श्रीराजराजेश्वरीषोडशी
नौमि ह्रीञ्जपमात्रतुष्टहृदयां श्रीचक्रराजालयां
भाग्यायत्तनिजाङ्घ्रिपङ्कजनतिस्तोत्रादिसंसेवनाम् ।
स्कन्देभास्यविभासिपार्श्वयुगलां लावण्यपाथोनिधिं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १॥
नौमि ह्रीमत आदधाति सुगिरा वागीश्वरादीन्सुराँ-
ल्लक्ष्मीन्द्रप्रमुखांश्च सत्वरमहो यत्पादनम्रो जनः ।
कामादींश्च वशीकरोति तरसाऽऽयासं विना तां मुदा
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ २॥
नौमि श्रीसुतजीवनप्रदकटाक्षांशां शशाङ्कं रविं
कुर्वाणां निजकर्णभूषणपदादानेन तेजस्विनौ ।
चाम्पेयं निजनासिकासदृशतादानात्कृतार्थं तथा
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ३॥
नौमि श्रीविधिभामिनीकरलसत्सच्चामराभ्यां मुदा
सव्ये दक्षिणके च वीजनवतीमैन्द्र्यात्तसत्पादुकाम् ।
वेदैरात्तवपुर्भिरादरभरात्संस्तूयमानां सदा
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ४॥
नौमि श्रीमतिधैर्यवीर्यजननीं पादाम्बुजे जातुचि-
न्नम्राणामपि शान्तिदान्तिसुगुणान्विश्राणयन्तीं जवात् ।
श्रीकामेशमनोऽम्बुजस्य दिवसेशानार्भकाणां ततिं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ५॥
नौमि श्रीपतिपद्मयोनिगिरिजानाथैः समाराधितां
रम्भास्तम्भसमानसक्थियुगलां कुम्भाभिरामस्तनीम् ।
भामिन्यादिविषोपमेयविषयेष्वत्यन्तवैराग्यदां
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ६॥
नौमि व्याहृतिनिर्जितामरधुनीगर्वा भवन्त्यञ्जसा
मूका अप्यवशाद्यदङ्घ्रियुगलीसदर्शनाज्जातुचित् ।
हार्दध्वान्तनिवारणं विदधतीं कान्त्या नखानां हि तां
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ७॥
नौमि ब्रह्मविबोधिनीं नमुचिजिन्मुख्यामराणां तते-
र्भण्डाद्याशरखण्डनैकनिपुणां कल्याणशैलालयाम् ।
फुल्लेन्दीवरगर्वहारिनयनां मल्लीसुमालङ्कृतां
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ८॥
नौमि प्रीतिमतां यदङ्घ्रियुगलार्चायां न बन्धो भवेत्
स्याच्चेद्विन्ध्यनगः प्लवेच्चिरमहो नाथे नदीनामिति ।
मूकः प्राह महाकविर्हि करुणापात्रं भवान्याः स्तुतिं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ९॥
नौमि प्राप्तिकृते यदीयपदयोर्विप्राः समस्तेषणा-
स्त्यक्त्वा सद्गुरुमप्युपेत्य निगमान्तार्थं तदास्याम्बुजात् ।
श्रुत्वा तं प्रविचिन्त्य युक्तिभिरतो ध्यायन्ति तां सादरं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १०॥
नौमि प्राणनिरोधसज्जनसमासङ्गात्मविद्यामुखै-
राचार्याननपङ्कजप्रगलितैश्चेतो विजित्याशु याम् ।
आधारादिसरोरुहेषु सुखतो ध्यायन्ति तां सर्वदा
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ११॥
नौमि न्यायमुखेषु शास्त्रनिवहेष्वत्यन्तपाण्डित्यदां
वेदान्तेष्वपि निश्चलामलधियं संसारबन्धापहाम् ।
दास्यन्तीं दयया प्रणम्रविततेः कामारिवामाङ्कगां
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १२॥
नौमि त्वां शुचिसूर्यचन्द्रनयनां ब्रह्माम्बुजाक्षागजे-
ड्रूपाणि प्रतिगृह्य सर्वजगतां रक्षां मुदा सर्वदा ।
कुर्वन्तीं गिरिसार्वभौमतनयां क्षिप्रं प्रणम्रेष्टदां
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १३॥
नौमि त्वां शरदिन्दुसोदरमुखीं देहप्रभानिर्जित-
प्रोद्यद्वासरनाथसन्ततिमघाम्भोराशिकुम्भोद्भवम् ।
पञ्चप्रेतमये सदा स्थितिमतीं दिव्ये मृगेन्द्रासने
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १४॥
नौमि त्वामनपेक्षकारणकृपारूपेति कीर्तिं गतां
नौकां संसृतिनीरधेस्तु सुदृढां प्रज्ञानमात्रात्मिकाम् ।
कालाम्भोदसमानकेशनिचयां कालाहितप्रेयसीं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १५॥
नौमि त्वां गणपः शिवो हरिरुमेत्याद्यैर्वचोभिर्जना-
स्तत्तन्मूर्तिरता वदन्ति परमप्रेम्णा जगत्यां तु याम् ।
तां सर्वाशयसंस्थितां सकलदां कारुण्यवारान्निधिं
भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १६॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीराजराजेश्वरीषोडशी सम्पूर्णा ।
Proofread by PSA Easwaran