श्रीरुद्रचण्डी त्रैलोक्यमङ्गलकवचम्
॥ पूर्वपीठिका॥
श्रीपार्वत्युवाच ।
देवदेव ! महादेव ! दयालो ! दीनवत्सल ! ।
केन सिद्धिं ददात्याशु चण्डी त्रैलोक्यदुर्लभा ॥ १॥
श्रीमहादेव उवाच ।
रुद्रेणाराधिता चण्डी महासिद्धिर्भवेत् तदा ।
रुद्ररूपा रुद्रभावा रुद्रभूषा सदा स्थिता ॥ २॥
रुद्रध्येया रुद्रगेहा रुद्राणी रुद्रवल्लभा ।
सर्वदा वरदा देवी ब्रह्मज्ञानप्रदायिनी ॥ ३॥
सर्वपापहरा देवी सर्वरोगक्षयङ्करी ।
सर्वारिष्टगतैर्दात्री सर्वग्रहनिवारिणी ॥ ४॥
शिवं देहि शुभं देहि सुखं देहि सदा प्रिये ! ।
तुष्टिं पुष्टिं जयारोग्यं मङ्गलानां च मङ्गलम् ॥ ५॥
अकालमरणं वापि काले मृत्युर्यदा भवेत् ।
चण्डीस्मरणमात्रेण मृत्योर्मृत्युकरं परम् ॥ ६॥
ज्ञात्वा देवगणाः सर्वे चण्ड्यभूद् रुद्रगेहिनी ।
रुद्रचण्डी तदा ख्याता त्रैलोक्ये परमेश्वरी ॥ ७॥
रुद्रोऽभवन्महारुद्रश्चण्डीपाठप्रसादतः ।
तदा शापः प्रदातव्यः स्वीयसिद्धिर्यदा शिवे ! ॥ ८॥
कृष्णेनाराधिता चण्डी कृष्णचण्डी न सिद्धिदा ।
कृष्णनामधरा देवी सर्वतन्त्रेषु गोपिता ॥ ९॥
कृष्णचण्डी महादेवी प्राणान्ते न प्रकाशिता ।
ज्ञात्वा चण्डीं जगत् सर्वं कृष्णशापोऽभवत् तदा ॥ १०॥
तदन्ते चण्डिकां ज्ञात्वा कृष्णशापोऽभवन्मुदा ।
स्वीयभावे तदा देवी अभिशापं करोति हि ।
तेन ते स्वीयपापेन न सिद्ध्यन्ति कदाचन ॥ ११॥
श्रीपार्वत्युवाच ।
देवदेव दीननाथ दीनबन्धो ! दयानिधे ! ।
इदानीं वद मे नाथ ! चण्डीसिद्धिकरं परम् ॥ १२॥
विना ध्यानं विना पूजां विना जपपरायणम् ।
विना होमं विना मन्त्रं विना साधनसंज्ञकम् ॥ १३॥
अनायासेन सिद्ध्यन्ति केनोपायेन तद् वद ॥
श्रीमहादेव उवाच ।
शृणु पार्वति सुभगे ! चण्डीसिद्धिकरं परम् ।
रुद्रध्येया रुद्रचण्डी प्रसन्ना सर्वदा सती ॥ १४॥
तस्याहं कवचं देवि ! कथयामि शुचिस्मिते ! ।
त्रैलोक्ये सर्वदेवानां साधनेनैव यत् फलम् ॥ १५॥
तत् फलं लभते सद्यः कवचाध्यायमात्रतः ।
शतमष्टौ पठेद् यस्तु सर्वसिद्धीश्वरो भवेत् ॥ १६॥
शतावृत्तिं पठेद् यो हि सप्तद्वीपेश्वरो भवेत् ।
पञ्चाशत् पाठमात्रेण पञ्चाशद्वर्णसिद्धये ॥ १७॥
अष्टाविंशतिपाठेन अष्टसिद्धिः करे स्थिता ।
एकादश पठेद् यस्तु रुद्रस्तस्य प्रसन्नधीः ॥ १८॥
दशविद्याः प्रसिद्धयन्ति यः पठेद् दशधा शिवे ! ।
नवावृत्तिं पठेद् यो हि ग्रहदेवप्रसन्नधीः ॥ १९॥
अष्टावृत्तिं पठेद् यस्तु अष्टपाशैर्विमुच्यते ।
सप्तधा पाठमात्रेण चिरायुर्भवेत् ध्रुवम् ॥ २०॥
पठेत् षष्ठं कर्मभेदे षट्कर्मसिद्धये ध्रुवम् ।
पञ्चमं प्रपठेद् यस्तु पञ्चात्मा च प्रसन्नधीः ॥ २१॥
चतुर्थं प्रपठेद् यस्तु चतुर्वेदविदां वरः ।
त्रिधा पाठे महेशानि ! सर्वशान्तिर्भविष्यति ॥ २२॥
पाठ द्वयं कृतं यद्धि सर्वकाम्यं प्रसाधयेत् ।
एकधा पाठमात्रेण चण्डीसिद्धिर्भविष्यति ॥ २३॥
अतः परमहं वक्ष्ये कवचं च परात्परम् ।
रक्षाकरं महामन्त्रं त्रैलोक्यमङ्गलाभिधम् ॥ २४॥
प्रणवो वाग्भवो माया ततः सद्यः सनातनी ।
स्थिरा माया ततः कामो लज्जायुग्मं ततः परम् ॥ २५॥
एष नवाक्षरो मन्त्रः सर्वाशापरिपूरकः ।
अग्निस्तम्भं जलस्तम्भं वायुस्तम्भं ततः परम् ॥ २६॥
बहु किं कथ्यते देवि ! त्रैलोक्यस्तम्भनं भवेत् ।
कर्षयेदखिलं देवि ! शोषयेदखिलं जगत् ॥ २७॥
मोहयेदखिलान् लोकान् मारयेत् सकलं जगत् ।
वशयेत् सर्वदेवादीन् ऋतुभेदे महेश्वरि ! ॥ २८॥
सर्वरक्षाकरो मन्त्रः साक्षाद् ब्रह्म न संशयः ।
(नवाक्षर मन्त्रः ॐ ऐं ह्रीं ॐ क्रीं ह्लीं क्लीं ह्रीं ह्रीं)
॥ कवचस्तोत्र ॥
शिखायां प्रणवः पातु शिरसि वाग्भवः प्रिये ! ।
भ्रूमध्ये रक्षते माया हृदयं कालिकाऽवतु ॥ १॥
नाभिं पातु स्थिरा माया तदधः काम रक्षतु ।
लिङ्गमूलं पातु लज्जा यजुर्गुह्ये सदाऽवतु ॥ २॥
कटिं पृष्ठं कूर्परं च स्कन्धं कर्णद्वयं तथा ।
प्रणवो रक्षते देवि ! मातृभावेन सर्वदा ॥ ३॥
कण्ठं गलं च चिबुकं ओष्ठद्वयं ततः परम् ।
दन्तं जिह्वां तथा रन्ध्रं तदन्ते मुखमण्डलम् ॥ ४॥
वाग्भवो रक्षते देवि ! पितृभावेन सर्वदा ।
नासिकां हनुयुग्मं च चक्षुषी भ्रूयुगं तथा ॥ ५॥
ललाटं च कपालं च चन्द्रसूर्याऽग्निमण्डलम् ।
सर्वदा रक्षते माया शक्तिरूपे महेश्वरि ! ॥ ६॥
बाहुद्वयं ततः सर्वं पञ्जरं हृदिमण्डलम् ।
रक्षते कालिकावीजं कन्यारूपेण सर्वदा ॥ ७॥
उदरं मूलदेशं च चण्डिके ! त्वं सदाऽवतु ।
रक्तं मांसं तथा मज्जा शुक्राणि मेद एव च ॥ ८॥
रक्षेल्लज्जा शक्तिरूपे सगुणा परमा कला ।
नखकेशानि सर्वाणि यजुः पातु सदा प्रिये ! ॥ ९॥
सर्वाङ्गं रक्षते चण्डी सर्वमन्त्रं सकीलकम् ।
आत्मा परात्मा जीवात्मा चण्डिका पातु सर्वदा ॥ १०॥
साधने चण्डिका पातु सज्ज्ञानं चण्डिकाऽवतु ।
सत्सङ्गं चण्डिका पातु सद्योगं चण्डिकाऽवतु ॥ ११॥
सत्कथां चण्डिका रक्षेत् सच्चिन्तां चण्डिकाऽवतु ।
पूर्वस्यां चण्डिका पातु आग्नेय्यां चण्डिकाऽवतु ॥ १२॥
दक्षिणस्यां तथा चण्डी सर्वदा परिरक्षतु ।
नैरृत्यां चण्डिका रक्षेत् पश्चिमे चण्डिकाऽवतु ॥ १३॥
वायव्यां चण्डिका पातु उत्तरे चण्डिकाऽवतु ।
ऐशान्यां चण्डिका पातु ऊर्ध्वाधश्चण्डिका तथा ॥ १४॥
चण्डिका रक्षते कन्यां सुतं स्त्रीं चण्डिकाऽवतु ।
भ्रातरं भगिनीं सर्वं चण्डिका रक्षते सदा ॥ १५॥
बन्धुवर्गकुटुम्बानि दासीदासं ततः परम् ।
