राधावर्णमालास्तुतिः
श्रीकृष्ण उवाच -
वशगापि महादेवी यदि नातिप्रसीदति ।
ततस्तां स्तोतुमारब्धवानहं प्रेमगद्गदः ॥ १॥
शब्दब्रह्ममयीं वंशीं मूर्छयन् स्वरसम्पदा ।
ततो व्यक्तोऽव्यक्तरूपो नादः सप्तविधोऽभवत् ॥ २॥
निषादर्षभगान्धारषड्जमध्यमधैवताः (दैवताः)
पञ्चमश्चेति तैर्नादैः रागाः समभवंश्च षट् ॥ ३॥
एकैकस्यानुगामिन्यो रागिन्यः षट् षडुज्ज्वलाः ।
तथा तालगणाश्चैव त्रयो ग्रामास्तथैव च ॥ ४॥
ताराद्याश्च त्रयश्चैव मूर्च्छनास्त्वेकविंशतिः । (तालाद्याश्च)
ततो भगवती देवी गायत्री त्रिपदाऽभवत् ॥ ५॥
ततोऽपि वेदाश्चत्वारः श्रुतयश्च ततः पराः । (देवाश्च)
ततोऽपि देहजैर्देवैः सस्त्रीकैः सूक्ष्ममूर्तिभिः ॥ ६॥
स्वरै रागै रागिनीभिस्तालैर्ग्रामैस्तथैव च ।
ताराद्यैर्नादभेदैश्च मूर्च्छनाभिः समन्ततः ॥ ७॥
गायत्र्या च(श्च) महादेव्या वेदैश्च श्रुतिभिः सह । (देवैश्च)
प्रसादनार्थं तस्या वै स्वयमेवाहमव्ययः ॥ ८॥
सर्वदेवस्तुतः सर्वदेवताहृदयेश्वरः ।
अस्तु वैश्लक्षया वाचाभविष्यद् गुणनामभिः ॥ ९॥ (आन्तरं सूक्ष्मया वाचा)
अथ वर्णमाला ।
ॐ अनादिरूपे चिच्छक्तिज्ञानानन्दप्रदायिनी(नि) । (अनादिरूप वित्भक्ति)
आदिदेवार्चिते नित्ये राधिके शरणं भव ॥ १०॥
इन्दुकोटिसमानास्ये इन्दीवरदलेक्षणे ।
ईश्वरीशानजननि राधिके त्वं भजस्व माम् ॥ ११॥ (राधिका)
उज्ज्वले उज्ज्वलरसप्रिये परमदुर्लभे ।
ऊर्ध्वाऽधोव्यापिनीचारुतनुश्रोजितमन्मथे ॥ १२॥ (तरुःश्री)
ऋतुषट्कसुखामोदयुक्ताङ्गेऽनङ्गवर्धिनि । (ऋतुषट्के)
ऋक्षमालाधरे धीरे राधिके त्वं भजस्व माम् ॥ १३॥ (रूक्षमाला)
एकानेकस्वरूपासि नित्यानन्दस्वरूपिणी ।
ओङ्कारानन्दहृदये राधे किं मामुपेक्षसे ॥ १४॥ (एकारानन्द)
ओमित्येकाक्षराकारे क्षराक्षरपरापरे ।
ओङ्कारध्वनिसम्भूताऽऽनन्दरूपे निरामये ॥ १५॥
बिन्दुरूपे निरालम्बे परब्रह्मस्वरूपिणि ।
अभिनिष्ठान(अप्यधिष्ठान)रूपायै शब्दातीते नमोऽस्तु ते ॥ १६॥
कमले कालिके कान्ते कुटिलकुन्तले वरे । (कले कुटिलकुण्डले)
कामप्रदे कामिनि त्वं कामुकं किङ्करं कुरु ॥ १७॥ (कप्रदे कामिनी, कामुकाङ्कङ्करं कुरु)
खरांशुकोटिसङ्काशे खञ्जरीटविलोचने ।
खले (तु) रमखलीकारे खेलस्व खगवाहने ॥ १८॥ (खलोऽनन्तमखनीकारे, भगवाहने)
गलन्मदगजग्रामगमने गणनायिके । (गदन्मद)
गगनाब्जगते गीते गच्छ मां गरुण्डध्वजम् ॥ १९॥
धर्म बिन्दुशोभितास्ये घूर्णमानाक्षिघूर्घुरे ।
घनसारेण घटिते घ्राणाग्रगजमौक्तिके ॥ २०॥
चारुचन्दन चर्चाङ्गे चराचरविचारिणि । (चार्वङ्गे)
चकोराक्षि चञ्चलाभे मां किं चकर्थचञ्चलम् ॥ २१॥
छन्दांसि छद्ममानुष्या छटया छादितानि ते ।
