श्रीसौभाग्यकवचम् २
ॐ श्रीगणेशाय नमः ।
श्रीगुरुभ्योनमः हरिः ॐ ।
कैलासशिखरे रम्ये सुखसीनं सुरार्चितम् ।
गिरीशं गिरिजा नत्वा स्तोत्रैर्वेदार्थगोचरैः ॥ १॥
प्रणम्य परया भक्त्या तमपृच्छत्कृताञ्जलिः ।
श्रीदेव्युवाच -
रहस्यं रक्षणकरं सर्वसम्पत्करं वद ॥ २॥
ईश्वर उवाच -
एतत्सौभाग्यकवचं रहस्यातिरहस्यकम् ।
सौभाग्यकवचं देवि शृणु सौभाग्यदं परम् ॥ ३॥
(मूलविद्यया ऋष्यादिन्यासम्)
ध्यानम् -
शोणप्रभं सोमकलावतंसं पाणिस्फुरत्पञ्चशरेक्षुचापम् ।
प्राणप्रियं नौमि पिनाकपाणिं कोणत्रयस्थं कुलदैवतं मे ॥
इक्षुकोदण्डपुष्पेषुपाशाङ्कुशचतुर्भुजाम् ।
उद्यत्सूर्यनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ॥
अथ कवचम् ।
ॐ शिखायां सततं पातु महात्रिपुरसुन्दरी ।
शिरः कमेश्वरी नित्या तत्पूर्वाङ्गं भगमालिनी ॥ १॥
नित्यक्लिन्ना च तद्दक्षं भेरुण्डा पश्चिमं शिरः ।
वह्निवासिन्यस्य वामं वज्रेश्वर्यलकांस्तथा ॥ २॥
शिवदूती ललाटं च त्वरिता तस्य दक्षिणम् ।
तद्वामपार्श्वमवतात्तथैव कुलसुन्दरी ॥ ३॥
नित्या पातु भ्रुवोर्मध्यं भ्रुवं नीलपताकिनी ।
वामभ्रुवं च विजया नयनं सर्वमङ्गला ॥ ४॥
ज्वालामालिन्यक्षि वामं चित्रा रक्षतु नासिकाम् ।
दक्षश्रोत्रं तु गणपः स्वयं पातु महोद्यमः ॥ ५॥
दक्षसव्यन्तु बटुकः कपोलं क्षेत्रपालकः ।
दक्षनासापुटं दुर्गा तदन्यं पातु भारती ॥ ६॥
अणिमा दक्षिणं शङ्खं महिमा च तदन्यकम् ।
दक्षगण्डं तु गरिमा लधिमा चोत्तरं तथा ॥ ७॥
ऊर्ध्वमोष्ठं प्राप्तिसिद्धिः प्राकाम्यमधरोष्ठकम् ।
ईषित्वमूर्ध्वदन्तांश्च वशित्वमधरांस्तथा ॥ ८॥
इछासिद्धिस्तु रसनां मोक्षसिद्धिस्तु तलुकम् ।
तालुमूलद्वयं ब्राह्मी माहेश्वर्यौत्तरक्षताम् ॥ ९॥
कुमारी चिबुकं पातु तदधः पातु वैष्णवी ।
कण्ठं रक्षतु वाराही इन्द्राणी रक्षतादधः ॥ १०॥
कृकाटिकां तु चामुण्डा महालक्ष्मीस्तु सर्वतः ।
सर्वसंक्षोभिणीमुद्रा स्कन्धं रक्षतु दक्षिणम् ॥ ११॥
तदन्यं द्राविणीमुद्रा पायादंसद्वयं क्रमात् ।
आकर्षवश्यमुद्रे द्वे चोन्मादिन्यथ दक्षिणम् ॥ १२॥
भुजं महाङ्कुशा वामं खेचरी दक्षकक्षकम् ।
वामकक्षं बीजमुद्रा योनिःस्थाद्दक्षबाहुकम् ॥ १३॥
लसत्त्रिखण्डिनी मुद्रा वामबाहुं प्रपालयेत् ।
कामाकर्षिणिका नित्यं रक्षताद्दक्षकूर्परम् ॥ १४॥
कूर्परं वाममवताद्बुध्याकर्षिणिका तथा ।
अहङ्काराकर्षिणी तु प्रकोष्ठं पातु दक्षिणम् ॥ १५॥
शब्दाकर्षिणिका वामं स्पर्शाकर्षिणिकावतु ।
तन्मध्यं दक्षिणं पातु रूपाकर्षिणिकेतरम् ॥ १६॥
रसाकर्षिणिका पातु मणिबन्धं च दक्षिणम् ।
गन्धाकर्षिणिका वामं चित्ताकर्षिणिकावतु ॥ १७॥
करभं दक्षिणं धैर्याकर्षिणी पातु वामकम् ।
स्मृत्याकर्षिण्यसौ पाणिं नामाकर्षिणि दक्षिणम् ॥ १८॥
बीजाकर्षिण्यसौ पायात्सततं दक्षिणाङ्गुलीः ।
आत्माकर्षिण्यदक्षिण्याममृताकर्षिणी नखान् ॥ १९॥
शरीराकर्षिणी वामनखान् रक्षतु सर्वदा ।
अनङ्गकुसुमा शक्तिः पातु दक्षस्तनोपरि ॥ २०॥
अनङ्गमेखला चान्यस्तनोर्ध्वमभिरक्षतु ।
अनङ्गमदना दक्षस्तनं तच्चूचुकं पुनः ॥ २१॥
रक्षतादनिशं देवी अनङ्गमदनातुरा ।
स्तनयोर्मध्यमं पायादनङ्गमदनातुरा
अनङ्गरेखा वामञ्च वक्षोजं तस्य चूचुकम् ॥ २२॥
अनङ्गवेगिनी क्रोडामनङ्गस्याङ्कुशावतु ।
अनङ्गमालिनी पायाद्वक्षस्थलमहर्निशम् ॥ २३॥
सर्वसंक्षोभिणी हृच्च सर्वविद्राविणी परा ।
कुक्षिं सर्वाकर्षिणी पातु पातु पार्श्वं तु दक्षिणम् ॥ २४॥
आह्लादिनी वामपार्श्वं मध्यं सम्मोहिनी परा ।
सा सर्वस्तम्भिनी पृष्ठं नाभिं वै सर्वजृम्भिणी ॥ २५॥
वशङ्करी वस्तिदेशं कटिं सा सर्वरञ्जिनी ।
उन्मादिनी तु सर्वाद्या पायाज्जघनमण्डलम् ॥ २६॥
सर्वार्थसाधिनीशक्तिर्नितम्बं रक्षतादथ ।
दक्षस्फिचं सदा पातु सर्वसम्पत्प्रपूरिणी ॥ २७॥
सर्वमन्त्रमयीशक्तिः पातु वामस्फिचं मम ।
पायात्ककुन्दरद्वन्द्वं सर्वद्वन्द्वक्षयङ्करी ॥ ३१॥
सर्वसिद्धिप्रदा देवी वृषणं पातु दक्षिणम् ।
सर्वसम्पत्प्रदा देवी वृषणं पातु वामकम् ॥ ३२॥
सर्वप्रियङ्करी देवी गुह्यं रक्षतु मे सदा ।
मेढ्रं रक्षतु मे देवी सर्वमङ्गलकारिणी ॥ ३३॥
सर्वकामप्रदा देवी पातु मुष्कं तु दक्षिणम् ।
तयोर्मद्ध्यं सदा पातु सर्वकामफलप्रदा ।
पायात्तदन्यं देवी तु सर्वदुःखविमोचिनी ॥ ३४॥
सर्वमृत्युप्रशमनी देवी पातु गुदं मम ।
पातु देवी देहमद्ध्यं सर्वविघ्ननिवारिणी ॥ ३५॥
सर्वाङ्गसुन्दरी देवी रक्षताद्दक्षसक्थिकम् ।
वामसक्थितलं पायत्सर्वसौभाग्यदायिनी ॥ ३६॥
अष्ठीवं मम सर्वज्ञा देवी रक्षतु दक्षिणम् ।
अन्यष्ठीवं सर्वशक्तिर्देवी पातु चिरं मम ॥ ३७॥
सर्वैश्वर्यप्रदा देवी दक्षजानुं सदावतु ।
सर्वज्ञानमयी देवी तदन्यज्जानु रक्षतु ॥ ३८॥
अव्यादियं दक्षजङ्घां सर्वव्याधिविनाशिनी ।
तदन्यं पातु देवी च सर्वाधारस्वरूपिणी ॥ ३९॥
सर्वपापहरा देवी दक्षगुल्भं सदावतु ।
सर्वानन्दमयी देवी वामगुल्फं सदावतु ॥ ४०॥
पार्ष्णिं मे दक्षिणं पायात्सर्वरक्षास्वरूपिणी ।
अव्यात्सव्यं सदा पार्ष्णिं सर्वेप्सितफलप्रदा ॥ ४१॥
दक्षाङ्घ्रिं वशिनी पातु पूर्वं वाग्देवता मम ।
सर्वकामेश्वरी पुर्वं सदा वाग्देवतोत्तरम् ॥ ४२॥
मोदिनी प्रपदं पातु दक्षिणं विमलेतरम् ।
अङ्गुलीररुणा पातु दक्षपादनखोज्ज्वला ॥ ४३॥
तदन्यं जयिनी पायात्सदा वाग्देवतेतरम् ।
दक्षपादलं सर्वेश्वरी वाग्देवता मुदा ॥ ४४॥
वामपादतलं पायात्कौलिनी देवता मम ।
कुर्वन्तु जृम्भणा बाणास्त्रैलोक्यकर्षणं मम ॥ ४५॥
मोहं संहरताद्दिक्षु कोदण्डं भृङ्गमौर्विकम् ।
करोतु सततं पाशी वशीकरणमुत्तमम् ॥ ४६॥
विदधात्वङ्कुशा नित्यं स्तम्भनं शत्रुसङ्गरे ।
पीठं मे कामरूपाख्या पातु कामान्निकामतः ॥ ४७॥
पूर्णं पूर्णगिरेः पीठं पायादर्थं मदीयकम् ।
जालन्धरस्य जालन्ध्रं पीठं रक्षतु मे सदा ॥ ४८॥