रक्षते चण्डिका देवी मातृभावान्महेश्वरी ॥ १६॥
गजवाजिगवान् सर्वान् जन्तूनां सर्वपर्वसु ।
रक्षते चण्डिका देवी स्वीयभावेन शाम्भवी ॥ १७॥
वास्तुवृक्षादिकं सर्वं चण्डिका रक्षते सदा ।
सैन्यं स्वसैन्यवर्गाणां चण्डिका परिरक्षतु ॥ १८॥
श्मशाने प्रान्तरेऽरण्ये चण्डिका पातु सर्वदा ।
राजद्वारे रणे घोरे पर्वते वा जले स्थले ॥ १९॥
अग्निवज्रादिदुर्योगे विवादे शत्रुसङ्कटे ।
चण्डिका पातु सर्वत्र यथा धेनुः सुतं प्रति ॥ २०॥
इति ते कथितं कान्ते ! त्रैलोक्यमङ्गलाभिधम् ।
त्रैलोक्यमङ्गलं नाम कवचं परिकथ्यते ॥ २१॥
॥ फलश्रुति ॥
इदं कवचमज्ञात्वा रुद्रचण्डीं पठेद् यदि ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥ २२॥
इदं कवचमज्ञात्वा चण्डीपाठं करोति यः ।
विपरीतं भवेत् सर्वं विघ्नस्तस्य पदे पदे ॥ २३॥
तदनन्तं भवेत् सर्वं कवचाध्यायमात्रतः ।
धारणे कवचं देवी फलसङ्ख्याप्रपूरकम् ॥ २४॥
तत्रैव कवचं देवि ! सर्वाशापरिपूरकम् ।
पञ्चवक्त्रेण कथितं किं मया कथ्यतेऽधुना ॥ २५॥
भूर्जे गन्धाष्टकेनैव लिखेत् तु कवचं शुभम् ।
समन्त्रं कवचं देवि ! स्वमन्त्रपुटितं ततः ॥ २६॥
गोत्रं नाम ततः कामं पुनर्मन्त्रं लिखेत् प्रिये ! ।
अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥ २७॥
प्राणप्रतिष्ठामन्त्रेण प्रतिष्ठां कुरुते ततः ।
पूजयेद् विधियुक्तेन पञ्चाङ्गं तदनन्तरम् ॥ २८॥
एवं ते धारयेद् यस्तु स रुद्रो नात्र संशयः ।
कण्ठे वा दक्षिणे बाहौ हृन्नाभिकटिदेशतः ॥ २९॥
योषिद् वामभुजे धृत्वा साक्षात् काली न संशयः ।
धनं पुत्रं जयारोग्यं यद् यन्मनसि कामदम् ॥ ३०॥
तत्तत् प्राप्नोति देवेशि ! निश्चितं मम भाषितम् ।
न सन्देहो न सन्देहो न सन्देहः कदाचन ॥ ३१॥
देयं शिष्टाय शान्ताय गुरुभक्तिरताय च ।
शक्तिध्येयाः शक्तरताः शक्तिप्राणाः सदाशयाः ॥ ३२॥
एवं तल्लक्षणैर्युक्तं कवचं दीयते क्वचित् ।
नित्यं पूजा प्रकर्तव्या कवचं परमं शिवे ! ॥ ३३॥
अशक्तौ परमेशानि ! पुष्पधूपं प्रदापयेत् ।
तस्य देहे तस्य गेहे चण्डिका त्वचला भवेत् ॥ ३४॥
खले दुष्टे शठे मूर्खे दाम्भिके निन्दके तथा ।
शक्तिनिन्दां शक्तिहिंसां यः करोति सः पामरः ॥ ३५॥
एतेषां परमेशानि ! सुकृतिर्न कदाचन ।
न दद्यात् कवचं देवि ! यदीच्छेदात्मनो हितम् ॥ ३६॥
दत्ते च सिद्धिहानिः स्याद् दत्ते च शिवहा भवेत् ॥ ३७॥
॥ श्रीरुद्रयामलतन्त्रे श्रीपार्वतीरहस्ये त्रैलोक्यमङ्गलं
नाम रुद्रचण्डीकवचं सम्पूर्णं शुभं भूयात् ॥
Proofread by Lalitha Parameswari parameswari.lalitha at gmail.com, NA