श्रीशाकम्भरी आरती २
जय देवि जय देवि जय जगदाधारे ।
शाकम्भरि विश्वेश्वरि जय तिलकागारे ॥ ध्रु०॥
वर्षाभावान्मातः शतवर्षम्भुवनम् ।
अन्नाभावाज्जातं कामदभिपन्नम् ।
चक्षुःशतकाद्वर्षं वर्षन्त्या भुवनम् ।
शताक्षिरक्षितमेतद्दत्वा पूर्णान्नम् ॥ १॥
निजतनुसम्भवशाकैरक्षितमितिभुवनम् ।
शाकम्भरीतिनाम प्राप्तं त्वघशमनम् ।
लोकत्रयपीडाकर दुर्गासुर हननात् ।
दुर्गेत्याख्या जाता शिवसुन्दरि मान्या ॥ २॥
त्वमेव माया प्रकृतिर्जननी त्वं शान्ता ।
त्वमेव बाला बगला दुर्गा त्वं ललिता ।
त्वमेव भीमा त्वमेव हिमवद्गिरिजाता ।
त्वमेव वाणी लक्ष्मीस्त्वं रघुसुतमाता ॥ ३॥
NA