(/पूर्णं पुर्णागिरीपीठं पयादर्थं मदीयकम् ॥ ४८॥)
सायुज्यं तनुतां प्राज्यं श्रीपीठं श्रीकरं मम ।
कामेश्वरी चात्मतत्त्वं रक्षेद्वज्रेश्वरी च माम् ॥ ४९॥
विद्यातत्त्वं शैवतत्त्वं पायाच्छ्री भगमालिनी ।
कामं छिन्द्यान्महाशत्रुममृतार्णवमासनम् ॥ ५०॥
क्रोधं बोधापहं हन्याद्रक्तपोताम्बुजासनम् ।
लोभं दिव्यासनं भिन्द्याद्देव्यात्मा दिव्यरूपभाक् ॥ ५१॥
मोहं संहरताच्चक्रं मदं मन्त्रासनं महत् ।
मात्सर्यं नाशयेन्नित्यं मम साध्यासनं जवात् ॥ ५२॥
आधारं त्रिपुरा रक्षेत्स्वाधिष्ठानं पुरेश्वरी ।
मणिपूरं मणिद्योतं पायात्त्रिपुरसुन्दरी ॥ ५३॥
अव्यादनाहतं भव्यं नित्यं त्रिपुरवासिनी ।
विशुद्धं त्रिपुराश्रीश्च आज्ञा त्रिपुरमालिनी ॥ ५४॥
इडां मे त्रिपुरा सिद्धा त्रिपुराम्बा च पिङ्गलाम् ।
सुषुम्नां पातु मे नित्यं महात्रिपुरसुन्दरी ॥ ५५॥
त्रैलोक्यमोहनं चक्रं रोमकूपांश्च पातु मे ।
सर्वाशापूरकं चक्रं सप्तधातूंश्च रक्षतु ॥ ५६॥
सर्वसंक्षोभणं चक्रं प्राणाद्यं वायुपञ्चकम् ।
सौभाग्यदायकं चक्रं नागाद्यानिलपञ्चकम् ॥ ५७॥
सर्वार्थसाधकं चान्तःकरणानां चतुष्टयम् ।
सर्वरक्षाकरं चक्रं पायात्पूर्तेष्टकं च मे ॥ ५८॥
सर्वरोगहरं चक्रं रक्षतान्मे गुणत्रयम् ।
सर्वसिद्धिप्रदं चक्रं ममाव्यात्कोशपञ्चकम् ॥ ५९॥
सर्वानन्दमयं चक्रं यशः कीर्तिं च रक्षतु ।
सौन्दर्यमन्मथः पायाद्रतिः पातु रतिं मम ॥ ६०॥
प्रीतिर्मे पातु सा प्रीतिरुत्साहं च वसन्तकः ।
सङ्कल्पं कल्पकोद्यानं महालक्ष्मीर्मम श्रियम् ॥ ६१॥
कान्तिं कपालिनी रक्षेन्मन्दिरं मम मन्डपम् ।
पुत्रान् शङ्खनिधिः पायाद्भार्यां पद्मनिधिस्तथा ॥ ६२॥
मार्गे मां भैरवी रक्षेन्मातङ्गी मुकुटं सदा ।
अष्टदिक्षु महेन्द्राद्याः सायुधाःपान्तु मां सदा ॥ ६३॥
पायादूर्ध्वदिशं ब्रह्मा विष्णुश्चक्रायुधो त्वधः ।
अनावृतानि स्थानानि कवचेन तु यानि मे ॥ ६४॥
तानि रक्षन्तु सततं शिवादि गुरवः क्रमात् ।
एतत्सौभाग्यकवचं स्वकरे यस्तु धारयेत् ॥ ६५॥
त्रिसन्ध्यं पठति प्रीत्या शृणुयाद्वा समाहितः ।
तस्य शीघ्रेण सिध्यन्ति सिद्धयस्त्वणिमादयः ॥ ६७॥
ब्रह्मवित्तु गिरीशेन्द्रकन्र्परविभिः समः ।
विहरत्खिलान् लोकान् सिद्धगन्धर्वसेवितः ॥ ६८॥
तस्य स्मरणमात्रेण महाभूतपिशाचकाः ।
कीटवत्प्रपलायन्ते कूषमाण्डा भैरवादयः ॥ ६९॥
तस्याङ्घ्रितोयपतनात् प्रशाम्यन्ति महारुजः ।
तत्पादकमलासक्तरजोलेशाभिमर्शनात् ॥ ७०॥
वश्यं भवति शीघ्रेण त्रैलोक्यं सचराचरम् ।
भूपालमहिला भूपाः किमु माया विमोहिताः ॥ ७१॥
इति श्रीवामकेश्वरतन्त्रे नित्या षोडशार्णवर
सौभाग्यकवचं समाप्तम् ।
शुभमस्तु ।
श्रीशुभम् ।
The kavacha text has quite a few variations from the
one already posted with detailed nyAsa.
Encoded by Sivakumar Thyagarajan Iyer
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran