श्रीसन्तोषीमातुःसुप्रभातस्तोत्रम्
ॐ श्रीगणेशाय नमः ।
श्रीसन्तोषीमातुःसुप्रभातस्तोत्रम् ।
विघ्नेश्वरस्य महिता किल सिद्धिबुद्धि पुत्रद्वस्य भगिनी किल या बभूव ।
दुर्गा रमा महित वाणी महास्वरूपा सन्तोषिणी भगवती शरणं ममास्तु ॥ १॥
सर्वत्र शान्तिगुरुभक्तिदयाप्रपूर्णे सन्तोषनित्यसुजने वरमध्यदेशे ।
उत्तुङ्गशैलरमणीयनिजालयेऽद्य सन्तोषनित्यजननी जननी चकास्ति ॥ २॥
यां वै स्तुवन्ति सुजनाः परशक्तिरूपां शक्तित्रयात्मकतनुं धनदानतुष्टाम् ।
सन्तोषपूर्णहृदयां स्मरणादपीह सन्तोषमातरममुं प्रणमामि मूर्ध्ना ॥ ३॥
स्वस्यैव सोदरकृते सहजातकन्या रक्षासुबन्धनमहो कृते दयाढ्या ।
तत्कर्म कर्तुमिभवक्त्रकृपालवेन सन्तोषिणीसुजनिमाप हिमालयेऽस्मिन् ॥ ४॥
आनन्दनित्यनगरे वसति स्म पूर्वं गोपालनाथ इति विश्रुतवैश्यवर्यः ।
तस्यात्मजा च गुरुदैवतभक्तिपूर्णा नाम्ना सुनीतिरभवत्सुगुणा सुरूपा ॥ ५॥
तस्यान्तिके सुमहती सनकन्दवाटी तस्यां निवासमकरोद्बहुपुत्रिणी सा ।
पुत्रेषु चैव चरमो बलभोलनाथो वव्रे सुनीतिमतुलां निजपूर्वपुण्यात् ॥ ६॥
भक्त्या सुनीतिबलभोलसुनाथयोश्च श्रीशुक्रवारपरिपूजनतुष्टचित्ता ।
शोकापनोदबहुभाग्यसुदाननित्यं सन्तोषमातुरधुना तव सुप्रभातम् ॥ ७॥
कल्याणनित्यजननि कलिकल्मषघ्नि कामप्रपूरणपरे करुणाऽऽर्द्रचित्ते ।
श्रीखड्गशूलकमनीयभुजद्वयेऽम्ब सन्तोषमातुरधुना तव सुप्रभातम् ॥ ८॥
सन्तप्तकाञ्चनमयी सकलेष्टदात्री सम्पूर्णनैजविभवा सकलागमेड्या ।
सम्पत्प्रदा च सहसा निजभक्तवर्गे सन्तोषमातुरधुना तव सुप्रभातम् ॥ ९॥
भाग्यप्रदे भयहरे भवरोगवैद्ये भद्रप्रदे भगवति भजतां जननाम् ।
शत्रुक्षयैकनिरते श्रितकामधेनो सन्तोषमातुरधुना तव सुप्रभातम् ॥ १०॥
सृष्टिस्थितिप्रळयकारिणि शूलहस्ते सिंहासनस्थितमनोहरराज्यलक्ष्मि ।
राराजमानरमणीयसुरत्नभूषे सन्तोषमातुरधुना तव सुप्रभातम् ॥ ११॥
क्षिप्रप्रसादनिरते क्षमिताखिललोके क्षेमङ्करि क्षितिधरेन्द्रसुवंशकेतो ।
अक्षीणपुण्यविभवैः परिचिन्त्यमाने सन्तोषमातुरधुना तव सुप्रभातम् ॥ १२॥
आर्त्तार्तिवारणपटो ह्यणिमादिवन्द्ये अव्याजपूर्णकरुणावरुणालये त्वम् ।
अस्तोकभाग्यविभवप्रदनैजसिद्धे सन्तोषमातुरधुना तव सुप्रभातम् ॥ १३॥
दुर्गा त्वमेव दुरितौघविनाशशीला लक्ष्मीस्त्वमेव नरवरत्नहिरण्यदात्री ।
सारस्वतप्रदलना च सरस्वती त्वं सन्तोषमातुरधुना तव सुप्रभातम् ॥ १४॥
त्वं सान्द्रनैजहृदया सुशरण्यमूर्त्तिस्त्वं विघ्नवारणपरा च वरेण्यमूर्त्तिः ।
वैरिप्रणाशनविधौ वरवीरमूर्तिः सन्तोषमातुरधुना तव सुप्रभातम् ॥ १५॥
विद्याप्रदानसमये वरशुक्लवस्त्रा लक्ष्मीप्रदानसमये नवरक्तवस्त्रा ।
विद्वेषिवर्गदलने च तमालनीला सन्तोषमातुरधुना तव सुप्रभातम् ॥ १६॥
श्रीवीरवर्यपरमासननित्यजुष्टे विख्याति ते विजयते विपदां निहन्त्री ।
वन्दारुलोकनवगानसुतुष्टचित्ते सौभाग्यमातुरधुना तव सुप्रभातम् ॥ १७॥
त्वं भीषयस्यखिलदुर्गवर्गमेव त्वं तोषयस्यखिलभक्तसमूहमेव ।
त्वं दापयस्यखिलसम्पदमाशु नित्यं सन्तोषमातुरधुना तव सुप्रभातम् ॥ १८॥
