सरस्वतीभुजङ्गप्रयातस्तोत्रम्
सदा भावयेऽहं प्रसादेन यस्याः
पुमांसो जडाः सन्ति लोकैकनाथे ।
सुधापूरनिष्यन्दिवाग्रीतयस्त्वां
सरोजासनप्राणनाथे हृदन्ते ॥ १॥
विशुद्धार्कशोभावलर्क्षं विराज-
ज्जटामण्डलासक्तशीतांशुखण्डा ।
भजाम्यर्धदोषाकरोद्यल्ललाटं
वपुस्ते समस्तेश्वरि श्रीकृपाब्धे ॥ २॥
मृदुभ्रूलतानिर्जितानङ्गचापं
द्युतिध्वस्तनीलारविन्दायताक्षम् ।
शरत्पद्मकिञ्जल्कसङ्काशनासं
महामौक्तिकादर्शराजत्कपोलम् ॥ ३॥
प्रवालाभिरामाधरं चारुमन्द-
स्मिताभावनिर्भर्त्सितेन्दुप्रकाशम् ।
स्फुरन्मल्लिकाकुड्मलोल्लासिदन्तं
गलाभाविनिर्धूतशङ्खाभिरम्यम् ॥ ४॥
वरं चाभयं पुस्तकं चाक्षमालां
दधद्भिश्चतुर्भिः करैरम्बुजाभैः ।
सहस्राक्षकुम्भीन्द्रकुम्भोपमान-
स्तनद्वन्द्वमुक्ताघटाभ्यां विनम्रम् ॥ ५॥
स्फुरद्रोमराजिप्रभापूरदूरी-
कृतश्यामचक्षुःश्रवःकान्तिभारम् ।
गभीरत्रिरेखाविराजत्पिचण्ड-
द्युतिध्वस्तबोधिद्रुमस्निग्धशोभम् ॥ ६॥
लसत्सूक्ष्मशुक्लाम्बरोद्यन्नितम्बं
महाकादलस्तम्बतुल्योरुकाण्डम् ।
सुवृत्तप्रकामाभिरामोरुपर्व-
प्रभानिन्दितानङ्गसामुद्गकाभम् ॥ ७॥
उपासङ्गसङ्काशजङ्घं पदाग्र-
प्रभाभर्त्सितोत्तुङ्गकूर्मप्रभावम् ।
पदाम्भोजसम्भाविताशोकसालं
स्फुरच्चन्द्रिकाकुड्मलोद्यन्नखाभम् ॥ ८॥
नमस्ते महादेवि हे वर्णरूपे
नमस्ते महादेवि गीर्वाणवन्द्ये ।
नमस्ते महापद्मकान्तारवासे
समस्तां च विद्यां प्रदेहि प्रदेहि ॥ ९॥
नमः पद्मभूवक्त्रपद्माधिवासे
नमः पद्मनेत्रादिभिः सेव्यमाने ।
नमः पद्मकिञ्जल्कसङ्काशवर्णे
नमः पद्मपत्राभिरामाक्षि तुभ्यम् ॥ १०॥
पलाशप्रसूनोपमं चारुतुण्डं
बलारातिनीलोत्पलाभं पतत्रम् ।
त्रिवर्णं गलान्तं वहन्तं शुकं तं
दधत्यै महत्यै भवत्यै नमोऽस्तु ॥ ११॥
कदम्बाटवीमध्यसंस्थां सखीभिः
मनोज्ञाभिरानन्दलीलारसाभिः ।
कलस्वानया वीणया राजमानां
भजे त्वां सरस्वत्यहं देवि नित्यम् ॥ १२॥
सुधापूर्णहैरण्यकुम्भाभिषेक-
प्रिये भक्तलोकप्रिये पूजनीये ।
सनन्दादिभिर्योगिभिर्योगिनीभिः
जगन्मातरस्मन्मनः शोधय त्वम् ॥ १३॥
अविद्यान्धकारौघमार्ताण्डदीप्त्यै
सुविद्याप्रदानोत्सुकायै शिवायै ।
समस्तार्तरक्षाकरायै वरायै
समस्ताम्बिके देवि दुभ्यं नमोऽस्तु ॥ १४॥
परे निर्मले निष्कले नित्यशुद्धे
शरण्ये वरेण्ये त्रयीमय्यनन्ते ।
नमोऽस्त्वम्बिके युष्मदीयाङ्घ्रिपद्मे
रसज्ञातले सन्ततं नृत्यतां मे ॥ १५॥
प्रसीद प्रसीद प्रसीदाम्बिके मा-
मसीमानुदीनानुकम्पावलोके ।
पदाम्भोरुहद्वन्द्वमेकावलम्बं
न जाने परं किञ्चिदानन्दमूर्ते ॥ १६॥
इतीदं भुजङ्गप्रयातं पठेद्यो
मुदा प्रातरुत्थाय भक्त्या समेतः ।
स मासत्रयात्पूर्वमेवास्ति नूनं
प्रसादस्य सारस्वतस्यैकपात्रम् ॥ १७॥
इति श्रीसरस्वतीभुजङ्गप्रयातस्तोत्रं समाप्तम् ॥
Proofread by PSA Easwaran