श्रीसङ्कल्पकल्पद्रुमः
श्रीश्रीराधामदनगोपालो विजयते
वृन्दावनेश्वरि वयोगुणरूपलीला
सौभाग्यकेलिकरुणाजलधेऽवधेहि ।
दासी भावानि सुखयानि सदा सकान्तां
त्वामालीभिः परिवृतामिदमेव याचे ॥ १॥
शृङ्गारयाणि भवतीमभिसारयाणि
वीक्ष्यैव कान्तवदनं परिवृत्य यान्तीम् ।
धृत्वाञ्चलेन हरिसन्निधिमानयानि
सम्प्राप्य तर्जनसुधां हृषिता भवानि ॥ २॥
पादे निपत्य शिरसानुनयानि रुष्टां
तां प्रत्यपाङ्गकलिकामपि चालयानि ।
तद्दोर्द्वयेन सहसा परिरम्भयानि
रोमाञ्चकञ्चुकवतीमवलोकयानि ॥ ३॥
प्राणप्रिये कुसुमतल्पमलङ्कुरु त्वं
इत्यच्युतोकित्मकरन्दरसं धयानि ।
मां मुञ्च माधव सतीमिति गद्गदार्ध
वाचस्तवैत्य निकटं हरिमाक्षिपानि ॥ ४॥
वामामुदस्य निजवक्षसि तेन रुद्धां
आनन्दबाष्पतिमितां मुहुरुच्छलन्तीम् ।
व्यस्तालकां स्खलितवेणीमबद्धनीवीं
त्वां वीक्ष्य साधु जनुरेव कृतार्थयानि ॥ ५॥
तल्पे मयैव रचिते बहुशिल्पभाजि
पौष्पे निवेश्य भवतीं नननेति वाचम् ।
कृष्णं सुखेन रमयन्तमनन्तलीलं
वातायनात्तनयनैव निभालयानि ॥ ६॥
स्थित्वा बहिर्व्यजनयन्त्रनिबद्धडोरी
पाणिर्विकर्षणवशान्मृदु बीजयानि ।
उत्तुङ्गकेलिकलितश्रमबिन्दुजालं
आलोपयानि मणितैः स्मितमुद्गीराणि ॥ ७॥
श्रीरूपमञ्जरिमुखप्रियकिङ्करीणां
आदेशमेव सततं शिरसा वहानि ।
तेनैव हन्त तुलसी परमानुकम्पा
पान्नीभवानि करवाणि सुखेन सेवाम् ॥ ८॥
माल्यानि हारकटादिमृजा विचित्र
वर्तिः शितांशुघुसृणागुरुचन्दनादि ।
वीटीर्लवङ्गखपुरादियुताः सखीभिः
सार्धं मुदा विरचयानि कलां प्रकाश्य ॥ ९॥
त्वां स्रस्तवेषवसनाभरणां सकान्तां
वीक्ष्य प्रसाधनविधौ द्रुतमुद्यताभिः ।
श्रीरूपरङ्गतुलसीरतिमञ्जरीभि-
र्दृष्टानयानि तव संमुखमेव तानि ॥ १०॥
त्वामाशिखाचरणमूढविचित्रवेषां
स्प्रष्टुं पुनश्च धृततृष्णमवेक्ष्य कृष्णम् ।
आयान्तमेव विकटभ्रूकुटीविभङ्ग
हुङ्कृत्युदञ्चितमुखी विनिवर्तयानि ॥ ११॥
तत्रैत्य विस्मयवतीं ललितां प्रतीह
साध्वीत्वकण्टकविनिष्क्रमनार्थमस्याः ।
प्राप्तं न्यसिद्धदयि मामियमेव धूर्ते-
त्युक्तिं हरेः स्वहृदयं रसयानि नित्यम् ॥ १२॥
निष्क्रम्य कुञ्जभवनाद्विपिने विहर्तुं
कान्तैकबाहुपरिरब्धतनुं प्रयान्तीम् ।
त्वामालीभिः सह कथोपकथाप्रफुल्ल
वक्त्रामहं व्यजनपाणिरनुप्रयाणि ॥ १३॥
गायानि ते गुणगणांस्तव वर्त्म गम्यं
पुष्पास्तरैर्मृदुलयानि सुगन्धयानि ।
सालीततिः प्रतिपदं सुमनोऽतिवृष्टिं
स्वामिन्यहं प्रतिदिशं तनवानि बाढम् ॥ १४॥
प्रेष्ठस्वपानि कृतकौसुमहार काञ्ची
केयूरकुण्डलकिरीटविराजिताङ्गीम् ।
त्वां भूषयाणि पुनरात्मकवित्वपुष्पै-
रास्वादयानि रसिकालिततीरिमानि ॥ १५॥
चन्द्रांशुरूप्यसलिलैरवसिक्तरोध
स्यञ्चत्कदम्बसुरभावलिगीतकीर्ति ।
आरब्धरासरभसां हरिणा सह त्वां
तत्पाठितैव विदुषी कलयानि वीणाम् ॥ १६॥
रासं समाप्य दयितेन समं सखीभि-
र्विश्रान्तिभाजि नवमालतिकानिकुञ्जे ।
त्वय्यानयानि रसवत्करकाम्ररम्भा-
द्राक्षादिकानि सरसं परिवेषयाणि ॥ १७॥
तल्पे सरोजदलकॢप्तमनङ्गकेलि
पर्याप्तमाप्तकलया रचितं तुलस्या ।
त्वां प्रेयसा सह रसादधिशाययानि
ताम्बूलमाशायितुमुल्बनमुल्लसानि ॥ १८॥
संवाहयानि चरणावलकैः स्पृशानि
जिघ्राणि सौरभसमूढचमत्क्रियाब्धिः ।
अक्ष्णोर्दधान्युरसिजौ परिरम्भयानि
चुम्बान्यलक्षितमवेक्षितसौकुमार्याः ॥ १९॥
अन्ते निशस्तनुतरप्रसृतालकाल्या
ताडङ्कहारततिगन्धवहाग्रमुक्ताः ।
प्रेष्ठस्य ते तव च संग्रथिता निभाल्य
तत्रानयानि परमाप्तसखीः प्रबोध्य ॥ २०॥
ता दर्शयानि सुखसिन्धुषु मज्जयानि
ताभ्यः प्रसादमतुलं सहसाप्नुवानि ।
तन्नूपुरादिरणितैर्गतसान्द्रनिद्रां
शय्योत्थितां सचकितां भवतीं भजानि ॥ २१॥
हे स्वामिनि प्रियसखीत्रपयाकुलाया
कान्ताङ्गतस्तव वियोक्तुमपारयन्त्याः ।
उद्ग्रन्थयान्यलककुण्डलमाल्यमुक्ता
ग्रन्थिं विचक्षणतयाङ्गुलिकौशलेन ॥ २२॥
नाशाग्रतः श्रुतियुगाच्च वियोजयानि
तद्भूषणं मणिसरांस्तु विसूत्रयाणि ।
प्राणार्बुदादधिकमेव सदा तवैकं
रोमापि देवि कलयानि कृतावधाना ॥ २३॥
त्वां सालिमात्मसदनं निभृतं व्रजन्तीं
त्यक्त्वा हरेरनुपथं तदलक्षितैत्य ।
तं खण्डितामनुनयन्तमवेक्ष्य चन्द्रां
तद्वृत्तमालिततिसंसदि वर्णयानि ॥ २४॥
प्रक्षालयानि वदनं सलिलैः सुगन्धै-
र्दन्तान् रसालजदलैस्तव धावयानि ।
निर्णेजयानि रसनां तनुहेमपत्र्या
सन्दर्शयानि मुकुरं निपुणं प्रमृज्य ॥ २५॥
स्नानाय सूक्ष्मवसनं परिधापयानि
हाराङ्गदाद्यप्यङ्गादवतारयाणि ।
अभ्यञ्जयाण्यरुणसौरभहृद्यतैलै-
र्वर्तयानि नवकुङ्कुमचन्द्रचूर्णैः ॥ २६॥
नीरैर्महासुरभिभिः स्नपयानि गात्रा-
दम्भांसि सूक्ष्मवसनैरपसारयाणि ।
केशान् जवादगुरुधूमकुलेन यत्ना-
दाशोषयाणि रभसेन सुगन्धयानि ॥ २७॥
वासो मनोभिरुचितं परिधापयानि
सौवर्णकङ्कतिकया चिकुरान्विशोध्य ।
गुम्फानि वेणीममलैः कुसुमैर्विचित्रां
अग्रे लसच्चमरिकामणिजातभाताम् ॥ २८॥
चूडामणिं शिरसि मौक्तिकपत्रपास्यां
भाले विचित्रतिलकं च मुदारचय्य ।
अङ्क्त्वाक्षिणी श्रुतियुगं मणिकुण्डलाढ्यं
नासामलङ्कृतवतीं करवाणि देवि ॥ २९॥
गण्डद्वये मकरिके चिबुके विलिख्य
कस्तुरिकेष्टपृषतं कुचयोश्च चित्रम् ।
बाह्वोस्तवाङ्गदयुगं मणिबन्धयुग्मे
चूडा मसारकलिताः कलयानि यत्नात् ॥ ३०॥
पाण्यङ्गुलीः कनकरत्नमयोर्मिकाभि-
रभ्यर्चयानि हृदयं पदकोत्तमेन ।
मुक्तोतकञ्चुलिकयोरसिजौ विचित्र
माल्येन हारनिचयेन च कण्ठदेशम् ॥ ३१॥
काञ्च्या नितम्बमर्थहंसकनूपुराभ्यां
पादाम्बुजे दलततिं क्वणदङ्गुरीयैः ।
लाक्षारसैररुणमप्यनुरञ्जयानि
हे देवि तत्तलयुगं कृतपुण्यपुञ्जा ॥ ३२॥
अङ्गानि साहजिकसौरभयन्त्यथानि
देव्यर्चयानि नवकुङ्कुमचर्चयैव ।
लीलाम्बुजं करतले तव धारयाणि
त्वां दर्शयानि मणिदर्पणमर्पयित्वा ॥ ३३॥
सौन्दर्यमद्भुतमवेक्ष्य निजं स्वकान्त
नेत्रालिलोभनमवेत्य विलोलगात्रीम् ।
प्राणार्बुदेन विधुवर्तिकदीपकैश्च
निर्मञ्छयानि नयनाम्बुनिमज्जिताङ्गी ॥ ३४॥
गोष्ठेश्वरीप्रहितया सह कुन्दवल्ल्या
प्राभातिकप्रियतमाशनसाधनाय ।
यान्तीं समं प्रियसखीभिरनुप्रयाणि
ताम्बूलसम्पुटमणिव्यजनादिपाणिः ॥ ३५॥
गोष्ठेश्वरीसदनमेत्य पदे प्रणम्य
तस्यास्तदाप्तभविकां त्रपयावृटाङ्गीम् ।
घ्रातं तया शिरसि तन्नयनाम्बुसिक्तां
त्वां वीक्ष्य तामहमपि प्रणमामि भक्त्या ॥ ३६॥
मूर्तं तपोऽसि वृषभानुकुलस्य भाग्यं
गेहस्य मेऽसि तनयस्य च मे वराङ्गि ।
नैरुज्यदास्यमृतपाणिरभूर्वरेण
दुर्वाससो यदिति तद्वचसा हसानि ॥ ३७॥
स्नातानुलिप्तवपुषो दयितस्य तस्य
तात्कालिके मधुरिमन्यतिलोलिताक्षीम् ।
स्वामिन्यवेत्य भवतीं क्वचन प्रदेशे
तत्रैव केन च मिषेण समानयानि ॥ ३८॥
प्रक्षालयानि चरणौ भवदङ्गतः स्रङ्-
माल्यादि पाकरचनानुपयोगि यत्तत् ।
उत्तारयाणि तदिदं तु तवास्त्विति त्व-
द्वाचोल्लसानि विकसन्मधुमाधवीव ॥ ३९॥
पक्त्वास्थितां मधुरपायसशाकसूप
