श्रीसरस्वतीवन्दना
॥ श्रीगणेशाय नमः । श्रीपरमात्मने नमः । श्रीसरस्वत्यै नमः ॥
कराम्भोजे मालां श्रितशुभमराला मणिमयीं
समुत्सङ्गे तन्त्रीं सकलभयहन्त्रीं वहति या ।
सुहासा सद्भाषा धवलितसुभासा गुणमयी
मुखाम्भोजे भोजप्रभववनिता नो विहरतु ॥ १॥
शारदे सुखदेऽनिशं पादाम्बुजे प्रणमाम्यहं
शक्तिदे शुभदे सदा नम्रस्तवं विदधाम्यहम् ।
श्वेताम्बरे श्वेताब्जवर्णे श्वेतपद्मविलासिनि
शर्मदे वरदेऽध्यते काञ्चित् कला कलयाम्यहम् ॥ २॥
राजते वीणा यदुत्सङ्गे मरालो वाहनं
मञ्जुले मालाकरे कान्तिं कथं कथयाम्यहम् ।
ज्ञानदे मुनयो न ते पारङ्गताश्छविवर्णने
शक्तिदे कथमद्भुतान्निखिलान् गुणान् गणयाम्यहम् ॥ ३॥
तारिता बहवो बुधाः किं मां मुदा समुपेक्ष्यसे
देवि चिन्तय चेतसा चिरकालतोऽनुनयाम्यहम् ।
त्वत् कृपाकलया कलौ कालेऽपि कीर्तिरवाप्यते
कामदे कविकर्मदे नितरामदोऽनुभवाम्यहम् ॥ ४॥
कण्ठकौण्ठ्यविकुण्ठिता सहसा प्रगल्भगिरोऽभव-
न्यत्कृपाकणतोऽद्भुते गुणगौरवाणि गृणाम्यहम् ।
देवि त्वत् सहयोगतो विदितोऽखिलो जगदुत्थितं
बालको रहितो धिया स्तवने त्रुटिं कृतवानलं
भक्तिदे तत् तत् क्षमार्थं प्राञ्जलिं रचयाम्यहम् ॥ ५॥
॥ शृङ्गवेरपुरवन्दना ॥
देवी यत्र विराजते त्रिपथगा भागीरथी शर्मदा
प्रत्यक्षेव मनःप्रसादजननी शान्ता च शान्तिप्रदा ।
ब्रह्मर्षेर्ननु शृङ्गिणोऽतिविमलं यस्मिंस्तपो वर्तते
तद्वः शान्तिसुखं सदा वितनुतां श्रीशृङ्गवेरं पुरम् ॥ ६॥
इति आचार्यसत्यनारायणशुक्लविरचिता श्रीसरस्वतीवन्दना समाप्ता ।
Encoded and proofread by Akasha Pandeya