श्रीसङ्कटाष्टकम्
नमो कासिनी वासिनी गङ्गतीरे
सदा अर्चितं चन्दनं रक्तपुष्पम् ।
सदा वन्दितं पूजितं सर्वदेवं
नमो सङ्कटा कष्टहरणी भवानी ॥ १॥
नमो मोहिनी मोहितं भूतसैन्यं
सदा चन्द्रबदनी हंसैर्विहारम् ।
सदा मृगनयनी त्रिगुणरूपवर्णी
नमो सङ्कटा कष्टहरणी भवानी ॥ २॥
नमो खड्गहस्ते गले रुण्डमाला
नमो गर्जितं भूमिकम्पायमाना ।
सदा मर्दितो भूतमहिषासुरश्च
नमो सङ्कटा कष्टहरणी भवानी ॥ ३॥
नमो मुक्तिदेवी नमो वेदमाता
सदा योगिनी योगिनी योगगम्या ।
सदा कामिनी मोहितं कामराज्यं
नमो सङ्कटा कष्टहरणी भवानी ॥ ४॥
नमो पुष्पशय्या गले रुण्डमाला
सदा कोकिला काञ्चनं रूपवर्णी ।
सदा रणविषे शत्रुसंहारकरणी
नमो सङ्कटा कष्टहरणी भवानी ॥ ५॥
इदं पञ्चरत्नं पठेत् प्रातकाले
हरेत् पाप तन के बढ़े धर्मज्ञानम् ।
सदा दुःख में कष्ट में रक्ष पालं
नमो सङ्कटा कष्टहरणी भवानी ॥ ६॥
तुही सङ्कटे योगिनी योगधारं
तुही कामिनी मोहितं कामराज्यम् ।
तुही विश्वमाता करे खड्गधारं
नमो सङ्कटा कष्टहरणी भवानी ॥ ७॥
सङ्कटाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः
तस्य पीडा विनिर्याति सर्वकामफलं लभेत् ॥ ८॥
इति सङ्कटाष्टकं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan