श्रीसङ्कटासहस्रनामावलिः
(महाकालसंहिता)
॥ श्रीसङ्कटादेव्यै नमः ॥
मेरुपृष्ठे सुखासीनं भैरवं परिपृच्छति ।
बद्धाञ्जलिपुटा देवी भैरवी भुवनेश्वरी ॥ १॥
श्रीभैरव्युवाच -
यत् सूचितं त्वया नाथ ! नाम्नामष्टसहस्रकम् ।
तन्मे वद महाकाल ! यद्यहं तव वल्लभा ॥ २॥
श्रीभैरव उवाच -
शृणु देवि ! महेशानि नाम्नामष्टसहस्रकम् ।
पुरा त्रिपुरनाशार्थं यन्मया निर्मितं शुभे ॥ ३॥
यस्याः प्रसादमात्रेण भस्मीभूतं पुरत्रयम् ।
तस्याः श्रीसङ्कटादेव्या नामाख्यानं वदामि ते ॥ ४॥
अष्टोत्तरसहस्रस्य महाकालऋषिः स्मृतः ।
छन्दोऽनुष्टुब्-देवता च सङ्कटा कष्टहारिणी ॥ ५॥
ह्रां ह्रीं ह्रौं बीजमित्युक्तं शक्तिः श्रीसङ्कटेति च ।
कीलकं सङ्कटं मेऽद्य परमं नाशयनाशय स्वाहेति च ।
नानासङ्कटविध्वस्त्यै विनियोगः प्रकीर्त्तितः ॥ ६॥
विनियोगः-
अस्य श्रीसङ्कटाऽष्टोत्तरसहस्रनाम-
स्तोत्रस्य महाकालऋषिः, अनुष्टुप्छन्दः, श्रीसङ्कष्ट-
हारिणी सङ्कटादेवता ह्रां ह्रीं ह्रौं बीजं, सङ्कटेति शक्तिः,
शङ्कटं मेऽद्य परमं नाशय नाशय स्वाहेति कीलकं,
नाना-सङ्कटविध्वस्त्यै विनियोगः ।
मूलेन प्राणायामं कृत्वा, महाकालऋषये नमः, शिरसि ।
अनुष्टुप् छन्दसे नमः, मुखे । श्रीकष्टहारिण्यै सङ्कटा-
देवतायै नमो हृदि । ह्रां ह्रीं ह्रौं बीजाय नमः, गुह्ये ।
सङ्कटेति शक्तये नमः, पादयोः । सङ्कटं मेऽद्य परमं
नाशय नाशय स्वाहेति कीलकाय नमः, सर्वाङ्गे । इति पठेत् ।
करन्यासः-
ह्रां सङ्कटे अङ्गुष्ठाभ्यां नमः ।
ह्रीं रोगं तर्जनीभ्यां नमः ।
हूं मेऽद्य मध्यमाभ्यां नमः ।
हैं परमं अनामिकाभ्यां नमः ।
ह्रौं नाशय नाशय कनिष्ठिकाभ्यां नमः ।
हः स्वाहा करतलकरपृष्ठाभ्यां नमः ।
एवं षडङ्गन्यासः-
ह्रां सङ्कटे हृदयाय नमः ।
ह्रीं रोगं शिरसे स्वाहा ।
हूं मेऽद्य शिखायै वषट् ।
हैं परमं कवचाय हुम् ।
ह्रौं नाशय नाशय नेत्रत्रयाय वौषट् ।
हः स्वाहा अस्त्राय फट् ।
एवं विन्यस्य, ध्यानं कुर्यात् ॥
ध्यानम् -
ध्यायेऽहं परमेश्वरीं दशभुजां नेत्रत्रयोद्भूषितां
सद्यः सङ्कटतारिणीं गुणमयीमारक्तवर्णां शिवाम् ।
अक्षस्रग्जलपूर्णकुम्भकमलं शङ्खं गदां विभ्रतीं
त्रैशूलं डमरुं च खड्गविधृतां चक्राभयाढ्यां पराम् ॥
अथ स्तोत्रमुद्धृता सहस्रनामावलिः ।
ॐ सङ्कटायै नमः ।
ॐ विजयायै नमः ।
ॐ नित्यायै नमः ।
ॐ कामदायै नमः ।
ॐ दुःखहारिण्यै नमः ।
ॐ सर्वगायै नमः ।
ॐ अव्याहतगत्यै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ मृडेश्वर्यै नमः ।
ॐ भीमरावायै नमः । १०
ॐ रोगशोकसर्वापद्विनिवारिण्यै नमः ।
ॐ हकाराद्यायै नमः ।
ॐ महेशान्यै नमः ।
ॐ हकाराक्षररूपिण्यै नमः ।
ॐ हंसेश्यै नमः ।
ॐ हंसजनन्यै नमः ।
ॐ हंसरूपायै नमः ।
ॐ हिरण्मय्यै नमः ।
ॐ हेममाल्यै नमः ।
ॐ हिमेश्यै नमः । २०
ॐ हेमालयनिवासिन्यै नमः ।
ॐ हेममुक्तिने नमः ।
ॐ हेमकान्त्यै नमः ।
ॐ हेमपीठनिवासिन्यै नमः ।
ॐ हंसयानसमारूढायै नमः ।
ॐ हंसकोटिसमप्रभायै नमः ।
ॐ हारमालाविराज्यै नमः ।
ॐ हुङ्कारनादिन्यै नमः ।
ॐ हासपद्याहन्यै नमः ।
ॐ मन्दायै नमः । ३०
ॐ हंसपूरनिवासिन्यै नमः ।
ॐ संसारतापहरण्यै नमः ।
ॐ संसारार्णवतारिण्यै नमः ।
ॐ संहारिण्यै नमः ।
ॐ सङ्ग्रहण्यै नमः ।
ॐ सर्वसङ्कटतारिण्यै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ सर्वेषां गुणाग्रणीयै नमः ।
ॐ सङ्कटायै नमः । ४०
ॐ परमानन्दायै नमः ।
ॐ शाङ्कर्यै नमः ।
ॐ शङ्करप्रियायै नमः ।
ॐ संसाररूपिण्यै नमः ।
ॐ वाण्यै नमः ।
ॐ संसारजनपालिन्यै नमः ।
ॐ संसारभोगिन्यै नमः ।
ॐ योगायै नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ गुणेश्वर्यै नमः । ५०
ॐ सुरेश्वर्यै नमः ।
ॐ सुरापानायै नमः ।
ॐ सुखदायै नमः ।
ॐ भोगवत्सलायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ सुन्दराकान्त्यै नमः ।
ॐ सुमङ्गलायै नमः ।
ॐ शुभङ्कर्यै नमः ।
ॐ सुमार्गधारिण्यै देव्यै नमः ।
ॐ शार्वर्यै नमः । ६०
ॐ स्वर्गभूषण्यै नमः ।
ॐ सुकेश्यै नमः ।
ॐ सुभगायै देव्यै नमः ।
ॐ स्वर्णरौप्यविराजिन्यै नमः ।
ॐ सुगन्धिन्यै नमः ।
ॐ सुवासिन्यै नमः ।
ॐ सुभाशिणे नमः ।
ॐ सुन्दराननायै नमः ।
ॐ षट्चक्रायै नमः ।
ॐ षडाधारायै नमः । ७०
ॐ षट्चक्रविनिवासिन्यै नमः ।
ॐ षड्गुणैश्वर्यसम्पन्नायै नमः ।
ॐ षडङ्गकुलवासिन्यै नमः ।
ॐ षड्भुजायै नमः ।
ॐ रक्तनयनायै नमः ।
ॐ षट्पुरायै नमः ।
ॐ षडैश्वर्यै नमः ।
ॐ षड्वक्त्रराजिन्यै नमः ।
ॐ वीरायै नमः ।
ॐ षट्सुरङ्कनिवासिन्यै नमः । ८०
ॐ षडाम्नायायै नमः ।
ॐ षडिन्द्राण्यै नमः ।
ॐ षट्पुर्यै नमः ।
ॐ षडाननायै नमः ।
ॐ सोमायै नमः ।
ॐ पाठेन्द्रियायै नमः ।
ॐ वाग्म्यै नमः ।
ॐ षड्रूपायै नमः ।
ॐ षडिन्द्रियायै नमः ।
ॐ षडाधारायै नमः । ९०
ॐ षड्वर्णायै नमः ।
ॐ षट्पुरवासिन्यै नमः ।
ॐ षडायै नमः ।
ॐ षण्डायै नमः ।
ॐ भागीरथ्यै नमः ।
ॐ षड्श्मशाननिवासिन्यै नमः ।
ॐ श्मशानसाधिन्यै नमः ।
ॐ मात्रे नमः ।
ॐ श्मशानराजिन्यै नमः ।
ॐ वरायै नमः । १००
ॐ श्मशानयोगिन्यै नमः ।
ॐ कौल्यै नमः ।
ॐ श्मशानमध्यमोदिन्यै नमः ।
ॐ श्रीदेव्यै नमः ।
ॐ श्रीकर्यै नमः ।
ॐ श्रियै नमः ।
ॐ श्रीविद्यायै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ श्रीं ह्रीं क्रीं श्रीमहाकाल्यै नमः ।
ॐ श्रीमत्यै नमः । ११०
ॐ श्रीभगेश्वर्यै नमः ।
ॐ श्रीकृष्णायै नमः ।
ॐ श्रीमत्यै नमः ।
ॐ श्रीमान् श्रीपुरायै नमः ।
ॐ मेद्यमेदुरायै नमः ।
ॐ श्रीं क्लीं कूटदशाख्यायै नमः ।
ॐ श्राद्धदेवप्रपूजितायै नमः ।
ॐ श्रीयोग्यै नमः ।
ॐ श्रीप्रियायै नमः ।
ॐ श्रियै नमः । १२०
ॐ श्रेयायै नमः ।
ॐ श्रीपतिसिद्धिदायै नमः ।
ॐ श्रीदुर्गायै नमः ।
ॐ श्रीगुणमय्यै नमः ।
ॐ श्रोत्रिण्यै नमः ।
ॐ श्रोत्रवासिन्यै नमः ।
ॐ श्रीकाल्यै नमः ।
ॐ श्रीकामिन्यै नमः ।
ॐ श्रीपतिपरिपालिन्यै नमः ।
ॐ श्वेतकेश्यै नमः । १३०
ॐ श्वेतवर्णायै नमः ।
ॐ श्वेतचिह्नविनाशिन्यै नमः ।
ॐ श्वेतचन्दनलिप्ताङ्ग्यै नमः ।
ॐ श्वेतवासायै नमः ।
ॐ पिनाकिन्यै नमः ।
ॐ श्वेताङ्ग्यै नमः ।
ॐ श्वेतपद्माख्यायै नमः ।
ॐ स्मृतायै नमः ।
ॐ मधुरभाषिण्यै नमः ।
ॐ श्रीमुख्यै नमः । १४०
ॐ श्रीसुनिर्वाण्यै नमः ।
ॐ ॐ ह्रीं श्रीं सङ्कटे स्वाहायै नमः ।
ॐ श्वेतमुक्तायै नमः ।
ॐ सुवर्णाभायै नमः ।
ॐ शुद्धकर्मायै नमः ।
ॐ शुभङ्कर्यै नमः ।
ॐ क्षेमङ्कर्यै नमः ।
ॐ शुभायै नमः ।
ॐ वाचायै नमः ।
ॐ शीतलायै नमः । १५०
ॐ शीतलेश्वर्यै नमः ।
ॐ श्रीमङ्गलायै नमः ।
ॐ मङ्गलकृते नमः ।
ॐ श्रीमुख्यायै नमः ।
ॐ सङ्कटेश्वर्यै नमः ।
ॐ हं सं आं ह्रां स्त्रां ष्रीं ष्रूं
ष्रैं ष्रः सङ्कटे स्वाहायै नमः ।
ॐ शुक्लवस्त्रायै नमः ।
ॐ शुक्रपूज्यायै नमः ।
ॐ शुक्रशोणितशोषिण्यै नमः ।
ॐ श्रीमायायै नमः । १६०
ॐ ह्रीं महादेव्यै नमः ।
ॐ शुभाऽशुभफलप्रदायै नमः ।
ॐ शङ्कर्यै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ सौर्यै नमः ।
ॐ स्वर्णमालायै नमः ।
ॐ विशोभिन्यै नमः ।
ॐ शवासिन्यै नमः ।
ॐ शवेशान्यै नमः ।
ॐ शवपीठनिवासिन्यै नमः । १७०
ॐ शबर्यै नमः ।
ॐ शाम्बर्यै नमः ।
ॐ गौर्यै नमः ।
ॐ सुवराग्रविराजिन्यै नमः ।
ॐ वासुक्यै नमः ।
ॐ नागमालायै नमः ।
ॐ वङ्कारायै नमः ।
ॐ शिवकामिन्यै नमः ।
ॐ वासुदेव्यै नमः ।
ॐ वामचार्यै नमः । १८०
ॐ वामेश्वर्यै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ लवल्यै नमः ।
ॐ लालिन्यै नमः ।
ॐ लाल्यै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ लक्षणायै नमः ।
ॐ लक्षितायै नमः ।
ॐ लीलायै लक्षं नमः ।
ॐ लोकेश्यै नमः । १९०
ॐ लोमराज्यै नमः ।
ॐ जनेश्वर्यै नमः ।
ॐ लोमकूपायै नमः ।
ॐ भानुमत्यै नमः ।
ॐ लोलार्कनयनायै नमः ।
ॐ परायै नमः ।
ॐ लोकेश्यै नमः ।
ॐ लोकनार्यै नमः ।
ॐ लोकशोकविमर्दिन्यै नमः ।
ॐ लावल्यै नमः । २००
ॐ ललजिह्वायै नमः ।
ॐ ललितायै नमः ।
ॐ ललाननायै नमः ।
ॐ लीलावत्यै नमः ।
ॐ लालितायै नमः ।
ॐ लोहिन्यै नमः ।
ॐ लोकपालिन्यै नमः ।
ॐ लोहिताक्षायै नमः ।
ॐ लोहकारायै नमः ।
ॐ लोकशत्रुविनाशिन्यै नमः । २१०
ॐ लोकसाक्ष्यै नमः ।
ॐ लोकधर्यै नमः ।
ॐ लीलादैत्यविनाशिन्यै नमः ।
ॐ लोभदात्र्यै नमः ।
ॐ लोभमत्यै नमः ।
ॐ लिङ्ग-त्रिशूलधारिण्यै नमः ।
ॐ लङ्केश्वर्यै नमः ।
ॐ लङ्कमालायै नमः ।
ॐ लावण्यामृतवर्षिण्यै नमः ।
ॐ लीलायै नमः । २२०
ॐ लक्षायै नमः ।
ॐ निर्वाणायै नमः ।
ॐ लोकतुष्ट्यै नमः ।
ॐ शुभप्रदायै नमः ।
ॐ रक्तवर्णायै नमः ।
ॐ रक्तनखायै नमः ।
ॐ रक्ताक्ष्यै नमः ।
ॐ रक्तलोचन्यै नमः ।
ॐ रक्तदन्तायै नमः ।
ॐ विशालाक्ष्यै नमः । २३०
ॐ रक्ताङ्ग्यै नमः ।
ॐ रक्तपायिन्यै नमः ।
ॐ रक्तबीजायै नमः ।
ॐ रक्तपानायै नमः ।
ॐ लम्बोदर्यै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ रक्तबीजशिरोमालायै नमः ।
ॐ रक्तपुष्पसुशोभिन्यै नमः ।
ॐ रक्ताक्ष्यै नमः ।
ॐ रुद्ररमण्यै नमः । २४०
ॐ रोगशोकविनाशिन्यै नमः ।
ॐ रागिण्यै नमः ।
ॐ रञ्जितशिरायै नमः ।
ॐ रागरञ्जितलोचनायै नमः ।
ॐ रमायै नमः ।
ॐ रामायै नमः ।
ॐ रम्यरूपायै नमः ।
ॐ रामेश्यै नमः ।
ॐ रामपूजितायै नमः ।
ॐ रामेश्वर्यै नमः । २५०
ॐ राजकुलायै नमः ।
ॐ रामराजेश्वर्यै नमः ।
ॐ परायै नमः ।
ॐ राजिन्यै नमः ।
ॐ राजमात्रे नमः ।
ॐ राजेन्द्रनाशिन्यै नमः ।
ॐ जरायै नमः ।
ॐ रागमालायै नमः ।
ॐ रागवत्यै नमः ।
ॐ रागेश्यै नमः । २६०
ॐ रागसारिण्यै नमः ।
ॐ रम्भायै नमः ।
ॐ हेरम्बवर्णायै नमः ।
ॐ लम्बोष्ठ्यै नमः ।
ॐ लम्बन्यै नमः ।
ॐ यज्ञमात्रे नमः ।
ॐ यज्ञकर्त्र्यै नमः ।
ॐ यज्ञानन्तफलप्रदायै । नमः ।
ॐ यज्ञाङ्ग्यै नमः ।
ॐ यज्ञतार्यै नमः । २७०
ॐ यज्ञराट् नमः ।
ॐ यजनेश्वर्यै नमः ।
ॐ यज्ञाहुतिः सङ्ग्रह्यै नमः ।
ॐ यज्ञमोक्षप्रदायिन्यै नमः ।
ॐ यज्ञसाक्ष्यै नमः ।
ॐ यज्ञमय्यै नमः ।
ॐ यज्ञश्रुतिप्रवाहिन्यै नमः ।
ॐ योगिन्यै नमः ।
ॐ योगपीठस्थायै नमः ।
ॐ योगकर्मविलासिन्यै नमः । २८०
ॐ योगिनां योगमध्यस्थायै नमः ।
ॐ योगमार्गप्रदर्शिन्यै नमः ।
ॐ योगमायायै नमः ।
ॐ योगरूपायै नमः ।
ॐ योगिनीगणसेवितायै नमः ।
ॐ योगज्ञानप्रदायै नमः ।
ॐ ज्येष्ठायै नमः ।
ॐ योगरूपायै नमः ।
ॐ यशस्कर्यै नमः ।
ॐ योगिनीसङ्घमध्यस्थायै नमः । २९०
ॐ यज्ञचार्यैइ नमः ।
ॐ पितामह्यै नमः ।
ॐ यतिसेव्यायै नमः ।
ॐ योगगम्यायै नमः ।
ॐ योगिनां मुक्तिदायिन्यै नमः ।
ॐ यमेश्वर्यै नमः ।
ॐ यमचर्यै नमः ।
ॐ यमशासनमोचिन्यै नमः ।
ॐ यमेन्द्ररोचिन्यै नमः ।
ॐ शीलायै नमः । ३००
ॐ यमस्यालयवासिन्यै नमः ।
ॐ यानस्थायै नमः ।
ॐ यानगमन्यै नमः ।
ॐ योगिन्यै नमः ।
ॐ योगमोहिन्यै नमः ।
ॐ यज्ञभोक्त्र्यै नमः ।
ॐ यज्ञमात्रे नमः ।
ॐ यज्ञनिष्ठाप्रसादिन्यै नमः ।
ॐ महामायायै नमः ।
ॐ महेश्यै नमः । ३१०
ॐ महिषासुरमर्दिन्यै नमः ।
ॐ महासिंहसमारूढायै नमः ।
ॐ महादेवविलासिन्यै नमः ।
ॐ महोदयायै नमः ।
ॐ कुमारीश्यै नमः ।
ॐ महामालाविभूषिण्यै नमः ।
ॐ महासङ्कटतार्यै नमः ।
ॐ महासिधारिण्यै नमः ।
ॐ स्वरायै नमः ।
ॐ मालाधर्यै नमः । ३२०
ॐ महानादायै नमः ।
ॐ महालक्ष्मीस्वरूपिण्यै नमः ।
ॐ महाविभवदात्र्यै नमः ।
ॐ मिहिरारुणभूषिण्यै नमः ।
ॐ महाविश्वम्भर्यै नमः ।
ॐ रौद्र्यै नमः ।
ॐ महासुरविनाशिन्यै नमः ।
ॐ महाप्रभावायै नमः ।
ॐ महत्यै नमः ।
ॐ महासङ्कटहारिण्यै नमः । ३३०
ॐ महाभैरवरावायै नमः ।
ॐ महिषासुरखण्डिन्यै नमः ।
ॐ महाशान्त्यै नमः ।
ॐ महामार्यै नमः ।
ॐ मङ्गलायै नमः ।
ॐ वसुमङ्गलायै नमः ।
ॐ मालिन्यै नमः ।
ॐ महाकाल्यै नमः ।
ॐ मोक्षदायै नमः ।
ॐ भोगदाग्रण्यै नमः । ३४०
ॐ महामोहप्रशमन्यै नमः ।
ॐ महामहेशनन्दिन्यै नमः ।
ॐ महिम्नायै नमः ।
ॐ महिषारूढायै नमः ।
ॐ महावीरासन्यै नमः ।
ॐ मह्यै नमः ।
ॐ महेशार्चित-योगेश्यै नमः ।
ॐ महाश्मशानवासिन्यै नमः ।
ॐ महाकारुण्यजनन्यै नमः ।
ॐ महादेवसुखप्रदायै नमः । ३५०
ॐ महोदर्यै नमः ।
ॐ महावाण्यै नमः ।
ॐ मान्यायै नमः ।
ॐ महेशमोहिन्यै नमः ।
ॐ मोक्षदायै नमः ।
ॐ मुक्तिदायै नमः ।
ॐ मोक्षायै नमः ।
ॐ मोहमालाप्रकाशिन्यै नमः ।
ॐ मुराख्यनाशिन्यै नमः ।
ॐ चण्ड्यै नमः । ३६०
ॐ महाविष्णुवरप्रदायै नमः ।
ॐ महाभोग्यै नमः ।
ॐ जनेश्यै नमः ।
ॐ मुक्तिदायै नमः ।
ॐ मुक्तिदायै क्षमायै नमः ।
ॐ महानन्दायै नमः ।
ॐ महासुण्डायै नमः ।
ॐ महाबुद्धिकर्यै नमः ।
ॐ मह्यै नमः ।
ॐ महाकमण्डलुधरायै नमः । ३७०
ॐ महाविषविनाशिन्यै नमः ।
ॐ महाकपालधार्यै नमः ।
ॐ महायुद्धपरायणायै नमः ।
ॐ महाचण्ड्यै नमः ।
ॐ मुष्टिकायै नमः ।
ॐ मुमुक्षुमुक्तिभाविन्यै नमः ।
ॐ महागुणमय्यै नमः ।
ॐ मान्यायै नमः ।
ॐ मोहजाल-विमोक्षिण्यै नमः ।
ॐ मार्तण्डमण्डलस्थायै नमः । ३८०
ॐ मातङ्ग्यै नमः ।
ॐ मोहिनीश्वर्यै नमः ।
ॐ मन्दाकिन्यै नमः ।
ॐ वियद्बिन्दुर्माहेश्वर्यै नमः ।
ॐ गुणाग्रणीयै नमः ।
ॐ मङ्गलायै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ मदिरामत्तमोहिन्यै नमः ।
ॐ महासुरधरायै नमः ।
ॐ काल्यै नमः । ३९०
ॐ मण्डल्यै नमः ।
ॐ मण्डलप्रियायै नमः ।
ॐ श्मशानपीठमध्यस्थायै नमः ।
ॐ मण्डलायै नमः ।
ॐ भैरवाकृत्यै नमः ।
ॐ भवान्यै नमः ।
ॐ भगमालायै नमः ।
ॐ भवदुःखप्रभञ्जिन्यै नमः ।
ॐ भूतधारायै नमः ।
ॐ भूतसारायै नमः । ४००
ॐ भूधरायै नमः ।
ॐ भूधरात्मिकायै नमः ।
ॐ भाविन्यै नमः ।
ॐ भगमालायै नमः ।
ॐ भावसिद्धिप्रदायै नमः ।
ॐ शिवायै नमः ।
ॐ भावमुक्त्यै नमः ।
ॐ मुक्तिदात्र्यै नमः ।
ॐ भासायै नमः ।
ॐ भास्वत्यै नमः । ४१०
ॐ वरायै नमः ।
ॐ भुवनेश्यै नमः ।
ॐ भव्यरूपायै नमः ।
ॐ भक्ष्यभोज्यसुखप्रदायै नमः ।
ॐ भैषण्यै नमः ।
ॐ भैषज्यै नमः ।
ॐ मात्रे नमः ।
ॐ भक्तिदायै नमः ।
ॐ भक्तपालिन्यै नमः ।
ॐ भाग्यसिद्ध्यै नमः । ४२०
ॐ भाग्यवत्यै नमः ।
ॐ भवभारप्रभञ्जन्यै नमः ।
ॐ भूपेश्यै नमः ।
ॐ चामर्यै नमः ।
ॐ भूपायै नमः ।
ॐ भ्रमायै नमः ।
ॐ भ्रमरभाषिण्यै नमः ।
ॐ भूतेश्यै नमः ।
ॐ भूतरात्र्यै नमः ।
ॐ भूश्रियै नमः । ४३०
ॐ भूषणशोभिन्यै नमः ।
ॐ भैरव्यै नमः ।
ॐ भैरवानन्दायै नमः ।
ॐ भैम्यै नमः ।
ॐ भीमायै नमः ।
ॐ भयङ्कर्यै नमः ।
ॐ भानुमत्यै नमः ।
ॐ भानुकान्तिने नमः ।
ॐ भानुकोटिशुभाङ्गिन्यै नमः ।
ॐ भवज्येष्ठायै नमः । ४४०
ॐ भवमान्यायै नमः ।
ॐ भान्विन्द्वग्न्यै नमः ।
ॐ त्रिलोचन्यै नमः ।
ॐ भीष्मिण्यै नमः ।
ॐ भुवनायै नमः ।
ॐ भर्त्र्यै नमः ।
ॐ भूतिदायै नमः ।
ॐ भूसुरेश्वर्यै नमः ।
ॐ भवप्रियायै नमः ।
ॐ भवेश्यै नमः । ४५०
ॐ भक्तजननिवासिन्यै नमः ।
ॐ भावायै नमः ।
ॐ लोचनभावज्ञायै नमः ।
ॐ भवसङ्कटनाशिन्यै नमः ।
ॐ भाषिण्यै नमः ।
ॐ भासुर्यै नमः ।
ॐ ज्योतिषे नमः ।
ॐ भक्तसङ्कटतारिण्यै नमः ।
ॐ भगिन्यै नमः ।
ॐ भवताङ्ग्यै नमः । ४६०
ॐ भारत्यै नमः ।
ॐ भवसुन्दर्यै नमः ।
ॐ भावितात्मने नमः ।
ॐ भावमूर्त्यै नमः ।
ॐ विभूत्यै नमः ।
ॐ विश्वतो मुख्यै नमः ।
ॐ विभूतिने नमः ।
ॐ विश्वमूर्त्यै नमः ।
ॐ विश्वेश्यै नमः ।
ॐ विश्वमानिन्यै नमः । ४७०
ॐ वीरेश्यै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ पूज्यै नमः ।
ॐ विश्वेश्यै नमः ।
ॐ विश्वभाविन्यै नमः ।
ॐ विद्याधर्यै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ वामेश्यै नमः ।
ॐ वसुधारिण्यै नमः ।
ॐ विश्वमात्रे नमः । ४८०
ॐ विश्वरूपायै नमः ।
ॐ बुद्धिदायै नमः ।
ॐ बुद्धिचारिण्यै नमः ।
ॐ विपञ्च्यै नमः ।
ॐ वाद्यवादित्रायै नमः ।
ॐ वागीशायै नमः ।
ॐ वाग्वत्यै नमः ।
ॐ धृत्यै नमः ।
ॐ वागीशायै नमः ।
ॐ वरदायै नमः । ४९०
ॐ वाग्म्यै नमः ।
ॐ वीणावादनशाम्बर्यै नमः ।
ॐ वृत्तिकर्त्र्यै नमः ।
ॐ वृत्तिदात्र्यै नमः ।
ॐ वृत्तिकृते नमः ।
ॐ वृत्तबन्धुरायै नमः ।
ॐ व्यक्ताक्ष्यै नमः ।
ॐ विमलाक्ष्यै नमः ।
ॐ विमलायै नमः ।
ॐ विवुधप्रियायै नमः । ५००
ॐ विश्वकृते नमः ।
ॐ विश्वकर्माण्यै नमः ।
ॐ विश्वेशार्चितरूपिण्यै नमः ।
ॐ विलोचन्यै नमः ।
ॐ विश्वसाक्ष्यै नमः ।
ॐ विश्वात्मने नमः ।
ॐ विश्वसाधिन्यै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ विरूपाक्ष्यै नमः ।
ॐ विश्वेश्वर्यै नमः । ५१०
ॐ वराधर्यै नमः ।
ॐ बिम्बोष्ठ्यै नमः ।
ॐ रक्तवसनायै नमः ।
ॐ बिन्दुवक्त्रायै नमः ।
ॐ शुभङ्कर्यै नमः ।
ॐ फक्कारायै नमः ।
ॐ वृद्धिरूपायै नमः ।
ॐ फ्रां फ्रीं फ्रूं फ्रैं फ्रौं फ्रः स्वाहायै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ परायै नमः । ५२०
ॐ वृद्ध्यै नमः ।
ॐ परमायै नमः ।
ॐ ज्योतिरूपिण्यै नमः ।
ॐ पद्मालयायै नमः ।
ॐ परादेव्यै नमः ।
ॐ पालिन्यै नमः ।
ॐ कमलेश्वर्यै नमः ।
ॐ परानन्द्यै नमः ।
ॐ पराभिक्षायै नमः ।
ॐ प्रतिष्ठायै नमः । ५३०
ॐ पालिन्यै नमः ।
ॐ परायै नमः ।
ॐ परसन्ध्यै नमः ।
ॐ परावृद्ध्यै नमः ।
ॐ परमानन्दरूपिण्यै नमः ।
ॐ परमैश्वर्यजनन्यै नमः ।
ॐ परावाण्यै नमः ।
ॐ मनोहरायै नमः ।
ॐ परमार्थस्वरूपायै नमः ।
ॐ परम्पारायै नमः । ५४०
ॐ महेश्वर्यै नमः ।
ॐ पद्माक्ष्यै नमः ।
ॐ पद्ममध्यस्थायै नमः ।
ॐ पद्ममालायै नमः ।
ॐ शुभाननायै नमः ।
ॐ परायै नमः ।
ॐ पाल्यै नमः ।
ॐ परेश्यै नमः ।
ॐ परानन्दायै नमः ।
ॐ परेश्वर्यै नमः । ५५०
ॐ पञ्चम्यै नमः ।
ॐ स्वस्त्यै नमः ।
ॐ ऊपायै नमः ।
ॐ पन्थान्यै नमः ।
ॐ पथरक्षिण्यै नमः ।
ॐ परं पारायै नमः ।
ॐ बालबालायै नमः ।
ॐ बालायै नमः ।
ॐ बालस्वरूपिण्यै नमः ।
ॐ पारेश्वर्यै नमः । ५६०
ॐ पकारात्मने नमः ।
ॐ परमेष्ठ्यै नमः ।
ॐ परेश्वर्यै नमः ।
ॐ प्राणेश्यै नमः ।
ॐ प्राणरूपायै नमः ।
ॐ प्राणदात्र्यै नमः ।
ॐ कृपानिधये नमः ।
ॐ परानन्दायै नमः ।
ॐ परापुण्यायै नमः ।
ॐ निरञ्जनस्वरूपिण्यै नमः । ५७०
ॐ निर्मलायै नमः ।
ॐ निर्ममायै नमः ।
ॐ धात्र्यै नमः ।
ॐ निगमागमरूपिण्यै नमः ।
ॐ निन्दितायै नमः ।
ॐ तुष्टिरूपायै नमः ।
ॐ निःशेषप्राणितापहृते नमः ।
ॐ निशेश्वर्यै नमः ।
ॐ दशा देव्यै नमः ।
ॐ दोषपापहरायै नमः । ५८०
ॐ जयायै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ नन्दजायै नमः ।
ॐ मायायै नमः ।
ॐ निरालम्बायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ नादेश्वर्यै नमः ।
ॐ नादरूपायै नमः ।
ॐ नाममालायै नमः ।
ॐ विभूषण्यै नमः । ५९०
ॐ निरेश्वर्यै नमः ।
ॐ निराकार्यै नमः ।
ॐ नीलोत्पलायै नमः ।
ॐ परेश्वर्यै नमः ।
ॐ नीलरूपायै नमः ।
ॐ निराकारायै नमः ।
ॐ निर्लोकायै नमः ।
ॐ निर्गुणात्मिकायै नमः ।
ॐ धर्माध्यक्षायै नमः ।
ॐ धर्मवत्यै नमः । ६००
ॐ धनदायै नमः ।
ॐ धर्ममोचन्यै नमः ।
ॐ धनेश्वर्यै नमः ।
ॐ धकारात्मने नमः ।
ॐ धर्मराजनुतेश्वर्यै नमः ।
ॐ धर्मज्येष्ठ्यै नमः ।
ॐ धर्मचार्यै नमः ।
ॐ धूम्रवर्णायै नमः ।
ॐ धरामय्यै नमः ।
ॐ धर्मेश्यै नमः । ६१०
ॐ धर्मयुक्तात्मने नमः ।
ॐ धर्मज्ञायै नमः ।
ॐ धनदायिन्यै नमः ।
ॐ धरायै नमः ।
ॐ धरात्मने नमः ।
ॐ धरण्यै नमः ।
ॐ धूम्रलोचनमर्दिन्यै नमः ।
ॐ धुरन्धर्यै नमः ।
ॐ धर्मशीलायै नमः ।
ॐ धर्मधात्र्यै नमः । ६२०
ॐ स्वरूपिण्यै नमः ।
ॐ दिनेश्वर्यै नमः ।
ॐ दिनपत्यै नमः ।
ॐ दुर्बलायै नमः ।
ॐ दुर्गनाशिन्यै नमः ।
ॐ दुर्गबन्ध्यायै नमः ।
ॐ दुर्गरावायै नमः ।
ॐ दुर्गदैत्यविनाशिन्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ शाकम्भर्यै नमः । ६३०
ॐ देव्यै नमः ।
ॐ दिननाथसुपूजितायै नमः ।
ॐ दैत्यार्यै नमः ।
ॐ दैत्यदमन्यै नमः ।
ॐ दुःखदारिद्र्यनाशिन्यै नमः ।
ॐ दुर्गसङ्कटतार्यै नमः ।
ॐ दुःस्वप्ननाशिन्यै नमः ।
ॐ परायै नमः ।
ॐ दीर्घदायै नमः ।
ॐ दीर्घदन्तायै नमः । ६४०
ॐ दीर्घदर्श्यै नमः ।
ॐ दशेश्वर्यै नमः ।
ॐ दीर्घायुवर्धन्यै नमः ।
ॐ काल्यै नमः ।
ॐ बन्धमोक्षकर्यै नमः ।
ॐ शुभायै नमः ।
ॐ दीर्घनेत्रायै नमः ।
ॐ दीर्घकेश्यै नमः ।
ॐ दीर्घरूपायै नमः ।
ॐ दिगीश्वर्यै नमः । ६५०
ॐ द्वीपिचर्मपरीधानायै नमः ।
ॐ दीर्घशीर्षसुशोभिन्यै नमः ।
ॐ दीर्घमालायै नमः ।
ॐ नरशिरायै नमः ।
ॐ दीर्घहारस्थिताननायै नमः ।
ॐ दिव्यरूपायै नमः ।
ॐ दीर्घरावायै नमः ।
ॐ योगमात्रे नमः ।
ॐ दिगम्बर्यै नमः ।
ॐ दिव्यरूपायै नमः । ६६०
ॐ पीतवस्त्रायै नमः ।
ॐ दिव्यगन्धानुलेपन्यै नमः ।
ॐ दिव्यमाल्याम्बरधरायै नमः ।
ॐ दिव्यपीठनिवासिन्यै नमः ।
ॐ स्थानेश्वर्यै नमः ।
ॐ स्थानदात्र्यै नमः ।
ॐ सृष्टिस्थित्यन्तकारिण्यै नमः ।
ॐ तारिण्यै नमः ।
ॐ तरिण्यै नमः ।
ॐ मात्रे नमः । ६७०
ॐ त्रैलोक्यपावन्यै नमः ।
ॐ त्रय्यै नमः ।
ॐ त्रिलोचन्यै नमः ।
ॐ त्रिशूल्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ त्रिदिवेश्वर्यै नमः ।
ॐ त्रिमात्रायै नमः ।
ॐ त्रिवर्णाख्यायै नमः ।
ॐ त्रिमूर्त्यै नमः ।
ॐ निगमेश्वर्यै नमः । ६८०
ॐ तापशान्त्यै नमः ।
ॐ तापहन्त्र्यै नमः ।
ॐ त्रितापदुःखनाशिन्यै नमः ।
ॐ निर्णेत्र्यै नमः ।
ॐ निरातङ्कायै नमः ।
ॐ निर्गुणायै नमः ।
ॐ निसूचकायै नमः ।
ॐ ढक्कावाद्यविहसितायै नमः ।
ॐ ढुण्डिभैरवसङ्गिन्यै नमः ।
ॐ दण्डचामरधार्यै नमः । ६९०
ॐ डमड्डमरुवादिन्यै नमः ।
ॐ डाकिन्यै नमः ।
ॐ शाकिन्यै नमः ।
ॐ रौद्र्यै नमः ।
ॐ लाकिन्यै नमः ।
ॐ काकिनीश्वर्यै नमः ।
ॐ टङ्कारकारिण्यै नमः ।
ॐ शैवायै नमः ।
ॐ दौलिन्यै नमः ।
ॐ योगरूपिण्यै नमः । ७००
ॐ ञेश्वर्यै नमः ।
ॐ सर्वलोकेश्यै नमः ।
ॐ ञकारायै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ ञकारनाशिकायै नमः ।
ॐ देव्यै नमः ।
ॐ झञ्झकारस्वरूपिण्यै नमः ।
ॐ झिनिशायै नमः ।
ॐ योगिन्यै नमः ।
ॐ शैवायै नमः । ७१०
ॐ झञ्झर्यै नमः ।
ॐ झशेश्वर्यै नमः ।
ॐ जन्मन्यै नमः ।
ॐ जन्ममालायै नमः ।
ॐ जन्मकोटिवृताननायै नमः ।
ॐ ज्योतिरूपायै नमः ।
ॐ ज्योतिःप्राणायोगयोगान्तरूपिण्यै नमः ।
ॐ जन्मेश्वर्यै नमः ।
ॐ जगन्मात्रे नमः ।
ॐ जगज्योतिः-प्रपूजितायै नमः । ७२०
ॐ ज्योतिःपीठस्थितायै नमः ।
ॐ ज्योतिषे नमः ।
ॐ अष्टज्योतिर्महेश्वर्यै नमः ।
ॐ ज्योतिर्कारायै नमः ।
ॐ ज्योतिर्लिङ्गीजातिपुष्परताङ्गिन्यै नमः ।
ॐ ज्योतिरावायै नमः ।
ॐ ज्योतिर्हारायै नमः ।
ॐ ज्योतिः काञ्चनरूपिण्यै नमः ।
ॐ छत्रेश्वर्यै नमः ।
ॐ छत्रपत्यै नमः । ७३०
ॐ छादिन्यै नमः ।
ॐ छेदरूपिण्यै नमः ।
ॐ छुरीधर्यै नमः ।
ॐ छन्दकर्यै नमः ।
ॐ छेदन्यै नमः ।
ॐ छेदनाशन्यै नमः ।
ॐ चतुर्भुजायै नमः ।
ॐ वेदमात्रे नमः ।
ॐ चामुण्डायै नमः ।
ॐ चञ्चरेश्वर्यै नमः । ७४०
ॐ चण्डरूपायै नमः ।
ॐ महाचण्ड्यै नमः ।
ॐ चण्डिकायै नमः ।
ॐ चण्डनाशिन्यै नमः ।
ॐ चण्डाट्टहासायै नमः ।
ॐ सुरभ्यै नमः ।
ॐ चञ्चलायै नमः ।
ॐ चपलद्युत्यै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ चन्द्रकान्तायै नमः । ७५०
ॐ चन्द्रसूर्याग्निलोचन्यै नमः ।
ॐ चञ्चलायै नमः ।
ॐ चारिण्यै नमः ।
ॐ देव्यै नमः ।
ॐ चन्द्रचूडायै नमः ।
ॐ विलोचन्यै नमः ।
ॐ चित्रप्रियायै नमः ।
ॐ चित्रवत्यै नमः ।
ॐ चित्रकेश्यै नमः ।
ॐ चिरन्तनायै नमः । ७६०
ॐ चित्रवस्त्रपरीधानायै नमः ।
ॐ चित्राङ्ग्यै नमः ।
ॐ चित्ररूपिण्यै नमः ।
ॐ चित्रेश्वर्यै नमः ।
ॐ चित्रमत्यै नमः ।
ॐ चित्रकारान्तराश्रयायै नमः ।
ॐ ङङ्कारमङ्गलायै नमः ।
ॐ काल्यै नमः ।
ॐ ङकारेश्यै नमः ।
ॐ सुरेश्वर्यै नमः । ७७०
ॐ घर्घरावायै नमः ।
ॐ घुर्घुरिण्यै नमः ।
ॐ घर्घर्यै नमः ।
ॐ घर्घरस्वनायै नमः ।
ॐ घोरमुख्यै नमः ।
ॐ घनानन्दायै नमः ।
ॐ घोरहुङ्कारनादिन्यै नमः ।
ॐ घातिन्यै नमः ।
ॐ घ्राणिन्यै नमः ।
ॐ घोरायै नमः । ७८०
ॐ घोरमूर्त्त्यै नमः ।
ॐ भयङ्कर्यै नमः ।
ॐ घ्राणप्रियायै नमः ।
ॐ घ्राणरुच्यै नमः ।
ॐ घोरनादायै नमः ।
ॐ घनेश्वर्यै नमः ।
ॐ घनेश्वर्यै नमः ।
ॐ घनानन्दायै नमः ।
ॐ घनवर्णायै नमः ।
ॐ परेश्वर्यै नमः । ७९०
ॐ घनकेश्यै नमः ।
ॐ घनचर्यै नमः ।
ॐ घननामप्रदायिन्यै नमः ।
ॐ घनज्योतिषे नमः ।
ॐ मखेश्यै नमः ।
ॐ घनरूपायै नमः ।
ॐ घनस्वनायै नमः ।
ॐ गानप्रियायै नमः ।
ॐ गानरुच्यै नमः ।
ॐ ग्रामण्यै नमः । ८००
ॐ ग्रामवासिन्यै नमः ।
ॐ गोपालायै नमः ।
ॐ गोपपाल्यै नमः ।
ॐ गोपेश्यै नमः ।
ॐ कंसमर्दिन्यै नमः ।
ॐ गोकुलायै नमः ।
ॐ गोकुलीमान्यायै नमः ।
ॐ गोवर्धनसख्यै नमः ।
ॐ सुहृदे नमः ।
ॐ गिरिरूपायै नमः । ८१०
ॐ सुलभायै नमः ।
ॐ गिरीश्यै नमः ।
ॐ गिरिरूपिण्यै नमः ।
ॐ गुणकर्यै नमः ।
ॐ गुणानन्दायै नमः ।
ॐ गायत्र्यै नमः ।
ॐ गिरिजायै नमः ।
ॐ मह्यै नमः ।
ॐ खगेश्वर्यै नमः ।
ॐ खगेश्यै नमः । ८२०
ॐ खवर्णायै नमः ।
ॐ खगमालिन्यै नमः ।
ॐ खगमालायै नमः ।
ॐ खवर्णाभायै नमः ।
ॐ खगसन्ध्यास्वरूपिण्यै नमः ।
ॐ खगवर्णायै नमः ।
ॐ नख्यै नमः ।
ॐ रौद्र्यै नमः ।
ॐ खसमायै नमः ।
ॐ खसमेश्वर्यै नमः । ८३०
ॐ खड्गधारायै नमः ।
ॐ खगाधारायै नमः ।
ॐ खमण्यै नमः ।
ॐ शतरूपिण्यै नमः ।
ॐ कालिकायै नमः ।
ॐ कालदमन्यै नमः ।
ॐ कालिकागणभाविन्यै नमः ।
ॐ कपाल्यै नमः ।
ॐ हारमालायै नमः ।
ॐ कुमार्यै नमः । ८४०
ॐ स्वर्णभूषिण्यै नमः ।
ॐ कलावत्यै नमः ।
ॐ कमलिन्यै नमः ।
ॐ कङ्काल्यै नमः ।
ॐ कालभैरव्यै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ कामराज्ञ्यै नमः ।
ॐ कमलाकररूपिण्यै नमः ।
ॐ कामदात्र्यै नमः ।
ॐ कामूर्त्त्यै नमः । ८५०
ॐ कौलेश्यै नमः ।
ॐ कुलेश्वर्यै नमः ।
ॐ कमनीयै नमः ।
ॐ कुलादेश्यै नमः ।
ॐ कौमुदीशतरूपिण्यै नमः ।
ॐ मङ्गलायै नमः ।
ॐ मङ्गलानन्दायै नमः ।
ॐ यशोदायै नमः ।
ॐ द्रव्यदायिन्यै नमः ।
ॐ चन्द्रमात्रे नमः । ८६०
ॐ चन्द्रपत्न्यै नमः ।
ॐ चन्द्राण्यै नमः ।
ॐ चन्द्रशेखरायै नमः ।
ॐ पिङ्गलापिङ्गलायै नमः ।
ॐ पिङ्गायै नमः ।