भाजिप्रभृत्यमृतनिन्दिचतुर्विधान्नम् ।
त्वां लोकयानि नननेति मुहुर्वदन्तीं
गोष्ठेशयापि परिवेषयितुं निदिष्टाम् ॥ ४०॥
तृप्त्युत्थितां प्रियतमाङ्गरुचिं धयन्त्या
वातायन्तार्पितदृशः सहसोल्लसन्त्याः ।
आनन्दजद्युतितरङ्गभरे मनोज
मञ्जुकृते तव मनो मम मज्जयानि ॥ ४१॥
राधे तवैव गृहमेतदहं च जाते
सूनोः शुभे किमपरां भवतीमवैमि ।
तद्भुङ्क्ष्व सम्मुखमिति व्रजपागिरा त्व-
द्वक्त्रे स्मितं स्वहृदयं रसयानि नित्यम् ॥ ४२॥
यान्तं वनाय सखीभिः सममात्मकान्तं
पित्रादिभिः सरुदितैरनुगम्यमानम् ।
वीक्ष्याप्तगौरवगेहां दिननाथपूजा
व्याजेन लब्धगहनां भवतीं भजानि ॥ ४३॥
कान्तं विलोक्य कुसुमावचये प्रवृत्तां
आदाय पत्रपुटीकामनुयान्यहं त्वाम् ।
का तस्करीयमिति तद्वचसा न कापी-
त्युक्त्या सहार्पितदृशं भवतीं स्मराणि ॥ ४४॥
पुष्पाणि दर्शय कियन्ति हृतानि चौरी-
त्युक्त्यैव पुष्पपुटिकामपि गोपयानि ।
तद्वीक्ष्य हन्त मम कक्षतले क्षिपन्तं
पाणिं बलात्तमभिमृश्य भवानि दूना ॥ ४५॥
रक्षाद्य देवि कृपया निजदासिकां मां
इत्युच्चकातरगिरा शरणं व्रजानि ।
किं धूर्त दुःखयसि मज्जनमित्यमुष्य
बाहुं करेण तुदतीं भवतीं श्रयाणि ॥ ४६॥
त्यक्त्वैव मां भवदुरःकवचं विखण्ड्य
प्राप्तां श्रजं तव गलात्स्वगले निधाय ।
पुष्पाणि चौरि मम किं तव कण्ठहेतो-
स्तत्कण्ठमेव सुभृशं परिपीडयानि ॥ ४७॥
राजास्ति कन्दरतले चल तत्र धूर्ते
तस्याज्ञयैव सहसा च विवस्त्रयिष्ये ।
तां वीक्ष्य हृष्यति स चेन् निजदिव्यमुक्ता
मालां प्रदास्यति ललाटतटे मदीये ॥ ४८॥
दोषो न ते व्रजपतेस्तनयोऽसि तस्य
दुष्टस्य यन् नरपतेः खलु सेवकोऽभूः ।
तद्बुद्धिरीदृगभवन्मम चात्र साध्व्या
भाले किमेतदभवल्लिखितं विधात्रा ॥ ४९॥
इत्यादिवाङ्मयसुधामहह श्रुतिभ्यां
स्वाभ्यां धयान्युदरपूरमथेक्षणाभ्याम् ।
रूपामृतं तव सकान्ततया विलास
सीधुं च देवि वितराण्यथ मादयानि ॥ ५०॥
प्रेष्ठे सरस्यभिनवां कुसुमैर्विचित्रां
हिन्दोलिकां प्रियतमेन सहाधिरूढाम् ।
त्वां दोलयान्यथ किराणि परागराजि-
र्गायानि चारुमहतीमपि वादयानि ॥ ५१॥
वृन्दावने सुरमहीरुहयोगपीठे
सिंहासने स्वरमणेन विराजमानाम् ।
पाद्यार्घ्यधूपविधुदीपचतुर्विधान्न
स्रग्भूषणादिभिरहं परिपूजयानि ॥ ५२॥
गोवर्धने मधुवनेषु मधूत्सवेन
