सतीपञ्चकम्
सतीनां सतीं शम्भुमान्यां भवानीं
महाशक्तिपीठे विभिन्नाङ्गभूत्या ।
लसन्तीं सुखज्ञानवैराग्यभक्ति-
प्रभादां शुभामादिशक्तिं भजामि ॥ १॥
पुरा दक्षयज्ञस्य नाशाय कार्यां
निमित्तां तथा कारणां दक्षपुत्रीम् ।
शिवस्नेहधाराज्वलन्तीं शिवाङ्गीं
नताभीष्टदामीशपत्नीं भजामि ॥ २॥
कुकर्मप्रलिप्तप्रकामिप्रमत्त-
प्रचण्डान्धकारावरुद्धस्य जन्तोः ।
पुरा स्नेहवात्सल्यधाराप्रदात्रीं
शिवां मातरं भक्तवन्द्यां भजामि ॥ ३॥
न भूते भविष्ये तथा वर्तमाने
न लोके विलोके तथान्यत्र देवि ।
कृपापूर्णदृष्टिस्तवाक्षस्य साम्या
जगन्मातरं धातृदेवीं भजामि ॥ ४॥
शिवामन्दिरं पुत्रगेहं तु मन्ये
नितान्तं शिवे तस्य गेहस्य द्वारे ।
निवासं प्रयच्छ प्रभापूर्णबिम्बे
सतीं शक्तिपीठस्फुरन्तीं भजामि ॥ ५॥
इति सतीपञ्चकं सम्पूर्णम् ।
Proofread by Jonathan Wiener wiener78 at sbcglobal.net, NA