राधाकल्याणम्
॥ श्रीः॥
यस्याःप्रसादलेशेन वर्धन्ते सर्वसम्पदः ।
नमस्तस्यै पराम्बायै देव्यै मङ्गलमूर्तये ॥
कन्यार्थी च वटुः कन्याप्यनुरूपवरार्थिनी ।
सीताविवाहसर्गं तु पठेत्प्रातः प्रयत्नतः ॥
रमया तु रकारस्स्यात् आकारस्त्वादिगोपिका ।
धकारो धरया हि स्यादकारो विरजानदी ॥
॥ श्रीः॥
शुभमस्तु ।
श्रीराधाकल्याणम् ।
ब्रह्मवैवर्तपुराणात् सङ्ग्रहीतम्
एकदा कृष्णसहितो नन्दो वृन्दावनं ययौ ।
तत्रोपवनभाण्डीरे चारयामास गोधनम् ॥ १॥
सरस्सु स्वादु तोयं च पाययामास तत्पपौ ।
उवास वृक्षमूले च बलं कृत्वा स्ववक्षासि ॥ २॥
एतस्मिन्नन्तरे कृष्णः मायामानुषविग्रहः ।
चकार माययाऽकस्मात् मेघाच्छन्नं नभो मुने ॥ ३॥
मेघावृतं नभो दृष्ट्वा श्यामलं काननान्तरम् ।
झञ्झावातं मेघशब्दं वज्रशब्दं च दारुणम् ॥ ४॥
वृष्टिधारा अतिस्थूला कम्पमानान् च पादपान् ।
दृष्ट्वैव पतितस्कन्धान् नन्दो भयमवाप ह ॥ ५॥
कथं यास्यामि गोवत्सान् विहाय स्वाश्रमं बत ।
गृहं यदि न यास्यामि भविता बालकस्य किम् ॥ ६॥
एवं नन्दे प्रवदति रुरोद श्रीहरिस्तदा ।
पयोभिया हरिश्चैव पितुः कण्ठं दधार सः ॥ ७॥
एतस्मिन्नन्तरे राधा जगाम श्रीकृष्णसन्निधिम् ।
गमनं कुर्वती राजहंसखञ्जनगञ्जनम् ॥ ८॥
शरत्पार्वणचन्द्राभा मुष्टवक्त्रमनोहरा ।
शरन्मध्याह्नपद्मानां शोभामोचनलोचना ॥ ९॥
परितस्तारकापक्ष्मविचित्रकज्जलोज्ज्वला ।
खगेन्द्रचञ्चुचारुश्रीसङ्गनाशकनासिका ॥ १०॥
तन्मध्यस्थलशोभार्हस्थूलमुक्ताफलोज्ज्वला ।
कबरीवेषसंयुक्ता मालतीमाल्यवेष्टिता ॥ ११॥
ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टककुण्डला ।
पक्वबिम्बफलानां च श्रीमुष्टाधरयुग्मका ॥ १२॥
मुक्तापङ्क्तिप्रभातैकदन्तपङ्क्तिसमुज्ज्वला ।
ईषत्प्रफुल्लकुन्दानां सुप्रभानाशकस्मिता ॥ १३॥
कस्तूरीबिन्दुसंयुक्तसिन्दूरबिन्दुभूषिता ।
कपालं मल्लिकायुक्तं बिभ्रती श्रीयुतं सती ॥ १४॥
सुचारुवर्तुलाकारकपोलपुलकान्विता ।
मणिरत्नेन्द्रसाराणां हारोरःस्थलभूषिता ॥ १५॥
सुचारुश्रीफलयुगकठिनस्तनसङ्गता ।
पत्रावलीश्रिया युक्ता दीप्ता सद्रत्नतेजसा ॥ १६॥
सुचारुवर्तुलाकारमुदरं सुमनोहरम् ।
विचित्रत्रिवलीयुक्तं निम्ननाभिं च बिभ्रती ॥ १७॥
सद्रत्नसाररचितमेखलाजालभूषिता ।
कामास्त्रसारभ्रूभङ्गयोगीन्द्रचित्तमोहिनी ॥ १८॥
कठिनश्रोणियुगलं धरणीधरनिन्दितम् ।
स्थलपद्मप्रभामुष्टचरणं दधती मुदा ॥ १९॥
रत्नभूषणसंयुक्तं यावकद्रवसंयुतम् ।
