श्रीज्ञानसरस्वती(बासर) भक्तिधारास्तोत्रम्
विहितनमस्कारशरण्यां सुखप्रदां
ॐकारपूरितनामार्चनां शुभप्रदाम् ।
पुरस्कारसहितदर्शनां फलप्रदां
बासरक्षेत्रदेवीं भज सरस्वतीं मातरम् ॥ १॥
पञ्चामृताभिषेकेन कामितफलदायिकां
नैवेद्यनिवेदनेन सकलार्थसाधिकाम् ।
नीराजनदर्शनेन सकलार्थसाधिकां
बासरक्षेत्रदेवीं भज सरस्वतीं मातरम् ॥ २॥
तव पादाब्जस्पर्शनं पापहरणं
तव कटाक्षवीक्षणं रोगनिवारणम् ।
तव मन्त्राक्षतरक्षणं शुभकरं
बासरक्षेत्रदेवीं भज सरस्वतीं मातरम् ॥ ३॥
नमोऽस्तु वेदव्यासनिर्मितप्रतिष्टितायै
नमोऽस्तु महालक्ष्मीमहाकाळीसमेतायै ।
नमोऽस्तु अष्टतीर्थजलमहिमान्वितायै
नमोऽस्तु बासरक्षेत्रे विलसितायै ॥ ४॥
नमोऽस्तु गोदावरीतटनिवासिन्यै
नमोऽस्तु कृपाकटाक्षस्वरूपायै ।
नमोऽस्तु स्मृतिमात्रप्रसन्नायै
नमोऽस्तु बासरक्षेत्रे विलसितायै ॥ ५॥
नमोऽस्तु मनोहरपुष्पालङ्कृतायै
नमोऽस्तु ज्ञानमूलायै ज्ञानगम्यायै ।
नमोऽस्तु गुरुभक्तिरहस्यप्रकटितायै
नमोऽस्तु बासरक्षेत्रे विलसितायै ॥ ६॥
नमोऽस्तु मण्डलदीक्षाभिक्षामहादात्र्यै
नमोऽस्तु महामन्त्रतन्त्रप्रवीणायै ।
नमोऽस्तु सहस्रारचक्रनिलयायै
नमोऽस्तु बासरक्षेत्रे विलसितायै ॥ ७॥
नमोऽस्तु सर्वपापसंहारिकायै
नमोऽस्तु योगियोगिनीगणसंसेवितायै ।
नमोऽस्तु सकलकल्याणशुभदायै
नमोऽस्तु बासरक्षेत्रे विलसितायै ॥ ८॥
रामदासेन विरचितमिदं पठते भक्तिमान्नरः
विद्यां श्रेयो विपुलसौख्यं प्राप्नोति ॥
Encoded by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
Proofread by Malleswara Rao Yellapragada, PSA Easwaran