शान्तिप्रार्थना
माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् ।
अनिराकरणं मेऽस्तु अनिराकरणं मम ॥ १॥
स्वाविद्यैकनिबद्धोऽकरवं कर्माणि मुह्यमानः सन् ।
दैवाद्विधूतबन्धः स्वात्मज्ञानान्मुनिः स्यां वा ॥ २॥
मायावशेन सुप्तो मध्येऽपश्यं सहस्रशः स्वप्नान् ।
देशिकवचः प्रबुद्धो दीव्येयं मोदवारिधौ किं वा ॥ ३॥
जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि ।
परिशिष्टमात्मतत्त्वं पश्येयं वा मुनिः शान्तः ॥ ४॥
जगदखिलमिदमसारं मायिकमेवेति मनसि मननेन ।
पर्यटनपाटिताशः प्रगलितमदमत्सरः स्यां वा ॥ ५॥
त्वमहमभिमानविहीनो मोदितनानाजनाचारः ।
बालाचरितः स्यां वा विमलसुखाम्भोनिधौ मग्नः ॥ ६॥
अवधूतकर्मजालो जडबधिरान्धोपमाचारः ।
आत्मारामो यतवागकुतश्चनवसतिरासीय ॥ ७॥
चपलं मनःकुरङ्गं चारु निगृह्णन्विमर्शवागुरया ।
निगमारण्यविहारश्रान्तं शान्तं विदध्यां वा ॥ ८॥
सन्त्यज्य शास्त्रवार्ताः संव्यवहारं च लौकिकं त्यक्त्वा ।
अन्तरनुसन्दधन्मनुं ते स्यां वा निष्कम्पदीपवद्योगी ॥ ९॥
जात्यभिमानविहीनो जन्तुषु सर्वत्र पूर्णतां पश्यन् ।
भूतं भावि च न विदन् निर्मृष्टाशेषविषयेहः ॥ १०॥
त्यजतश्च न सम्पन्नं नासम्पन्नं च वाञ्छतः क्वापि ।
तृप्तिमनुत्तमसीमां लब्धवतः किं लभेय पदम् ॥ ११॥
इति शान्तिप्रार्थना समाप्ता ।
Proofread by PSA Easwaran