ॐ पिङ्गाक्ष्यै नमः ।
ॐ शोकहारिण्यै नमः ।
ॐ सूर्यमात्रे नमः ।
ॐ सूर्यपत्न्यै नमः ।
ॐ सूर्याण्यै नमः । ८७०
ॐ सूर्यसन्निभायै नमः ।
ॐ धन्यायै नमः ।
ॐ धनप्रदायै नमः ।
ॐ धान्यायै नमः ।
ॐ धनेश्यै नमः ।
ॐ धनदायै नमः ।
ॐ धनायै नमः ।
ॐ जीवमात्रे नमः ।
ॐ जीवभार्यायै नमः ।
ॐ जीवत्यै नमः । ८८०
ॐ जीवन्यै नमः ।
ॐ शुभायै नमः ।
ॐ भ्रमर्यै नमः ।
ॐ भ्रामर्यै नमः ।
ॐ भ्राम्यायै नमः ।
ॐ भ्रमघ्न्यै नमः ।
ॐ भ्रमदायै नमः ।
ॐ भ्रमायै नमः ।
ॐ भौममात्रे नमः ।
ॐ भौमपत्न्यै नमः । ८९०
ॐ मङ्गलायै नमः ।
ॐ मङ्गलेश्वर्यै नमः ।
ॐ भद्रिकायै नमः ।
ॐ भद्रदायै नमः ।
ॐ भद्रायै नमः ।
ॐ भद्रेश्यै नमः ।
ॐ भद्रदायिन्यै नमः ।
ॐ सौम्यमात्रे नमः ।
ॐ सौम्यपत्न्यै नमः ।
ॐ बुद्धिस्थायै नमः । ९००
ॐ बुद्धितोषदायै नमः ।
ॐ उत्कोल्किकायै नमः ।
ॐ महोल्कोल्कायै नमः ।
ॐ नाशिन्यै नमः ।
ॐ मन्दमातृकायै नमः ।
ॐ सौरमात्रे नमः ।
ॐ सौरपत्न्यै नमः ।
ॐ रशन्यै नमः ।
ॐ स्वननिस्वनायै नमः ।
ॐ सिद्धायै नमः । ९१०
ॐ सिद्धिकर्यै नमः ।
ॐ सिद्ध्यै नमः ।
ॐ सिद्धिदायै नमः ।
ॐ सिद्धपूजितायै नमः ।
ॐ शुक्रपत्न्यै नमः ।
ॐ शुक्रमात्रे नमः ।
ॐ शुक्लाङ्ग्यै नमः ।
ॐ शुक्रसुन्दर्यै नमः ।
ॐ सङ्कटायै नमः ।
ॐ सङ्कटेश्यै नमः । ९२०
ॐ सर्वसङ्कटतारिण्यै नमः ।
ॐ अभक्तमारिण्यै नमः ।
ॐ भक्तपालिन्यै नमः ।
ॐ गणमातृकायै नमः ।
ॐ अकष्टायै नमः ।
ॐ सङ्कटान्तस्थायै नमः ।
ॐ सङ्कटाऽऽपन्निवारिण्यै नमः ।
ॐ रोगदायै नमः ।
ॐ रोगहन्त्र्यै नमः ।
ॐ मृत्युदायै नमः । ९३०
ॐ मृत्युंहारिण्यै नमः ।
ॐ राहुमात्रे नमः ।
ॐ राहुजायायै नमः ।
ॐ सर्पिण्यै नमः ।
ॐ विषमोचिन्यै नमः ।
ॐ विकटायै नमः ।
ॐ विकटान्तस्थायै नमः ।
ॐ गर्भस्थायै नमः ।
ॐ विकटाङ्गिन्यै नमः ।
ॐ गर्भपाल्यै नमः । ९४०
ॐ वीरविद्यायै नमः ।
ॐ शकटान्तः प्रचारिण्यै नमः ।
ॐ केतुमात्रे नमः ।
ॐ केतुजायायै नमः ।
ॐ ध्वजिन्यै नमः ।
ॐ ध्वजपूजितायै नमः ।
ॐ अन्तिकायै नमः ।
ॐ अन्तमालायै नमः ।
ॐ अङ्गारकनकारुणायै नमः ।
ॐ अम्बिकायै नमः । ९५०
ॐ अन्तकरण्यै नमः ।
ॐ अन्नपूर्णायै नमः ।
ॐ अन्नकारिण्यै नमः ।
ॐ अंशिन्यै नमः ।
ॐ कारिण्यै नमः ।
ॐ हौङ्कारहोमरूपिण्यै नमः ।
ॐ होमभुचे नमः ।
ॐ होमवह्नीशालद्विकाऌद्विकारिण्यै नमः ।
ॐ ऋद्धेश्वर्यै नमः ।
ॐ ऋद्धिरूपायै नमः । ९६०
ॐ ऋद्धिवरप्रदायिन्यै नमः ।
ॐ ऋग्रूपायै नमः ।
ॐ ऋषिसेव्यायै नमः ।
ॐ ऋषिगणविनोदिन्यै नमः ।
ॐ ऋषिपालस्य तनयायै नमः ।
ॐ ऋजुमार्गप्रदर्शिन्यै नमः ।
ॐ एकाररूपिण्यै नमः ।
ॐ मान्यायै नमः ।
ॐ एकारायै नमः ।
ॐ एकचारिण्यै नमः । ९७०
ॐ ऐरावत्यै नमः ।
ॐ हैमवत्यै नमः ।
ॐ हिममाल्यै नमः ।
ॐ हिमेश्वर्यै नमः ।
ॐ ऐङ्काररूपिण्यै नमः ।
ॐ हैम्यै नमः ।
ॐ ऐश्वर्यै नमः ।
ॐ अयै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ ओङ्कारायै नमः । ९८०
ॐ हौङ्कारायै नमः ।
ॐ अं अः पदस्वरूपिण्यै नमः ।
ॐ उँ उँ उँ कारिण्यै नमः ।
ॐ फट् फट् फट् फट् फट् उमेश्वर्यै नमः ।
ॐ ईश्वर्यै नमः ।
ॐ लोकईशान्यै नमः ।
ॐ ईशाकुलेश्वर्यै नमः ।
ॐ ईं ईं ईं ईं हनुरूपायै नमः ।
ॐ ईकारायै नमः ।
ॐ ईश्वर्यै नमः । ९९०
ॐ इङ्गितायै नमः ।
ॐ कालिकारूपायै नमः ।
ॐ ईशामानमहेश्वर्यै नमः ।
ॐ अम्बिकायै नमः ।
ॐ कामदायै नमः ।
ॐ ज्योत्स्नायै नमः ।
ॐ अमर्यै नमः ।
ॐ अमरावत्यै नमः ।
ॐ अङ्गार्यै नमः ।
ॐ अम्बुदायै नमः ।
ॐ अम्बायै नमः । १००१
इति श्रीमहाकालसंहितायां चतुर्थकल्पपटले
सङ्कटासहस्रनामाख्यं नामावलिः समाप्ता ।
Proofread by D.K.M.Kartha, NA