श्रीराधिकाध्यानामृतस्तोत्रम्
तडिच्चम्पकस्वर्णकाश्मीरभासः
स्वकान्त्या भृशं दण्डयित्र्या विलासः ।
स्वरूपस्य तस्यास्तु वर्ण्यः
सुबोधद्रवो नामवर्णोऽपि कर्ण्यः ॥ १॥
प्रफुल्लकुसुमप्रभाद्योतितानां
लसच्चन्द्रिकाप्रोतमेघोपमानाम् ।
कचानां सचातुर्यबन्धेयमेणी
दृशः सच्चमर्याग्रिमा भाति वेणी ॥ २॥
महानर्घ्यचूडामणीकामलेखा
प्लुता राजते चारुसीमन्तरेखा ।
उडुद्योतिमुक्तैकपङ्क्तिं वहन्ती
किमास्येन्दुसौधैकधारोच्चलन्ती ॥ ३॥
नवेन्दूपमे पत्रपाश्याप्रभाले
सुलीलालकालीवृते चारुभाले ।
मदेनान्तरा चित्रितं चित्रकं तत्
विभात्यच्युतातृप्तनेत्रैकसम्पत् ॥ ४॥
अतिश्यामला विज्यकन्दर्पचाप
प्रभाजिष्णुतां भ्रूद्वयी कुञ्चिताप ।
मुखाम्भोजमाध्वीकपानादभीष्टा-
दचेष्टालिपङ्क्तिः किमेषा निविष्टा ॥ ५॥
सफर्याविव प्रेष्ठलावण्यवन्ये
प्सिते राजतस्ते दृशौ हन्त धन्ये ।
लसत्कज्जलाक्ते तयोः श्यामपक्ष्म
क्वचिद्विन्दते कान्तताम्बूललक्ष्म ॥ ६॥
तडित्कन्दली मूर्ध्नि नक्षत्रयुक्ता
स्थिराधःसुधाबुद्बुदद्वन्द्वसक्ता ।
यदि स्यात्सरोजान्तरे तां च भासा
मृगाक्ष्यास्तिरस्कुर्वती भाति नासा ॥ ७॥
कपोलाक्षिबिम्बाधरश्रीविषक्तं
बह्वेन्मौक्तिकं पीतनीलातिरक्तम् ।
स्मितोद्यत्पुटोदीर्णमाधुर्यवृष्टि-
र्लसत्यच्युतस्वान्ततर्षैकसृष्टिः ॥ ८॥
लसत्कुण्डले कुण्डलीभूय मन्ये
स्थिते कामपाशायुधे हन्त धन्ये ।
श्रुती रत्नचक्रीशलाकाञ्चिताग्रे
दृशौ कर्षतः श्रीहरये समग्रे ॥ ९॥
अतिस्वच्छमन्तःस्थताम्बूलराग-
च्छटोद्गारि शोभाम्बुधौ किं ललाग ।
कपोलद्वयं लोलताटङ्करत्न
द्युमच्चुम्बितं प्रेयसो यत्र यत्नः ॥ १०॥
स्फुटद्बन्धुजीवप्रभाहारिदन्त-
च्छदद्वन्द्वमाभाति तस्या यदन्तः ।
स्मितज्योत्स्नया क्षालितं या सतृष्णं
चकोरीकरोत्यत्यन्वहं हन्त कृष्णम् ॥ ११॥
न सा विन्दते पाकिमारुण्यभाजि-
च्छविर्यत्तुलां दाडिमीबीजराजिः ।
कथं वर्ण्यतां या त्वियं दन्तपङ्क्ति-
र्मुकुन्दाधरे पौरुषं या व्यनक्ति ॥ १२॥
मुखाम्भोजमाधुर्यधारा वहन्ती
यदन्तः कियन् निम्नतां प्रापयन्ती ।
किमेषा कस्तूरिकाबिन्दुभृत्तं
हरिं किं दधानं विभात्यासावृत्तम् ॥ १३॥
स कण्ठस्तडित्कम्बुसौभाग्यहारी
त्रिरेखः पिकस्तव्यसौस्वर्यधारी ।
स्रजं मालिकां मालिकां मौक्तिकानां
दधत्येव यः प्रेयसा गुम्फितानाम् ॥ १४॥
उरोजद्वयं तुङ्गतापीनताभ्यां
समं सख्ययुक् कृष्णपाण्यम्बुजाभ्याम् ।
नखेन्दुर्यदोदेतुमिच्छां विधत्ते
तदा कञ्चुकी कालिका नापि धत्ते ॥ १५॥
म्रदिम्णा शिरीषस्य सौभाग्यसारं
क्षिपन्त्या वहन्त्या भुजाभोगभारम् ।
तुलाशून्यसौन्दर्यसीमां दधत्या
निजप्रेयसेऽजस्रसौख्यं ददत्याः ॥ १६॥
श्रितायाः स्वकान्तस्वतां कम्रगात्र्याः
श्रियाः श्रीविलासान् भृशं खर्वयन्त्याः ।
गतांसद्वयी सौभगैकान्तकान्तं
यदा पाणिनोत्क्रामयेति सालकान्तम् ॥ १७॥
तडिद्धामभृत्कङ्कणानद्धसीमा
घनद्योतचूडावली सास्त्रसीमा ।
चकास्ति प्रकोष्ठद्वये या स्वनन्ती
स्मराजौ सुखाब्धौ सखीः प्लावयन्ती ॥ १८॥
तद्भाति रक्तोत्पलद्वन्द्वशोचि-
स्तिरस्कारिपाणिद्वयं यत्र रोचिः ।
शुभाङ्कावलेः सौभगं यद्व्यनक्ति
प्रियान्तर्हृदि स्थापने यस्य शक्तिः ॥ १९॥
(चतुर्भिः कुलकम्)
नखज्योतिषा भान्ति ताः पाणिशाखाः
करोत्यूर्मिकालङ्कृता या विशाखा ।
समासज्य कृष्णाङ्गुलीभिर्विलास-
स्तदासां यदा राजते हन्त रासः ॥ २०॥
जनित्वैव नाभिसरस्युद्गता सा
मृणालीव रोमावलिर्भाति भासा ।
स्तनच्छद्मनैवाम्बुजाते यदग्रे
मुखेन्दुप्रभामुद्रिते ते समग्रे ॥ २१॥
कृशं किं नु शोकेन मुष्तिप्रमेयं
न लेभे मणिभूषणं यत्पिधेयम् ।
निबद्धं वलीभिश्च मध्यं तथापि
स्फुटं तेन सुस्तव्यसौन्दार्यमपि ॥ २२॥
क्वनत्किङ्किणीमण्डितं श्रोणीरोधः
परिस्फारि यद्वर्णने क्वास्ति बोधः ।
कियान्वा कवेर्हन्त यत्रैव नित्यं
मुकुन्दस्य दृक्खञ्जनोऽवाप नृत्यम् ॥ २३॥
प्रियानङ्गकेलिभरैकान्तवाटी
पटीव स्फुरत्यञ्चिता पट्टशाटी ।
विचित्रान्तरीयोपरि श्रीभरेण
क्षिपन्ती नवेन्दीवराभाम्बरेण ॥ २४॥
कदल्याविवानङ्गमाङ्गल्यसिद्धौ
समारोपिते श्रीमदूरू समृद्धौ ।
विभातः परं वृत्ततापीनताभ्यां
विलासैर्हरेः चेतनाहारि याभ्याम् ॥ २५॥
विराजत्यहो जानुयुग्मं पटान्तः
समाकर्षति द्रागथाप्यच्युतान्तः ।
यदालक्ष्यते तत्र लावण्यसम्पत्
सुव्रित्तं लसत्कानकं सम्पुटं तत् ॥ २६॥
तनुत्वं क्रमान्मूलतश्चारुजङ्घे
प्रयातः परिप्राप्तसौभाग्यसङ्घे ।
पदाम्भोजयोर्नालता धारयन्त्यौ
स्वभामन्तरीयान्तरे गोपयन्त्यौ ॥ २७॥
जयत्यङ्घ्रिपङ्केरुहद्वन्द्वमिष्टं
दलाग्रे नखेन्दुव्रजेनापि हृष्टम् ।
क्वनन्नूपुरं हंसकारावभक्तं
हरिं रञ्जयत्येव लाक्षारसाक्तम् ॥ २८॥
दराम्भोजताटङ्कवल्लीरथद्यै-
र्महालक्षनैर्भव्यवृन्दाभिवाद्यैः ।
युतं यत्तलं मार्दवारुण्यशालि
स्मृतं यद्भवेदच्युताभीष्टपालि ॥ २९॥
प्रिये श्यामलो लेढुभृङ्गो नलिन्या
मरन्दं परं दन्दशीति क्षुदन्या ।
यदेतं बतेत्यच्युतोक्त्याञ्चलान्त-
र्मुखाब्जे सितेन्दुं दधे सालकान्तः ॥ ३०॥
तमालम्ब्य लब्धौजसो माधवस्य
स्फुटं पाणिचापल्यमल्पं निरस्य ।
तया स्वाधरः साधु कर्पूरलिप्तः
कृतो नेति नेत्यक्षरोद्गारदीप्तः ॥ ३१॥
स जागर्ति तस्याः परिवारचेत-
स्तटेऽनुक्षणं रम्यलीलासमेतः ।
अथाप्यष्टयामिक्यमुष्याः सपर्या
यथाकालमाचर्यते तेन वर्या ॥ ३२॥
इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीराधिकाध्यानामृतस्तोत्रं सम्पूर्णम् ।