आसेतुहैमशिखरावधि वन्द्यमाने आबालवृद्धमनुसन्ध्यमुपास्यमाने ।
आपादचूडमखिलाभरणोज्ज्वलाङ्गे सन्तोषमातुरधुना तव सुप्रभातम् ॥ १९॥
काष्ठेन जीवनपरस्य च गोमयेन कृत्यस्य भक्तसुजनस्य सुभाग्यदात्री ।
विद्रावणी च निजभक्तसुमातरं द्राक् सन्तोषमातुरधुना तव सुप्रभातम् ॥ २०॥
सम्वर्धिनी त्वमसि सर्वसुमङ्गलानां सम्पूरणी च सकलेष्टमनोरथानाम् ।
संरोधिनी च विपदामपि नित्यभक्ते सन्तोषमातुरधुना तव सुप्रभातम् ॥ २१॥
संशोषिणी च विषसर्पभयं नतानां सन्दायिनी च सततं सुनराधिपत्यम् ।
संरक्षणी च निजभक्तजनान् सदापि सन्तोषमातुरधुना तव सुप्रभातम् ॥ २२॥
शोकापनोदनपरे निजभक्तवृन्दे रोगापहारचतुरे निजपादनम्रे ।
भाग्यप्रदैकनिरते निजपूजकेभ्यः सन्तोषमातुरधुना तव सुप्रभातम् ॥ २३॥
यो भार्गवस्य सुदिने तव नित्यपूजां भक्त्या करोति शुभगोमयलिप्तगेहे ।
गोभिश्च रौप्यसुहिरण्यसुधान्यराश्या पूर्णां करोषि दयया तव सुप्रभातम् ॥ २४॥
दारिद्र्यदुःखभरितं दुरितातिरेकात् त्वामेव पूजनपरं भृगुवासरेषु ।
लक्षाधिपं प्रकुरुषे करुणाऽऽर्द्रदृष्ट्या सन्तोषमातुरधुना तव सुप्रभातम् ॥ २५॥
श्रीमाधवाख्यसुपुरे बहुचोरसङ्घान् विद्राव्य तस्य धनरक्षणहृष्टवैश्यात् ।
उद्योगमाप्य सुधनी हि बभूव भक्तः सन्तोषमातुरधुना तव सुप्रभातम् ॥ २६॥
इत्येव नारदमुखेरितमाप्तभाग्याः सन्तोषमातुरखिलां हि कथां पठन्तु ।
सर्वस्वपूर्णभवनाः निवसन्तु सौख्यात् सन्तोषमातुरधुना तव सुप्रभातम् ॥ २७॥
सूर्यः शशी कुजबुधौ गुरुशुक्रमन्दाः राहुश्च केतुरपरे तिथिलग्नताराः ।
आज्ञाप्रतीक्षणपरास्तव भक्तरक्षादक्षा भवन्ति तव मङ्गळसुप्रभातम् ॥ २८॥
त्वां वै नताश्च सहसा धनिका भवन्ति पुण्यार्त्थिनश्च बहुपौत्रसुनप्त्रृपूर्णाः ।
प्रासादवासमपि ते कृपया लभन्ते सन्तोषमातुरधुना तव सुप्रभातम् ॥ २९॥
शृण्वन्ति ये तव तु पुण्यकथां हि मर्त्याः ये वा पठन्ति च मुदा किल पाठयन्ति ।
लक्ष्म्यष्टकं हि सहसा समनुप्रविष्टं नैवापयाति भवनात्तदिदं हि सत्यम् ॥ ३०॥
नाग्नौ जले वियति नापि च भूमिभागे नैवापदस्ति पथि चोरभयं न चैव ।
न्यायालयेऽपि विजयस्तव पूजकानां सन्तोषमातुरधुना तव सुप्रभातम् ॥ ३१॥
यः श्री धनानि विविधानि च धान्यराशिं धैर्यं धियं सुसुतमप्यथ पौत्रलाभम् ।
दारांश्च भोगमखिलं स्मृतिमात्रतुष्टा सन्तोषिणी वितरतीह हि सत्यमेव ॥ ३२॥
दारिद्र्यभीतिरथ रोगभयादिभीतिः नो मृत्युभीतिरथ शत्रुविषादिभीतिः ।
पुष्टः सुतुष्टहृदयो निवसेच्चिराय सन्तोषमातुरधिकाधिकसत्कटाक्षात् ॥ ३३॥
सन्तोषमातुरखिलेष्टदमद्भुतं च यः सुप्रभातमुषसि प्रपठेत् स भक्तः ।
संप्राप्य नन्दतितरां सुधनं सुपुत्रं गेहं च भूषणचयं च चिरायुरेव ॥ ३४॥
आस्थाय वीरपरमासनमार्तिहन्त्री खड्गत्रिशूलवरदाभयहस्तभूषा ।
मन्दस्मिताञ्चितमुखी विलसत्किरीटा सन्तोषनित्यजननी प्रददातु कामान् ॥ ३५॥
राजेश्वरीपदद्वन्द्वे श्रीषण्मुखपदाब्जयो ः ।
निविष्टहृदयो रामचन्द्रः तत्कृपयाऽलिखत् ॥ ३६॥
इति श्रीसन्तोषीमातुःसुप्रभातस्तोत्रं सम्पूर्णम् ।
Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran