श्रीशान्तादुर्गा प्रणाममन्त्रः
आदिशक्तिर्महामाये सच्चिदानन्द(स्व)रूपिणी ।
पालनार्थं स्वभक्तानां शान्तादुर्गाभिधामता ॥ १॥
नमो दुर्गे महादुर्गे नवदुर्गास्वरूपिणी ।
कैवल्यवासिनी श्रीमच्छान्तादुर्गे नमोऽस्तु ते ॥ २॥
शान्त्यै नमोऽस्तु शरणागतरक्षणायै
कान्त्यै नमोऽस्तु कमनीयगुणाश्रयायै ।
क्षात्यै नमोऽस्तु दुरितक्षयकारणायै
धान्त्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥ ३॥
शान्तादुर्गे नमस्तुभ्यं सर्वकामार्थसाधिके ।
मम सिद्धिमसिद्धिं वा स्वप्ने सर्वं प्रदर्शय ॥ ४॥
शान्तादुर्गे जगन्माते शरणागतवत्सले ।
कैवल्यवासिनी देवि शान्तादुर्गे नमोऽस्तु ते ॥ ५॥
इति श्रीशान्तादुर्गा प्रणाममन्त्रः सम्पूर्णः ।