छदप्रिये छोटिकया छविशान्तिनिभा भव ॥ २२॥ (छविशालिनिभा)
जगज्जननि जन्तूनां जीवातो जन्मवर्जिते । (जीवाते)
जलजास्ये जलेशानि मां जानीहि जनप्रिये ॥ २३॥ (जन्मना च जले)
झटिति ज्ञानविदिते झञ्झाझर्झररूपिणि ।
झिण्टीकुसुमसंशोभा पराभाविनि मामव ॥ २४॥
टं टं टमिति टङ्कारि घण्टोल्लासितमानसे । (झङ्कारि)
टलस्थलधारस्टाले त्राहि मां शरणागतम् ॥ २५॥ (टलस्थलाधारस्थाने)
ठद्वयानन्दसङ्काशे चकोरप्रियकारिणि । (ठकुरप्रिय)
ठकाराक्षररूपे त्वं त्राहि मां काममोहितम् ॥ २६॥
(चकारा, पाहि)
डिं डिं डिं डिमडाङ्कारि वेणुवादविनोदिनि । (डिं डिमं तदाकारि, वेणुवाद्यवि)
विनोदय डकाराख्ये स्मरेण चिरदुःखितम् ॥ २७॥
ढक्काराद्यानन्दिचित्ते ढुण्ढिनाथार्चिताङ्घ्रिके । (ढकारा व)
ढकारवर्णरूपे त्वमात्मानमुपढौकय ॥ २८॥ (ढक्कारवं तु रूपत्व)
तरुणी तरुणानन्द तापिनी तनुरूपतः । (तरणी तरणानन्दं, तरुरूपतः)
तपस्विनां तपोगम्ये तत्त्वं तारिणि तारय ॥ २९॥
स्थिरानन्दे स्थिरप्रज्ञे स्थिरप्रेमरसप्रदे ।
स्थिरसर्वेश्वरूपे त्वमस्थिरं मां स्थिरं कुरु ॥ ३०॥ (सर्वस्वरूपे)
देवाधिदेवतामौलौ दीव्यन्ती दिविदीपिका ।
दयामयि दकाराख्ये दूनं नूनं दयस्व माम् ॥ ३१॥
धन्ये धर्मप्रिये धीरे धर्माधर्मविवर्जिते ।
धराधरधरोद्धारधुरीणे धर माऽधुना ॥ ३२॥
नित्यानित्ये निरालम्बे नित्यानन्दलतोन्नते । (नते जने)
नमस्ते नर्तने नीलनयने नयशालिनि ॥ ३३॥
परब्रह्मस्वरूपाऽसि परमानन्दवन्दिते ।
पाथोजपुलिनप्रीते पुनीहि पथिकं प्रिये ॥ ३४॥
फुल्लाम्भोजातवदने फलरूपिणि फेत्कृते ।
फलत्कपालफलके फलिनं त्वं कुरुष्व माम् ॥ ३५॥
ब्रह्मज्योतिर्ब्रते वाले वरुणालयवासिनि । (चरणा)
वरे चरय मां बीरे वचनामृतवर्षिणि ॥ ३६॥ (वरं वरय)
भावानन्दे भवानन्दे भावाभावविवर्जिते ।
भवभाविनि भावानां भवनं भूतिभाविनि ॥ ३७॥ (भृति)
मन्दमन्दस्मिते मुग्धे मधुराक्षरमोदिते ।
माद्यन्ती मकरन्देन मालामयि मतामयि ॥ ३८॥
यज्ञालये यज्ञरूपा योगिनां योगमूर्तिका ।
यतिनां यत्तसो(पो) लभ्या यायामि शरणं हि ताम् ॥ ३९॥
रम्ये रक्तक्षणे राधे राधिके रमणीरमे ।
रामे मनोरमे रत्नमाले रममया समम् ॥ ४०॥
रेफस्तु सर्वमन्त्राणामाधार कथ्यते बुधैः ।
तस्याधानस्वरूपेयं तेन राधेति साध्यते ॥ ४१॥ (तस्मान्नैव स्व, बाध्येति)
रेफस्तु वह्निराख्यातो यज्ञे वह्निः प्रतिष्ठिताः ।
देवाः प्रतिष्ठिता यज्ञे ततो वर्षं तदौदनम् ॥ ४२॥
ततस्तु सर्वभूतानि नानावर्णाकृतीनि च । (तदस्तु)
सर्वं तदाधीयते यत्तेन राधेति कथ्यते ॥ ४३॥ (ये तेन)
नानाविधै रसैर्भावैर्जगत्स्थावरजङ्गमम् ।
स्रष्टुं प्राप्ता मया त्वं हि राधिका कार्यसाधिका ॥ ४४॥ (अष्टौ प्राप्ता निधित्वं)
मम देहस्थितैः सर्वैर्देवैर्ब्रह्मपुरोगमैः ।
आराधिता यतस्तस्माद् राधेति परिकीर्तिते ॥ ४५॥ (परिकीर्त्यते)
लक्ष्मी लक्षलक्षिते त्वं लक्ष्यलक्षणलक्षणे ।
ललामललिते लास्य लीलालापिनि मामव ॥ ४६॥
वासुदेवार्चिते विद्ये वेदवादबहिर्गते ।
वरदे वसनावीते वलन्ती बलिनं कुरु ॥ ४७॥
शब्दातीते शब्दरूपे शान्ते सर्वादिरूपिणि ।
शाश्वती त्वं शक्तिकले श्रय मां शक्तिशालिनम् ॥ ४८॥
समस्तस्य प्रिये साध्वि सीमन्तोपरि संस्थिते ।
सकले सकलेशानि नित्यं मे स्थाः सहायिनि ॥ ४९॥ (सत्यं)
षट्पदी षटपदी चञ्चद् वनमालाविभूषिते ।
षडॄतूत्सवसम्पन्ने षण्मुखेशे दयस्व माम् ॥ ५०॥
षट्चक्रैकनिवासि[नि] षड्दर्शनविदर्शिते ।
षट्कर्मणां कर्मषट्कविधात्री षडरिपुञ्जया ॥ ५१॥
हंसरूपे हेमगर्भे हंसगामिनि हारिणि ।
हंसकारकृतप्राणे कथं हरसि मां क्षणात् ॥ ५२॥ (ओङ्कार)
क्षमारूपे क्षमाशीले क्षीणमध्ये क्षणान्विते ।
अक्षमालाधरे देवि सिद्धविद्ये नमोऽस्तु ते ॥ ५३॥
इति वर्णमाला ।
एवं स्तुता मया देवी कृष्णेन परमात्मना ।
प्रससाद रसमयी योगिनामपि दुर्लभा ॥ ५४॥
राधां निरीक्ष्य सप्रेमदृष्ट्या सपदि मामथ । (सत्प्रेम)
समाश्वास्यैकमनसा वद्धयाऽभीतिमुद्रया ॥ ५५॥ (स्यैव मनसा)
वामेन पाणिपद्मेन पद्मयुक्तेन शोभना ।
आत्मानं दातुकामापि किञ्चिन्नोवाच लज्जया ॥ ५६॥
ततोऽहं च जगत्स्वामी तस्या रूपेण मोहितः ।
निक्षिप्य मुरलीं भूमौ तामालिङ्गितुमुत्तमाम् ॥ ५७॥
एतस्मिन्नेव समये तद्देहप्रतिबिम्बतः ।
चतुर्भुजा कापि शक्तिस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ५८॥
इमामेकाकिनीं प्राप्य बलात्त्वं रन्तुमिच्छसि । (बाला त्वं वर्णमिच्छसि)
सापि पाशाङ्कुशधरा वराभयकराऽपरा ॥ ५९॥ (या साङ्कुशधरा)
रक्तवर्णा त्रिनेत्रा च रक्ताम्बरसमुज्ज्वला ।
रक्ताभरणमालाढ्या समुत्तुङ्गस्तनद्वया ॥ ६०॥
रत्ननूपुरसम्पद्भ्यां पद्भ्यां सम्पाद्य वेदिकाम् । (लसन्नूपुर)
नानारत्नमयीं दिव्यां ज्वलज्ज्वलनसन्निभाम् ॥ ६१॥
जपन्तीं मोहनं मन्त्रं क्रीङ्कारं भुक्तिमुक्तिदम् । (हुङ्कारं / झङ्कारं)
आकर्षयन्ती नितरामङ्कुशेन मनो मम ॥ ६२॥
बन्धयन्ती प्रेमदाम्ना हसन्ती वामपाणिना । (बद्धयन्ती, राम)
मा भयं कुरु सर्वेश प्राप्स्यसीमां वराङ्गनाम् ॥ ६३॥
वन्दितां सकलैर्देवैः सर्वशक्तिशिखामणिम् ।
वरं दास्यामि ते कृष्ण प्रसन्नवदनो भव ॥ ६४॥
प्रकृतिस्त्वं पुमांश्च त्वं त्वमहं त्वमियं विभो । (पुमांस्त्वं वै त्वं, त्वमिमं)
आत्मारामोऽस्मि भगवान् विमोहोऽयं कुतस्त्वयि ॥ ६५॥
