रजस्वला स्तोत्रम्
श्री गणेशाम्बिकाभ्यां नमः ॥
अस्य श्रीरजस्वलास्तोत्रमन्त्रस्य ईश्वरऋषिः ।
अनुष्टुप्छन्दः । रजस्वला देवता । हक्लीं बीजम् ।
हक्लौं शक्तिः । हक्लः कीलकम् ।
ममोपासनार्थे जपे विनियोगः ॥
अथ षडङ्गः ।
ॐ रजस्वलायै अङ्गुष्टाभ्यां हृदयाय ।
ॐ हक्लीं तर्जनीभ्यां शिरसे स्वाहा ।
ॐ हक्लौं मध्यमाभ्यां शिखायै वषट् ।
ॐ हक्लः अनामिकाभ्यां कवचाय हुम् ।
ॐ रजस्वलायै नमः कनिष्ठिकाभ्यां नेत्रत्रया वौषट् ।
ॐ रजस्वलायै हक्लीं हक्लौं करतलकरपृष्ठाभ्यां अस्त्राय फट् ।
अथ ध्यानम् ।
बालार्ककोटिलावण्यां भालचन्द्रनिभाननाम् ।
अनन्तबाणसहितां ध्यायेद्देविरजस्वलाम् ॥
मानसैः सम्पूज्य ।
अथमनुः-
॥ ॐ ह्रां रजस्वला हुं हुं हक्लौं हक्लैं हक्लः रजस्वलायै नमः इति मनुः ॥
भगोदेवं जगद्सर्वं त्रैलोक्यं सचराचरम् ।
सत्यपाताललोचनञ्च सत्यकाशोभवोद्भवम् ॥ १॥
कमलं च भगाकारं विरञ्ची कमलोद्भवम् ।
तस्मात्भगमायोति सृष्टिस्थितिलयात्मका ॥ २॥
भगवान् भगरूपश्च नौम्यहं भगदेवताम् ।
चतुरसितिलक्षानां जीवयोनिसमुद्भवः ॥ ३॥
भगलिङ्गात्मकं रूपं प्रदर्श्ये सचराचरम् ।
निन्दत्ये नरकं यान्ति कल्पकोटी न संशयः ॥ ४॥
यदि भाग्यवशोद्रष्टं पुष्टीभुतं भगं शिवः ।
दर्शयात्फलमाप्नोति शृणु एवात्मनोप्रिये ॥ ५॥
गजाश्वरथदानञ्च गृहणेदत्त्यते फलम् ।
रूप्यश्रवणं तुलादिनाम लक्षकोटिगुणम्फलम् ॥ ६॥
भगलिङ्गार्चनं कृत्वा एकान्ते निश्चलव्रते ।
स्वर्गपातालभूर्लोके पुजनं फलमाप्नुयात् ॥ ७॥
भगन्दृष्ट्वा जपङ्कृत्वा स्वल्पमात्रं च कोटिधा ।
पूजयोत्वा वन्दित्वाजपान्ते च पुनःपुनः ॥ ८॥
ते धन्यं सर्वलोकेषु पुनर्जन्म न लभ्यते ।
तरन्ति तारयन्ति च निर्भयो यत्रकुत्रचित् ॥ ९॥
रूपयौवनलावण्यां पोडशब्दन्तु सुन्दरी ।
रजो दृष्ट्वा भगं दृष्ट्वा नमस्कृत्वा च चन्द्रवत् ॥ १०॥
संसिद्धी पूजयित्वा च ध्यात्वा नत्वा पुनःपुनः ।
तरं ते तारयन्ति च नौकावनं नवकार्णवात् ॥ ११॥
एककालं द्विकालं वा त्रीकालं मध्यरात्रि के ।
एकान्ते निश्चलस्थाने पूजयित्वा पठन्ति च ॥ १२॥
अनेककोटीविघ्नानान्नाशयेत् नात्र संशयः ।
अनन्तफलमवाप्नोति ममवाक्ये च पार्वती ॥ १३॥
गुरूदेवात्मना नेक्यं भावित्वा जपन्ति च ।
तत्सर्वं फलं यन्यथा न च सिध्यते ॥ १४॥
सप्तकोटी महामन्त्रे सावर्णा सगुणान्वीता ।
सर्वेप्रश्नमायान्ति क्रोधद्रोहादिकं त्यजेत् ॥ १५॥
रजस्वलामाहास्तोत्रं पठ्यते प्रत्यहं सदा ।
जपार्चनादिहोमेन प्रयोगेन च सिद्धिदम् ॥ १६॥
जपहोमार्चन कृत्वा विधियुक्तं वरानने ।
रजस्वला विनास्तोत्रं न च सिध्यन्ति भूतले ॥ १७॥
सर्वेशाक्तमहामन्त्र शक्ति उत्कीलनं तथा ।
एतत्परमं श्रेष्ठं शाक्तानां नास्ति सुन्दरि ॥ १८॥
महाबीजन्त्रयं देवी राध्यते च रजस्वला ।
प्रणवादि जपं मात्र त्रिबीजं सर्वसिद्धिदा ॥ १९॥
एषां रजस्वलाविद्या पितापुत्रं न कथ्यते ।
दाम्भिकाय कृतघ्नाय गुरुद्रोहरताय च ॥ २०॥
घातकाय च दुष्टाय रजस्वला न दीयते ।
दद्याय शान्ताय शिष्याय गुरुभक्ताय विशेषतः ॥ २१॥
दुर्जनञ्चापि दुष्टाश्च आयुर्भाग्यञ्च नश्यति ।
इति श्री गर्भकुलार्णवे ईश्वर पार्वतीसंवादे रजस्वला स्तोत्रं सम्पूर्णम् ॥
॥ श्री ललिताम्बार्पणमस्तु ।
Proofread by rajesh thyagarajan