मणीन्द्रशोभासंमुष्टसालक्तकपुनर्भवम् ॥ २०॥
सद्रत्नसाररचितक्वणन्मञ्जरिरञ्जिता ।
रत्नकङ्कणकेयूरचारुशङ्खविभूषिता ॥ २१॥
रत्नाङ्गुलीयनिकरवह्निशुद्धांशुकोज्ज्वला ।
चारुचम्पकपुष्पाणां प्रभामुष्टकलेवरा ॥ २२॥
सहस्रदलसंयुक्तक्रीडाकमलमुज्ज्वलम् ।
श्रीमुखश्रीदर्शनार्थं बिभ्रती रत्नदर्पणम् ॥ २३॥
दृष्ट्वा तां निर्जने नन्दो विस्मयं परमं ययौ ।
चन्द्रकोटिप्रभामुष्टां भासयन्तीं दिशो दश ॥ २४॥
ननाम तां साश्रुनेत्रः भक्तिनम्रात्मकन्धरः ।
जानामि त्वां गर्गमुखात् पद्माधिकप्रियां हरेः ॥ २५॥
जानामीमं महाविष्णोः परं निर्गुणमच्युतम् ।
तथापि मोहितोऽहं च मानवो विष्णुमायया ॥ २६॥
गृहाण प्राणनाथं च गच्छ भद्रे यथासुखम् ।
पश्चाद्दास्यसि मत्पुत्रं कृत्वा पूर्णमनोरथम् ॥ २७॥
इत्युक्तवा प्रददौ तस्यै रुदन्तं बलकं भिया ।
जग्राह बालकं राधा जहास मधुरं सुखात् ॥ २८॥
उवाच नन्दं सा यत्नात् न प्रकाश्यं रहस्यकम् ।
अहं दृष्टा त्वया नन्द कति जन्मफलोदयात् ॥ २९॥
प्राज्ञस्त्वं गर्गवचनात् सर्वं जानासि कारणम् ।
अकथ्यमावयोर्गोप्यं चरितं गोकुले व्रज ॥ ३०॥
वरं वृणु व्रजेश त्वं यत्ते मनसि वाञ्छितम् ।
ददामि लीलया तुभ्यं देवानामपि दुर्लभम् ॥ ३१॥
राधिकावचनं श्रत्वा तामुवाच व्रजेश्वरः ।
युवयोश्चरणे भक्तिं देहि नान्यत्र मे स्मृहा ॥ ३२॥
युवयोः सन्निधौ वासं दास्यसि त्वं सुदुर्लभम् ।
आवाभ्यां देहि जगतामम्बिके परमेश्वरि ॥ ३३॥
श्रुत्वा नन्दस्य वचनमुवाच परमेश्वरी ।
दास्यामि दास्यमतुलमिदानीं भक्तिरस्तु ते ॥ ३४॥
आवयोश्चरणाम्भोजे युवयोश्च दिवानिशम् ।
प्रफुल्लहृदये शश्वत् स्मृतिरस्तु सुदुर्लभा ॥ ३५॥
एवमुक्ता तु सा नन्दं कृत्वा कृष्णं स्ववक्षसि ।
दूरं निनाय श्रीकृष्णं बाहुभ्यां च यथेप्सितम् ॥ ३६॥
एतस्मिन्नन्तरे राधा मायासद्रत्नमण्डपम् ।
ददर्श रत्नकलशशतेन च समन्वितम् ॥ ३७॥
सा देवी मण्डपं दृष्ट्वा जगामाभ्यन्तरं मुदा ।
ददर्श तत्र ताम्बूलं कर्पूरादिसमन्वितम् ॥ ३८॥
पुरुषं कमनीयं च किशोरं श्यामसुन्दरम् ।
कोटिकन्दर्पलीलाभं चन्दनेन विभूषितम् ॥ ३९॥
शयानं पुष्पशय्यायां सस्मितं सुमनोहरम् ।
पीतवस्त्रपरीधानं प्रसन्नवदनेक्षणम् ॥ ४०॥
मणीन्द्रसारनिर्माणं क्वणन्मञ्जीररञ्जितम् ।
सद्रत्नसारनिर्माणकेयूरवलयान्वितम् ॥ ४१॥
मणीन्द्रकुण्डलाभ्यां च गण्डस्थलविराजितम् ।
कौस्तुभेन मणीन्द्रेण वक्षस्थलसमुज्ज्वलम् ॥ ४२॥
