रहस्यपञ्चदशिका
ब्राह्मे मुहूर्ते भगवत्प्रपत्ति-
स्ततः समाधिर्नियमोऽथ सान्ध्यः ।
यामौ जपार्चादि ततोऽन्यसत्रं
शेषस्तुकालः शिवशेषवृत्तिः ॥ १॥
आदिमुखा कादिकरा टादिपदा
पादिपार्श्वयुङ्मध्या ।
यादिहृदया भगवती संविद्रूपा
सरस्वती जयति ॥ २॥
फलन्ति चिन्तामणिकामधेनु-
कल्पद्रुमाः काङ्क्षितमेव पुंसाम् ।
अप्रार्थितानप्रचितान् पुमर्थान्
पुष्णातु मे मातुरुदार भावः ॥ ३॥
यया विना नैव करोति किञ्चन्
न वेत्ति नापीच्छति संविदीशः । (संविदेशः)
तस्मै परस्यै जगतां जनन्यै (तस्यै)
नमः शिवायै शिववल्लभायै ॥ ४॥
सदोदिते भगवति सर्वमङ्गले
शिवप्रदे शिवहृदयस्थिते शिवे ।
भजन्मनः कुमुदविकासचन्द्रिके
द्विजन्मनः कुरु मम खे गतिं परे ॥ ५॥
प्रसीद सर्वमङ्गले शिवे शिवस्य वल्लभे ।
उमे रमे सरस्वति त्वमेव देवता परा ॥ ६॥
अमे अम्बिके अस्वरूपे अनाख्ये उमे
रौद्रि वामे महालक्ष्मि माये ।
परे देवते पञ्चकृत्यैकलोले शिवे
भैरवि श्रीमति त्वां प्रपद्ये ॥ ७॥
माये विद्ये मातृके मालिनि त्वं
काये काये स्पन्दसे चित्कलात्मा ।
ध्यायेयं तां त्वां कथ स्वस्फुरत्तां
ध्यायेयं त्वां वाचमन्तर्नदन्तीम् ॥ ८॥
त्वग्रुधिरमांसमेदोमज्जास्थिमये सदामये काये ।
माये मज्जयसि त्वं माहात्म्यं ते जनानजानानान् ॥ ९॥
लोहालेख्यस्थापितान् वीक्ष्य देवान्
हा हा हन्तेत्याहुरेकेऽकृतार्थाः ।
देहाहन्ताशालिनां देहभाजां
मोहावेशं कं न माया प्रसूते ॥ १०॥
मायाविलासोदितबुद्धिशून्यकायाद्यहन्ताजनितादशेषात् ।
आयासकादात्मविमर्शरूपात् पायादपायात् परदेवता माम् ॥ ११॥
घोरात्मिकां घोरतमामघोरां परापराख्यामपरां परां च ।
विचित्ररूपां शिवयोर्विभूतिं विलोकयन् विस्मयमान आस्ते ॥ १२॥
परापरापरापरामरीचिमध्यवर्तिनो ।
न मेऽभिदाभिदाभिदाभिदासु कश्चिदाग्रहः ॥ १३॥
स्फुरति यत्तव रूपमनुत्तरं यदपरं च जगन्मयमम्बिके ।
उभयमेतदनुस्मरतां सतामभयदे वरदे परदेवते ॥ १४॥
परमेश्वरि पञ्चकृत्यलीले परसंविन्मयि पार्वति प्रसीद ।
पतितं पशुपाशमुद्धरेमं शिशुमाश्वासय शीतलैः कटाक्षेः ॥ १५॥
पूर्वसिद्धान् गुरून् देवान् देवीं नत्वा(ऽ)थ योगिनः ।
इमेऽभिनवगुप्तेन श्लोकाः पञ्चदशेरिताः ॥ १६॥
॥ इति श्रीअभिनवगुप्तपादाचार्यकृता रहस्यपञ्चदशिका समाप्ता ॥
Note: For the verse 8, reference books mention the word
as mAnini. However, it can be gleaned from related texts by
Abhinavagupta, like Tantraloka, Paratrimshikavivarna, Tantrasara
etc. that the word should be mAlinI - being derived from the
two schemes of akshara arrangement called mAtRRikA and mAlinI.
e.g. parA tu mAtRRikA devI mAlinI madhyagoditA . (tantrAlokaH
15.333 ba)
Encoded and proofread by Ruma Dewan