासे चारुचन्द्राभवक्त्रे
सकलविबुधवन्द्ये सर्वलोकैकमान्ये ।
वचसि रुचिरशक्तेर्दानशीले ममाम्ब
त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ २॥
निजशिशुसमवायानक्षरारम्भकार्ये
प्रतिदिनमवलोक्य स्वच्छविद्या ददासि ।
विधिहरिहरमुख्यास्त्वत्प्रसादाज्जयन्ति
त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ३॥
कनककलशरम्ये दक्षिणाम्नायपीठे
मणिगणयुतहारैर्भूषिता पट्टवस्त्रैः ।
गुरुवरकरपद्मेनार्चिता दिव्यमन्त्रैः
त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ४॥
करितुरगसुवाद्यैर्नृत्यसङ्गीतघोषैः
परमगुरुवरेण्यैर्भक्तवृन्दैश्च युक्ता ।
निरुपमरथमध्ये दिव्यरूपा व्रजन्ती
त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ५॥
तव पदयुगलं हि प्रत्यहं प्राप्य भक्ताः
भजननमनपूजा भक्तिभावैर्विधाय ।
सकलपुरुषकाम्यं प्राप्नुवन्तीह मात-
र्त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ६॥
प्रथमनमनयोग्यं शक्तियुक्तं गणेशं
नतिरतबटुवृन्दाः पूजयन्ति प्रदोषे ।
तदनु निखिलकाम्यं वीक्ष्य तेभ्यो ददासि
त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ७॥
श्रुतिनिगदितयागान् कुर्वते श्रद्धदानाः
बहुविधधनधान्यान्यर्पयन्त्यत्र केचित् ।
कथमहमतिदीनः शक्तिहीनो भजेयं
त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ८॥
इति शृङ्गगिरिस्थस्य राष्ट्रियसंस्कृतसंस्थानान्तर्गतस्य
राजीवगान्धीपरिसरस्य प्राचार्यैः आचार्यैः
ए. पि. सच्चिदानन्द-उडुपवर्यैः विरचितं शारदाष्टकं सम्पूर्णम् ।
रचयिता ए. पि. सच्चिदानन्द उडुपवर्यः प्राचार्यः,
राजीवगान्धीपरिसरः, शृङ्गगिरिः
गायनः आयुष्मान् चिन्मयभट्टः