शरत्पार्वणचन्द्राभप्रभामुष्टमुखोज्ज्वलम् ।
शरत्प्रफुल्लकमलप्रभामोचनलोचनम् ॥ ४३॥
मालतीमाल्यसंश्लिष्टशिखिपिच्छसुशोभितम् ।
त्रिभङ्गचूडां बिभ्रन्तं पश्यन्तं रत्नमन्दिरम् ॥ ४४॥
क्रोडं बालकशून्यं च दृष्ट्वा तं नवयौवनम् ।
सर्वस्मृतिस्वरूपा सा तथापि विस्मयं ययौ ॥ ४५॥
रूपं रासेश्वरी दृष्ट्वा मुमोह सुमनोहरम् ।
कामात् चक्षुश्चकोराभ्यां मुखचन्द्रं पपौ मुदा ॥ ४६॥
निमेषरहिता राधा नवसङ्गमलालसा ।
पुलकाङ्कितसर्वाङ्गी सस्मिता मदनातुरा ॥ ४७॥
तामुवाच हरिस्तत्र स्मेराननसरोरुहाम् ।
नवसङ्गमयोग्यां च पश्यन्तीं वक्त्रचक्षुषा ॥ ४८॥
श्रीकृष्ण उवाच ।
राधे स्मरसि गोलोकवृत्तान्तं सुरसंसदि ।
अद्य पूर्णं करिष्यामि स्वीकृतं यत्पुरा प्रिये ॥ ४९॥
त्वं मे प्राणाधिका राधे प्रेयसी च वरानने ।
यथा त्वं च तथाहं च भेदो हि नावयोर्धुवम् ॥ ५०॥
यथा क्षीरे च धावल्यं यथाग्नौ दाहिका सति ।
यथा पृथिव्यां गन्धश्च तथाहं त्वयि सन्ततम् ॥ ५१॥
विना मृदा घटं कर्तुं विना स्वर्णेन कुण्डलम् ।
कुलालः स्वर्णकारश्च न हि शक्तः कदाचन ॥ ५२॥
तथा त्वया विना सृष्टिमहं कर्तुं न च क्षमः ।
सृष्टेराधारभूता त्वं बीजरूपोऽहमच्युतः ॥ ५३॥
कृष्णं वदन्ति मां लोकास्त्वयैव रहितं यदा ।
श्रीकृष्णं च तदा तेऽपि त्वयैव सहितं परम् ॥ ५४॥
त्वं च श्रीः त्वं च सम्पत्तिस्त्वमाधारस्वरूपिणी ।
त्वं स्त्री पुमानहं राधे इति वेदेषु निर्णयः ॥ ५५॥
सर्वशक्तिस्वरूपासि सर्वरूपोऽहमक्षरः ।
ममाङ्गजस्वरूपा त्वं मूलप्रकृतिरीश्वरी ॥ ५६॥
शक्त्या बुध्या च ज्ञानेन मया तुल्या वरानने ।
रा शब्दं कुर्वतस्त्रस्तो ददामि भक्तिमुत्तमाम् ॥ ५७॥
धाशब्दं कुर्वतः पश्चाद्यामि श्रवणलोभतः ।
तिष्ठ भद्रे क्षणं भद्रं करिष्यामि तव प्रिये ॥ ५८॥
त्वन्मनोरथपूर्णस्य स्वयं कालस्समागतः ।
एतस्मिन्नन्तरे ब्रह्माऽऽजगाम पुरतो हरेः ॥ ५९॥
मालाकमण्डलुधरः ईषत्स्मेरचतुर्मुखः ।
गत्वा ननाम तं कृष्णं प्रतुष्टाव यथागमम् ॥ ६०॥
साश्रुनेत्रः पुलकितः भक्तिनम्रात्मकन्धरः ।
स्तुत्वा नत्वा जगद्धाता जगाम हरिसन्निधिम् ॥ ६१॥
पुनर्नत्वा प्रभुं भक्त्या जगाम राधिकान्तिकम् ।
मूर्ध्ना ननाम भक्त्या च मातुस्तच्चरणाम्बुजे ॥ ६२॥
चकार सम्भ्रमेणैव जटाजालेन वेष्टितम् ।
कमण्डलुजलेनैव शीघ्रं प्रक्षालितं मुदा ॥ ६३॥
यथागमं प्रतुष्टाव पुटाञ्जलियुतः पुनः ।
हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ ६४॥