विद्रावितात्रपसखीशतवाहिनीकाम् ।
पिष्टात युद्धमनु कान्तजयाय यान्तीं
त्वां ग्राहयाणि नवजातुषकूपिकालीः ॥ ५३॥
अग्रे स्थितोऽस्मि तव निश्चय एव वक्ष
उद्घाट्य कन्दुकचयं क्षिप चेद्बलिष्ठा ।
उद्घाट्य कञ्चुकमुरः किल दर्शयन्ती
त्वं चापि तिष्ठ यदि ते हृदि वीरतास्ति ॥ ५४॥
यत्कथ्यसे तदयमेव तव स्वभावो
यत्पूर्वजन्मनि भवानजितः किलासीत् ।
मिथ्यैव तत्यदिह भोः कतिशो जितोऽभू-
र्मत्किङ्करीभिरपि तद्विगतत्रपोऽसि ॥ ५५॥
इत्येवमुत्पुलकिनी कलयानि वाचः
सिञ्जानकङ्कणझनत्कृतदुन्दुभीकम् ।
युद्धं मुखामुखि रदारदि चारुबाहु
बाहव्यमन्दनखरानखरि स्तुवानि ॥ ५६॥
कस्याञ्चिदद्रिनृपदीव्यदुपत्यकायां
स प्रेयसि त्वयि सखीशतवेष्टितायाम् ।
विश्रान्तिभाजि वनदेवतयोपनीता
नीष्टानि सीधुचषकाणि पुरा दधानि ॥ ५७॥
हा किं किं किं धधरणी घुघुघूर्णतीयं
धाधाधधावति भयाद्विविवृक्षपुञ्जः ।
भीभीभिभीरुरहमत्र कथं जिजीवा-
म्येवं लगिष्यसि सदा दयितस्य कण्ठे ॥ ५८॥
त्वत्स्वामिनी प्रलपतीयमिमां गदेन
हीनां करोमि कलयात्र निरेहि नेतः ।
इत्युक्तिसीधुरसतर्पितहृत्तदैव
निष्क्रम्य जाल विततौ विदधानि नेत्रे ॥ ५९॥
घ्राणाक्षिकर्णवदने जलसेकतत्या
कृष्णस्त्वया जित इतः सहसा निमज्ज्य ।
ग्राहो भवन् स खलु यत्कुरुते स्म तत्तु
वेदान्यहं तव मुखाम्बुजमेव वीक्ष्य ॥ ६०॥
अभ्यञ्जयानि ससखीदयितां सहालि-
स्त्वां स्नापयानि वसनाभरणैर्विचित्रम् ।
शृङ्गारयाणि मणिमन्दिर पुष्पतल्पे
सम्भोजयानि करकाद्यथ शाययानि ॥ ६१॥
वाणीरकुञ्ज इह तिष्ठति देवी निह्नुत्य
मृग्यसि कथं तदितः परत्र ।
सत्यामिमां मम गिरं तमविश्वसन्तं
यान्तं मयि प्रदर्श्य भवती हर्षयाणि ॥ ६२॥
स्वामिन्यमूत्रहरिरस्ति कदम्बकुञ्जे
निह्नुत्य मृग्यसि कथं तदितः परत्र ।
सत्यामिमां मम गिरं खलु विश्वसत्याः
पाणौ जयं तव नयानि तमाप्नुवत्याः ॥ ६३॥
राधे जिता च जयिनी च पणं न दातुं
आदातुमप्यहह चुम्बनमीशिषे त्वम् ।
नाश्लेषचुम्बमधुराधरपानतोऽन्यं
द्यूते ग्लहं रसविदः प्रवरं वदन्ति ॥ ६४॥
गोवर्धनेऽत्र मम कापि सखी पुलिन्द
कन्यास्ति भृङ्ग्यतितरां निपुणेदृशेऽर्थे ।
मद्ग्राह्यदेयपणवस्तुनि मन्नियुक्ता
सा ते गृहीष्यति च दास्यति चोपगूहम् ॥ ६५॥
उक्त्वेत्थमात्मदयितं प्रति वक्ष्यसे मां
