राज्ञीस्तोत्रम्
ओङ्काररूपेऽखिलवेदसारे वेदान्तविज्ञानचणैः प्रगीते ।
मूर्ध्ना महाराज्ञि महार्हपीठे वन्दे त्वदीयं चरणारविन्दम् ॥ १॥
भूरादिलोके कृतलक्षणेऽजे राज्ञि प्रपन्नार्तिहरे नमस्ते ।
आक्रन्दमाकर्णय मे शरण्ये भक्तार्तिनाशे ह्यपरः प्रभुः कः ॥ २॥
भुवोऽवकाशे रविचन्द्रदीप्तिर्देदीप्यते त्वामनु चित्प्रदीप्तिम् ।
तमःप्रपञ्चं प्रविलाप्य हार्दं पद्मं ममाबोधय राज्ञि मातः ॥ ३॥
स्वःशाखिदर्पं हरतीष्टदानादाशाधिकाद्यत्स्मृतमात्रमेव ।
मातर्महाराज्ञि तदाननं ते वन्दे शरत्सुन्दरचन्द्ररम्यम् ॥ ४॥
तद्वाङ्मनोदूरमचिन्तनीयं रूपं स्वकीयं भवदुःखहारि ।
पीयूषपीयूषमयूखतुल्यं राज्ञि प्रकाश्याम्ब कदा दयेथाः ॥ ५॥
सवितुः शक्तिभूता त्वं सूयसेऽदश्चराचरम् ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ६॥
वरेण्यं त्वत्पदाभ्यर्चामृतचर्वणमस्तु मे ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ७॥
भर्गो भर्गेऽपि संसारभर्जको यस्तवैव सः ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ८॥
देवस्य त्रिपुरारातेराहोपुरुषिके शिवे ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ९॥
धीमहिम्नापि केनापि यां स्तोतुं न प्रभूयते ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १०॥
धियो मे घोरसंसारलङ्घने सन्तु सञ्जिताः ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ११॥
योऽर्चति त्वां स देवेशि मघवादिभिरर्च्यते ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १२॥
नस्तितोष्ट्रवदम्बाहं कर्मपाशैः प्रपीडितः ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १३॥
प्रचोदयात्तवेच्छा मां तवैवाङ्घ्रिनिषेवणे ।
नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १४॥
मातुः स्नेहः सर्वपुत्रेषु तुल्यः श्लाघ्याश्लाघ्येष्वम्ब चेत्सत्यमेतत् ।
दुर्वृत्तस्याप्तात्मजस्यास्ति किं मे त्यागो युक्तोऽयुक्तदोषौघहर्त्रि ॥ १५॥
राज्ञीस्तोत्रमिदं पुण्यं यः पठेद्भक्तिसंयुतः ।
तस्य सिध्यति सर्वेष्टमचिराद्देव दुर्लभम् ॥ १६॥
इति श्रीराज्ञीस्तोत्रं समाप्तमनाथक्षेमाय भवतु ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com