श्रीसरस्वतीसप्तकम्
विहसन्ती वरवदने ! रतिमतिमेधां च सुधां च विकिरन्ती ।
अज्ञानावृतगात्रं स्वकृपापात्रं विधेहि मामीशे ॥ १॥
वितरन्ती शं, वादं वाचि, विषादं विनाशय चज्ञानम् ।
वितरापूर्वाह्लादं, जहि मतिसादं प्रसीद वागीशे ! ॥ २॥
कलयन्ती हृदि हारं हीरकसारं प्रभां प्रवर्षन्ती ।
रचय स्वीयविहारागारं हृदयं मदीयमयि धीशे ! ॥ ३॥
दीनोद्धारं कारं मातः ! पारं नयाशु विनतोऽहम् ।
दुर्वृत्तीनां कदनं कुरु मे वदनं सदा स्वकं सदनम् ॥ ४॥
अर्पय सदयां दृष्टिं सपदि समर्पय च शास्त्रसम्बोधम् ।
सन्तर्पय मम चान्तर्वरदे ! वरदेवि ! पाहि दासस्ते ॥ ५॥
सार्तस्वराणां त्वमु चेन्न मातः !
कार्तस्वराब्जासनसन्निविष्टे! ।
अज्ञाननाशं कुरुषे स्वकानां,
का नाम वामा न पुनश्च शक्तिः ॥ ६॥
मातस्त्वदीयपदपङ्कजकल्पिताशो,
दासोऽस्मि ते च जगतो नितरां निराशः ।
सद्यः प्रसीद शरणे तव बद्धपाशः
क्रन्दामि मेऽपि तनुतां हृदि सत्प्रकाशम् ॥ ७॥
इति रामकृपालु द्विवेदी साहित्याचार्यस्य विरचितं
श्रीसरस्वतीसप्तकं सम्पूर्णम् ।
Encoded and proofread by Deepakshi Kumar