इत्येवं च प्रजल्पन्ती कल्पयन्ती सुकल्पनाम् ।
अ[आ]विरास महादेवी सर्वशक्तिशिरोमणिः ॥ ६६॥
अहं (श्रीकृष्ण ) उवाच
का त्वं कञ्जपलाशाक्षि कुतो जाताऽसि सुन्दरि ।
किमर्थमिह वाऽऽयाता कथ्यतां मा विलम्ब्यताम् ॥ ६७॥
भुवनेश्वरी उवाच
अहमस्या महादेव्या द्वितीया मूर्तिरुत्तमा ।
महामायाऽस्मि देवेश जगन्मोहनरूपिणी ॥ ६८॥
तव वक्त्रोदितां श्रुत्वा स्तुतिं श्रुतिरसायनीम् । (वक्रोदितां)
इहाऽऽयातास्मि वरद वरं दातुं समुद्यता ।
किमिच्छसि जगत्स्वामिंस्तुभ्यं दास्यामि तद्विभो ॥ ६९॥ (जगत्स्वामिन् स्तुत्यं दा, यद्विभो)
अहं (श्रीकृष्ण ) उवाच
प्रसन्ना यदि मे देवी वरमेकं प्रयच्छतु ।
असौ भवतु सुप्रीता गौराङ्गी विश्वमोहिनी ॥ ७०॥
तव प्रसादाद् यद्येषा वश्या मम भवत्युत ।
ममापि पूज्या भवती भविता भुवनेश्वरी ॥ ७१॥
भुवनेश्वरी उवाच
कृष्ण कृष्ण महायोगिन् प्रधानपुरुषेश्वर ।
भाविता तव वश्येयं राधा त्रैलोक्यसुन्दरी ॥ ७२॥
यदा त्वया वर्णमालास्तुतिर्वशकरी कृता । (रन्तुमानास्तुति)
तदैवेयं महादेवी स्वयं तव वशं गता ॥ ७३॥ (यदैवेयं)
सन्निरीक्ष्य भवद्रूपं त्रैलोक्यातिमनोहरम् ।
आकर्ण्य वंशीनिनदं का स्त्री न स्याद्विमोहिता ॥ ७४॥
त्वया प्रोक्तमिदं स्तोत्रं राधामोहनमोहनम् ।
यः पठेत्तस्य तुष्टाऽसौ प्रदास्यति मनोगतम् ॥ ७५॥
वयं तद्वशगा नित्यं विश्वं च सचराचरम् ।
तस्य दर्शनमात्रेण वादिनो निष्प्रभाः सदा ॥ ७६॥
ध्यात्वा देवीं जगद्योनिमादिभूतां सनातनीम् । (त्वां देवीं)
राधां त्रैलोक्यविजयां जयां सर्वसुखप्रदाम् ॥ ७७॥ (पथां)
जपन्नष्टाक्षरं मन्त्रं पठन् स्तोत्रं समाहितः । (पठेत्)
प्रणमेत् परया भक्त्या करस्थास्तस्य सिद्धयः ॥ ७८॥ (प्रणमेतत् परया)
धर्मार्थकाममोक्षाद्या अणिमालघिमादयः ।
अथ तस्या महामन्त्रं कथयामि शृणुष्व तम् ॥ ७९॥ (तस्यामहं मन्त्रं)
क्लीबं च वह्निसंयुक्तमनन्तं तदनन्तरम् । (ङकारं वह्नि)
नादबिन्दुकलायुक्तं राधिकायै ततः परम् ॥ ८०॥ (राधिकार्ण ततः)
हृदयान्तो महादेव्या मनुरष्टाक्षरः परः । (हृदयान्ता, मनुरष्टाकरः)
अस्य स्मरणमात्रेण किन्न सिध्यति साधनम् ॥ ८१॥
इदं स्तोत्रमसौ मन्त्रो यस्य वाचि प्रवर्तते ।
त्रैलोक्यसुन्दरी राधा चित्ते यस्य सदा स्थिता ॥ ८२॥ (स्थिरः)
तस्य वाक्सिद्धिरतुला धनधान्यादिसम्पदः ।
भविष्यन्ति न सन्देहो भुवनेशी वचो यथा ॥ ८३॥ (वचनो यथा)
॥ श्रीकृष्णयामले महातन्त्रे राधावशीकारे भुवनेश्युत्पत्ति-
र्भगवन्मुखविनिर्गता वर्णमालास्तुतिश्चतुर्दशोऽयायः ॥ १४॥
इति राधावर्णमालास्तुतिः समाप्ता ।
Proofread by Tanvir Chowdhury