सरस्वत्यष्टकम्
- - - - - - - वदना सौवर्णपद्मासनी
यैषा रक्तकुशेशयाभचरणा सौवर्णदेहोज्ज्वला ।
यस्या वक्षसि कुम्भिकुम्भसदृशौ पीनावुभौ हि स्तनौ
वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ १॥
या देवी सुरनाथवन्द्यचरणा सौन्दर्यभाग्याधिका
ब्राह्मे वक्षसि सर्वदा स्थितवती श्वेताम्बरं बिभ्रती ।
गायन्ती पिकनादजित्कलरवं कौतूहलाद् देवता
वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ २॥
या देवी परमार्थदा मुनिमनोध्यानैकरूपास्पदा
या बिम्बाधरशोभमानवदना या मीननेत्रा परा ।
या भृङ्गालिसमालका सुतिलकैर्या शोभमानालिका
वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ३॥
यस्याः कण्ठसमानरूपभरणे शङ्खोऽपि नैवार्हति
यस्याः स्मेरसमानकान्तिसदृशा नैवाभवञ्चन्द्रिका ।
यस्या बिम्बफलं न साम्यमुदभूद् रक्तोष्ठकान्त्यार्हिकीं (?)
वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ४॥
वासः श्वेततरं विभाति तिलकं फाले शरीरेऽपि च
नासाग्रे कनकाक्तमौक्तिकवरं कण्ठे शुभा मालिका ।
यस्याश्चित्रतरं विभाति भुजयोः केयूरयुग्मं ज्वलद्
वाणी मे वद ने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ५॥
पादौ पद्मजितौ फणीन्द्रसदृशौ बाहू शरीरं लता
यस्याः शोभितकुम्भिकुम्भसदृशौ पृष्ठावुभावंसतः ।
यस्याः पादाङ्गुल्यः प्रविरलतराः कीरवक्त्रप्रकाशा (?)
वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ६॥
या देवी सकलप्रजासु नियतं वाग्रूपधारी स्थिता
या देवैरपि वन्द्यमानचरणा स्वाहास्वधारूपधृक् ।
यस्याः किं च कटाक्षपातनकृतौ सर्वे जनाः श्रीयुता
वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ७॥
यां देवीं मुनयो वदन्ति परमं तद् ब्रह्मरूपं शिवं
विद्वांसोऽपि सरस्वतीमिति च यां भक्ताश्च गौरीमिति ।
राजानो बहुद्रव्ययुक्तमनुजा वक्ष्यन्ति यां सिन्धुजां
वाणी मे वदने सदा वसतु सा पद्मासनाङ्कस्थिता ॥ ८॥
इदमष्टकमादरेण यः पठेल्लभते वाञ्छितमर्थमुत्तमम् ।
स भजते कवितामधिकं यशः प्रभवते सकलप्रजाधिकः ॥ ९॥
कविना रामचन्द्रेण रचितं चेदमष्टकम् ।
मूलाण्डवासिना देव्या भारत्याः स्तवमुत्तमम् ॥ १०॥
अस्मिन् स्तवे सरस्वत्याः श्लोकैरष्टभिरादृते ।
अबद्धा ये च ते गोप्याः सरस्वत्या कवीश्वरैः ॥ ११॥
इति रामचन्द्रकविकृतं श्रीसरस्वत्यष्टकं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (९७)
Proofread by Rajesh Thyagarajan