श्री शाकम्भरीध्यानम्
ध्यानम् ।
शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया
शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ।
श्यामाङ्गी शरणागतार्तिशमनी शक्रादिभिः शंसिता
शङ्कर्यष्टफलप्रदा भगवती शाकम्भरी पातु माम् ॥ १॥
शूलं पाशकपालचापकुलिशान्बाणान्सृणिं खेटकां
शङ्कं चक्रगदाहिखड्गमभयं खट्वाङ्गदण्डान्धराम् ।
वर्षाभाववशाद्धतान्मुनिगणान्शाकेन या रक्षति
लोकानां जननीं महेशदयितां तां नौमि शाकम्भरीम् ॥ २॥
सौवर्णसिंहासनसंस्थितां शिवां त्रिलोचना चन्द्रकलावतंसिकाम् ।
शूलं कपालं निजवामहस्तयोस्तदन्ययोः खड्गमभीतिमुद्रिकाम् ॥ ३॥
पाण्योर्दधानां मणिभूषणाज्ज्वलां सुवाससं माल्यविलेपनाञ्चिताम् ।
प्रसन्नावक्त्रां परदेवता मुदा ध्यायामि भक्त्या वनशङ्करीं हृदि ॥ ४॥
खड्गं घण्टां त्रिशूलं लिपिविशदतरं बिभ्रतीं दक्ष हस्तैः
पात्रं शीर्षं सुखेटं डमरुकमनिशं वामहस्तैस्त्रिनेत्राम् ।
सिंहस्थां तारहारां गदमणिमुकुटां द्योतयन्तीं प्रसन्नां
वन्दे पूर्णेन्दुबिम्बां प्रतिरुचिरमुखीं शङ्करीं शंकरेष्टाम् ॥ ५॥
शूलं खड्गं च डमरुं दधानामभयप्रदम् ।
सिंहासनस्थां ध्यायामि देवी शाकम्भरीमहम् ॥ ६॥
ॐ शताक्श्यै नमः ।
ॐ शाकम्भर्यै नमः ।
ॐ वनश्ङ्करी नमः ॥