संवित्प्रसादस्तोत्रम्
सर्वार्थदा सर्वजगत्प्रसूतिः सर्वेश्वरी सर्वभयापहन्त्री ।
सर्वोन्नता सर्वभूतान्तरस्था संविन्मयी मे भवतु प्रसन्ना ॥ १॥
समस्तविघ्नौघविनाशकारिणी समस्तभक्तोद्धरणे विचक्षणा ।
समस्तसौन्दर्यविमर्शरूपिणी संविन्मयी मे भवतु प्रसन्ना ॥ २॥
विद्या शिवाङ्कस्थितवामरूपा विशुद्धविज्ञानसुखैकदोग्ध्री ।
विक्षेपहन्त्री त्रिगुणातिरिक्ता संविन्मयी मे भवतु प्रसन्ना ॥ ३॥
अशेषवाग्जाड्यतमोपहन्त्री नवं नवं स्पष्टसुवाक्प्रदात्री ।
ममैव जिह्वाग्रसुरङ्गनर्तकी संविन्मयी मे भवतु प्रसन्ना ॥ ४॥
माता-पिता त्वं गुरुः सद्गतिः श्रीस्त्वमेव सञ्जीवनहेतुभूता ।
अन्यं न मन्ये जगदेकनाथे त्वमेव संविन् मम देवि सर्वम् ॥ ५॥
इति संवित्प्रसादस्तोत्रं सम्पूर्णम् ।
Proofread by Sunder Hattangadi