याहीत्यथोत्पुलकिनी द्रुतपादपाता ।
तामानयान्युप मुकुन्दमथासयानि
तं लज्जयानि सुमुखीरति हासयानि ॥ ६६॥
स्वीया किल व्रजपुरे मुरली तवैका
प्राभून् न तामपि भवानवितुं स्वभार्याम् ।
सा लम्पटापि भवतोऽधरसीधुसिक्ता-
प्यन्यं पुमांसमिह मृग्यति चित्रमेतत् ॥ ६७॥
वंशीं सतीं गुणवतीं सुभगां द्विषन्त्योऽ
साध्व्यो भवत्य इह तत्समतामलब्धाः ।
तां क्वापि बन्धमनयंस्तदहं भुजाभ्यां
बद्ध्वैव वः शिखरिगह्वरगाः करोमि ॥ ६८॥
इत्यागतं हरिमवेक्ष्य रहस्तदीय
कक्षादहं मुरलिकां सहसा गृहीत्वा ।
तां गोपयानि तदलक्षितमात्तचित्र
पुष्पेषु सङ्गररसां कलयानि च त्वाम् ॥ ६९॥
ब्रह्मन्निमामनुगृहाण भवन्तमेव
भास्वन्तमर्चयितुमिच्छति मे स्नुषेयम् ।
इत्यार्यया प्रणमितां धृतविप्रवेशे
कृष्णेऽर्पितां च भवतीं स्मितभाग्भजानि ॥ ७०॥
यान्तीं गृहं स्वगुरुनिघ्नतयातिलौल्यात्-
कान्तावलोकनकृते मिषमामृशन्तीम् ।
दूरेऽनुयानि यदतोऽनुविवर्तितास्यां
एहीति वक्ष्यसि तदास्यरुचो धयन्ती ॥ ७१॥
गेहागतां विरहिणीं नवपुष्पतल्पे
त्वां शाययानि परतः किल मुर्मुराभात् ।
तस्मात्परत्र शयनं विसपुञ्जकॢप्तं
अध्याशयानि विधुचन्दनपङ्कलिप्ताम् ॥ ७२॥
आकर्ण्य चन्दनकलाकथितं व्रजेशा
सन्देशमुत्सुकमतेः सरसा सहाल्याः ।
सायन्तनाशनकृते दयितस्य नव्य
कर्पूरकेलिबटकादिविनिर्मितौ ते ॥ ७३॥
लिम्पानि चुल्लिमथ तत्र कटाहमच्छ
मारोहयाणि दहनं रचयानि दीप्तम् ।
निराज्यखण्डकदलीमरिचेन्दुसीरि
गोधूमचूर्णमुखवस्तु समानयानि ॥ ७४॥
अत्यद्भुतं मलयजद्रवसेकतत्या
वृद्धिं जगाम यदिदं विरहानलौजः ।
कर्पूर केलीबटकावलिसाधनाग्नि
ज्वालेन शान्तिमनयत्तदिति ब्रुवाणि ॥ ७५॥
धूलिर्गवां दिशमरुद्ध हरेः सहाम्बा
रावेत्युदन्तमतुलं मधु पाययानि ।
तत्पानसंमदनिरस्तसमस्तकृत्यां
त्वामुत्थितां सहगणामभिसारयाणि ॥ ७६॥
तत्कृष्णवर्त्मनिकटस्थलमानयानि
निर्वापयाणि विरहानलमुन्नतं ते ।
आयात एष इति वल्लिनिगूढगात्रीं
आकृष्य मह्यमहहेश्वरि कोपयानि ॥ ७७॥
श्रीकृष्णदृङ्मधुलिहौ भवदास्यपद्मं
आघ्रापयाण्यतितृषन् तव दृक्चकोरीम् ।
तद्वक्त्रचन्द्रविकसत्स्मितधारयैव
संजीवयानि मधुरिम्णि निमज्जयानि ॥ ७८॥
वैवश्यमस्य तव चाद्भुतमीक्षयाणि
त्वामानयानि सदनं ललितानिदेशात् ।
कर्पूरकेल्यमृतकेलिततिं प्रदातुं
गोष्ठेश्वरीमनु सराणि समं सखीभिः ॥ ७९॥
गत्वा प्रणम्य तव शं कथयानि देवि
पृष्टा तयाथ बटकावलिं भोक्षयित्वा ।
तां हर्षयाणि भवदद्भुतसद्गुणाली-
स्तत्कीर्तिताः सवयसे शृणवानि हृष्टा ॥ ८०॥
वीक्ष्यागतं तनयमुन्नतसम्भ्रमोर्मि
मग्नां स्तनाक्षिपयसामभिषिच्य पूरैः ।
अभ्यञ्जनादिकृतये निजदासिकास्ता
मां चापि तां निदिशतीं मनसा स्तवानि ॥ ८१॥
स्नानानुलेपवसनाभरणैर्विचित्र
शोभस्य मित्रसहितस्य तया जनन्या ।
स्नेहेन साधु बहुभोजितपायितस्य
तस्यावशेषितमलक्षितमाददानि ॥ ८२॥
तेनैव कान्तविरहज्वरभेषजेन
तात्कालिकेन तदुदन्तरसेन चापि ।
आगत्य साधु शिशिरीकरवाणि शीघ्रं
त्वन्नेत्रकर्णरसनाहृदयाणि देवि ॥ ८३॥
स्नानाय पावनतडागजले निमग्नां
तीर्थान्तरे तु निजबन्धुवृतो जलस्थः ।
संमज्ज्य तत्र जलमध्यत एत्य स त्वां
आलिङ्ग्य तत्र गत एव समुत्थितः स्यात् ॥ ८४॥
तन् नो विदुर्निकटगा अपि ते ननन्दृ
स्वस्रादयो न किल तस्य सहोदराद्याः ।
ज्ञात्वाहमुत्पुलकितैव सहालिरेत-
च्चातुर्यमेत्य ललितां प्रति वर्णयामि ॥ ८५॥
उद्यानमध्यवलभीमधिरुह्य तत्र
वातायनार्पितदृशं भवतीं विधाय ।
सन्दर्श्य तत्प्रियतमं सुरभीर्दुहानं
आनन्दवारिधिमहोर्मिषु मज्जयानि ॥ ८६॥
गत्वा मुकुन्दमथ भोजितपायितं तं
गोष्ठेशया तव दशां निभृतं निवेद्य ।
सङ्केतकुञ्जमधिगत्य पुनः समेत्य
त्वां ज्ञापयान्ययि तदुत्कलिकाकुलानि ॥ ८७॥
त्वां शुक्लकृष्णरजनीसरसाभिसार
योग्यैर्विचित्रवसनाभरणैर्विभूष्य ।
प्रापय्य कल्पतरुकुञ्जमनङ्गसिन्धौ
कान्तेन तेन सह ते कलयानि केलीः ॥ ८८॥
हे श्रीतुलस्युरुकृपाद्युत तरङ्गिणी त्वं
यन्मूर्ध्नि मे चरणपङ्कजमादधाः स्वम् ।
यच्चाहमप्यपिबमम्बु मनाक् तदीयं
तन्मे मनस्युदयमेति मनोरथोऽयम् ॥ ८९॥
क्वाहं परशतनिकृत्यनुबिद्धचेताः
संकल्प एष सहसा क्व सुदुर्लभार्थे ।
एका कृपैव तव मामजहत्युपाधि
शून्यैव मन्तुमदधत्यगतेर्गतिर्मे ॥ ९०॥
हे रङ्गमञ्जरि कुरुष्व मयि प्रसादं
हे प्रेममञ्जरि किरात्र कृपादृशं स्वाम् ।
मामानय स्वपदमेव विलासमञ्ज-
र्यालीजनैः सममुरीकुरु दास्यदाने ॥ ९१॥
हे मञ्जुलालि निजनाथपदाब्जसेवां
सातत्यसम्पदतुलासि मयि प्रसीद ।
तुभ्यं नमोऽस्तु गुणमञ्जरि मां दयस्व
मामुद्धरस्व रसिके रसमञ्जरि त्वम् ॥ ९२॥
हे भानुमत्यनुपमप्रणयाब्धिमग्ना
स्वस्वामिनोस्त्वमसि मां पदवीं नय स्वाम् ।
प्रेमप्रवाहपतितासि लवङ्गमञ्ज-
र्यात्मीयतामृतमयीं मयि धेयि दृष्टिम् ॥ ९३॥
हे रूपमञ्जरि सदासि निकुञ्जयूनोः
केलिकलारसविचित्रितचित्तवृत्तिः ।
त्वद्दत्तदृष्टिरपि यत्समकल्पयं तत्-
सिद्धौ तवैव करुणा प्रभुतामुपैतु ॥ ९४॥
राधाङ्ग शश्वदुपगूहनतस्तदाप्त
धर्मद्वयेन तनुचित्तधृतेन देव ।
गौरो दयानिधिरभूरपि नन्दसूनो
तन्मे मनोरथलतां सफलीकुरु त्वम् ॥ ९५॥
श्रीराधिकागिरिभृतौ ललिताप्रसाद
लभ्याविति व्रजवने महतीं प्रसिद्धिम् ।
श्रुत्वाश्रयाणि ललिते तव पादपद्मं
कारुण्यरञ्जितदृशं मयि हा निधेहि ॥ ९६॥
त्वं नामरूपगुणशीलवयोभिरैक्या-
द्राधेव भासि सुदृशां सदसि प्रसिद्धा ।
आगःशतान् न गणयन्त्युररीकुरुष्व
तन्मां वराङ्गि निरुपाधिकृपे विशाखे ॥ ९७॥
हे प्रेमसम्पदतुला व्रजनव्ययूनोः
प्राणाधिकाः प्रियसखाः प्रियनर्मसख्यः ।
युष्माकमेव चरणाब्जरजोऽभिषेकं
साक्षादवाप्य सफलोऽस्तु ममैव मूर्धा ॥ ९८॥
वृन्दावनीयमुकुट व्रजलोकसेव्य
गोवर्धनाचलगुरो हरिदासवर्य ।
तत्सन्निधिस्थितियुषो मम हृत्शिलास्व-
प्येता मनोरथलताः सहसोद्भवन्तु ॥ ९९॥
श्रीराधया समं तदीयसरोवर त्वत्-
तीरे वसानि समये च भजानि संस्थाम् ।
त्वन्नीरपानजनिता मम तर्षवल्ल्यः
पाल्यास्त्वया कुसुमिताः फलिताश्च कार्याः ॥ १००॥
वृन्दावनीयसुरपादप योगपीठ
स्वस्मिन् बलादिह निवासयसि स्वयं यत् ।
तन्मे त्वदीयतलस्तस्थुष एव सर्व
सङ्कल्पसिद्धिमपि साधु कुरुष्व शीघ्रम् ॥ १०१॥
वृन्दावनस्थिरचरान् परिपालयित्रि
वृन्दे तयो रसिकयोरतिसौभगेन ।
आढ्यासि तत्कुरुकृपां गणना यथैव
श्रीराधिकापरिजनेषु ममापि सिद्धेत् ॥ १०२॥
वृन्दावनावनिपते जय सोम सोम
मौले सनन्दनसनातननारदेड्य ।
गोपीश्वर व्रजविलासि युगाङ्घ्रिपद्मे
प्रीतिं प्रयच्छ निरुपाधि नमो नमस्ते ॥ १०३॥
हित्वान्याः किल वासना भजत रे वृन्दावनं प्रेमदं
राधाकृष्णविलासवारिधिरसास्वादं चेत्विन्दथ ।
त्यक्तुं शक्नुथ न स्पृहामपि पुनस्तत्रैव हृद्वृत्तयो
विश्रद्धाः श्रयत ममैव सततं सङ्कल्पकल्पद्रुमम् ॥ १०४॥
इति श्रीविश्वनाथचक्रवर्तीठक्कुरविरचितः
श्रीसङ्कल्पकल्पद्रुमः सम्पूर्णः ।