सारस्वतगीतिस्तोत्रम्
भारतनन्दनवन्दननन्दिता विहरति भारती नववनभवने ।
चरणकमलदलपरिमलमधुरितमधुकररवमुखरितमधुपवने ॥
जनमनोरञ्जनगुञ्जनगञ्जनवीणानादनजितसुरवनसदने ।
पिककुलकलकलकलयितकिसलयचलितचमरवृतसरसिजवदने ॥
हंसविडम्बितहंसकशिञ्जनधूनितपुञ्जितसितवनकमले ।
शशधररुचिहरमुखरुचिधवलितधवलरदनरुचिशुचिकरविमले ॥
भूषितसिततन्वङ्गाः श्वेतसरोजमण्डिते ।
भारत्या भारतारण्ये भारती भान्ति भारतिः ॥ १॥
प्रलयाम्बुनिधौ पुरा ममौ न विरिञ्चिमुखाम्बुजोद्गता ।
तनुनादमयी च यत्तनुर्ननु साद्य वनेऽपि शोभते ॥ २॥
श्वेतहंसकमलासना सिता श्वेतवर्णपरिधानमण्डना ।
व्यज्यते मधुरवल्लकीरवै रक्तपादकमलाभया परम् ॥ ३॥
तरुनिषण्णाप्रसवपिकारुतं मधुसमीरसमीरणचञ्चलम् ।
शिशिरसान्द्रप्रतन्द्रिप्रबोधितं विरचितं स्वदृशेव तया वनम् ॥ ४॥
क्वणद्विपञ्चीमलिमञ्जुगुञ्जनैर्मरालनादैः पदनूपुरध्वनिम् ।
विमिश्रयन्ती पवनावधूननच्छलेन वाणी मधुरं प्रनृत्यति ॥ ५॥
चलकिसलयलीनाः कोकिला वीतरागा
विषयिणा इव भृङ्गा माधवीगन्धमुग्धाः ।
ललितमलयवाताः प्रेमिका लोकपाला
वनभवनमुपेता भारतीवन्दनार्थम् ॥ ६॥
पुण्यं तत् काननं धन्यं वरेण्यं मङ्गलावहम् ।
सखीवल्लपतो लक्ष्मीभारत्यौ यत्र संस्थिते ॥ ७॥
का त्वं वाणी मृगय वदनं श्वेतपद्मासनाहं
नीराधारं व्रज वद रमे ! नाम ते चञ्चलाहम् ।
यत्रासि त्वं न च मम गतिः पश्य लोले ! निकुञ्जं
भाषाकान्तिस्फुरितविभवं पान्तु वाण्यो जनन्योः ॥ ८॥
वेदा यस्याः किरीटः कमलनयनयो रञ्जनं दर्शनानि
स्वाङ्गे पुण्यं सुशुभ्रं सुरुचिरवसनं नूपुरं नृत्यगीतम् ।
काव्यं हारश्च कण्ठे रुचिरभुजयुगे कंङ्कणं ब्रह्मचर्यं
योद्भासा ब्रह्मविद्या कटितटरशना भूषणैः किन्नु तस्याः ॥ ९॥
ध्येया नित्यं हरिहरविधिध्यातमूर्तिः प्रसन्ना
ज्ञेया नित्यं सफलविबुधज्ञानदात्री च धात्री ।
गेयं नाम प्रणवमधुरं सर्वक्तिस्वरूपं
पेयं तस्याः पदकमलयोः स्यन्दनं माकरन्दम् ॥ १०॥
हृत्कुञ्जे चेन्न वसति जननी मञ्जुकुञ्जासनैः किं
भक्तिश्चेन्न प्रसरति परमा चन्दनैर्नन्दनैः किम् ।
नीरं चेन्नो गलति नयनयोः पुण्यगङ्गोदकैः किं
प्रत्यङ्गं चेन्न लसति पुलकैः ध्यानमन्त्रादिभिः किम् ॥ ११॥
कारुण्यैकनिधिः विधिप्रतिनिधिः ज्ञानाम्बुधिः पुण्यधी-
र्नीतिच्छन्नविधिः समाधिमधुरस्तीव्राधिसम्बाधनः ।
यस्या नेत्रमणिप्रभाकनकितो नूनं भवेद् बालिश
श्चित्तानन्दलसन्मरालरमणां वन्दे जगद्वन्दिताम् ॥ १२॥
अज्ञानध्वान्तराशिं स्फुरदमलवपूरोचिषा नाशयन्तीं
वीणागानैः नराणां युगशतविततां नोदयन्तीं प्रसुप्तिम् ।
भक्तालीन श्रीपदान्ते सरसिजरजसा लासयन्तीं सलीलं
वन्देऽनिन्द्यां प्रफुल्लां त्रिभुवनजननीं भारतीमिष्टदेवीम् ॥ १३॥
मातः !
न जाने विधानं न मन्त्रं न योगं
न याचे विदग्धादृतं पादपद्मम् ।
त्वदुत्सङ्गलीनस्त्वहो नामगीतैः
कदा दीर्घकालं सदा यापयामि ॥ १४॥
इति सारस्वतगीतिस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Vani V.