श्रीसन्तोषीमाता मङ्गलाष्टकम्
ॐ श्रीगणेशाय नमः ।
महागणेशसुतयोः रक्षाबन्धनहेतवे ।
गणेशकृपया जात सन्तोषिण्यै सुमङ्गलम् ॥ १॥
गौरी वाणी रमादेवी शक्त्या रक्षणहेतवे ।
समुद्योदिकरूपायै सन्तोषिण्यै सुमङ्गलम् ॥ २॥
मध्यप्रदेशमध्यस्थगिरिशॄङ्गालये शुभे ।
कलाषोडशसम्पूर्णा सन्तोषिण्यै सुमङ्गलम् ॥ ३॥
अष्टमी नवमी पूर्णा भृगुवारे विशेषतः ।
पूजया चातितुष्टायै सन्तोषिण्यै सुमङ्गलम् ॥ ४॥
शान्तायै साधकानां च कोपनायै विरोधिनाम् ।
सर्वशक्तिस्वरूपिण्यै सन्तोषिण्यै सुमङ्गलम् ॥ ५॥
वर्धिन्यै धर्मवर्धिन्यै हर्षदायै क्षणे क्षणे ।
सर्वमङ्गलरूपिण्यै सन्तोषिण्यै सुमङ्गलम् ॥ ६॥
स्वर्णायै स्वर्णवर्णायै स्वर्णदायै स्वपूजके ।
गोदायै ख्यातिदायै च सन्तोषिण्यै सुमङ्गलम् ॥ ७॥
अतिरौद्रातिसौम्यायै सिद्धिदायै सुकर्मणाम् ।
सर्वरक्षाकरायै च सन्तोषिण्यै सुमङ्गलम् ॥ ८॥
सन्तोषिणीजगन्मातुर्मङ्गलं पठतां गृहे ।
मङ्गलानि प्रवर्तन्ते तत्र लक्ष्मीश्च सुस्थिरा ॥ ९॥
इति श्रीसन्तोषीमाता मङ्गलाष्टकं सम्पूर्णं
Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran