ब्रह्माकृतं श्रीसीतानवकस्तोत्रम्
मङ्गलं -
रामचन्द्रस्य वामाङ्गे शोभितां जनकात्मजाम् ।
जगत्पूज्यां शुभाङ्गीं त्वां नमामि रामवल्लभाम् ॥
जनकजात्मजे राघवप्रिये कनकभासुरे भक्तपालिके ।
दशरथात्मजप्राणवल्लभे तवपदाम्बुजालिः शिरोऽस्तु मे ॥ १॥
मूलकासुरप्राणघातिके रामरक्षिते रामसेविते ।
राममोहिनी स्यन्दनस्थिते त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ २॥
राममञ्चकाधिष्ठिते रमे राम वीजिते रामलालिते ।
राम संस्तुते रामरञ्जिते त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ३॥
लोकपावनी श्रीरजेवरे भूमिकन्यके लोकपालिके ।
पद्मलोचने धरात्मजेपरे त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ४॥
कञ्जलोचने नागगामिनी स्वीयसत्सुखे रम्यरूपिणि ।
रुक्मभूषिते मौक्तिकाङ्किन्ते त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ५॥
जलरुहानने चित्रवासिनी त्वमवसिसदा स्वीयसेवकान् ।
मुनिरिपून्सदा दुःखदायिके त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ६॥
त्वन्मुखेक्षणाद्राक्षसाम्पति प्राप सङ्क्षयं रामसत्प्रिये ।
त्वत्दृगेक्षणाल्लज्जितामृगी त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ७॥
कुशलवाम्बिके जलरुहानने जलरुहेक्षणे पापदाहिके ।
मधुरसुस्वने नूपुरसुस्वने त्वत्पदाम्बुजालिः शिरोऽस्तु मे ॥ ८॥
घ्राणमुत्तमं तेस्मितानने तेऽधरः शुभोविम्बसन्निभः ।
अद्य वै त्वया मूलकासुरो मारितोरणे तारिता वयम् ॥ ९॥
ब्रह्मणेरितं नवकमुत्तमं भास्करोदये पठति यः पुमान् ।
सर्व वाञ्छितं लभति सोऽत्र ना प्राप्नुयात्सुखं रामसन्निधिम् ॥ १०॥
इति आनन्दरामायणान्तरगतं श्रीसीतानवकं सम्पूर्णम् ।
Encoded and proofread by Vishwesh GM