सुदुर्लभं च सर्वेषां भारते च विशेषतः ।
षष्टिवर्षसहस्राणि तपस्तप्तं मया पुरा ॥ ६५॥
भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः ।
आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ ६६॥
वरं वृणीष्व इत्युक्ते स्वाभीष्टं च वृतं मुदा ।
राधिकाचरणाम्भोजं सर्वेषामपि दुर्लभम् ॥ ६७॥
हे गुणातीत मे शीघ्रमधुनैव प्रदर्शय ।
मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ॥ ६८॥
दर्शयिष्यामि काले च वत्सेदानीं क्षमेति च ।
न हीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ॥ ६९॥
सर्वेषां वाञ्छितं मातः गोलोके भारतेऽधुना ।
सर्वा देव्यः प्रकृत्यंशाः जन्याः प्राकृतिका धुवम् ॥ ७०॥
त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः ।
श्रीकृष्णस्त्वन्मयं राधा त्वं राधा वा हरिः स्वयम् ॥ ७१॥
न हि वेदेषु मे दृष्टः इति केन निरूपितम् ।
ब्रह्माण्डाद्बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ॥ ७२॥
वैकुण्ठश्चाप्यजन्यश्च त्वमजन्या तथाम्बिके ।
यथा समस्तब्रह्माण्डे श्रीकृष्णांशांशजीविनः ॥ ७३॥
तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता ।
पुरुषाश्च हरेरंशाः त्वदंशा निखिलाः स्त्रियः ॥ ७४॥
आत्मना देहरूपा त्वमस्याधारस्त्वमेव हि ।
अस्यानुप्राणैस्त्वं मातस्त्वत्प्राणैरयमीश्वरः ॥ ७५॥
किमहो निर्मितः केन हेतुना शिल्पकारिणा ।
नित्योऽयं च तथा कृष्णस्त्वं च नित्या तथाम्बिके ॥ ७६॥
अस्यांशा त्वं त्वदंशो वाप्ययं केन निरूपितः ।
अहं विधाता जगतां देवानां जनकः स्वयम् ॥ ७७॥
तं पठित्वा गुरुमुखात् भवन्त्येव बुधा जनाः ।
गुणानां वास्तवानां ते शतांशं वक्तुमक्षमः ॥ ७८॥
वेदो वा पण्डितो वान्यः को वा त्वां स्तोतुमीश्वरः ।
स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ॥ ७९॥
त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः ।
यद्वस्तु दृष्टं सर्वेषां तद्धि वक्तुं बुधः क्षमः ॥ ८०॥
यददृष्टाश्रुतं वस्तु तन्निर्वक्तुं च कः क्षमः ।
अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः ॥ ८१॥
सरस्वती च वेदाश्च क्षमः कः स्तोतुमीश्वरः ।
यथागमं यथोक्तं च न मां निन्दितुमहसि ॥ ८२॥
ईश्वराणामीश्वरस्य योग्यायोग्ये समा कृपा ।
जनस्य प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ॥ ८३॥
जननी जनको यो वा सर्वं क्षमति स्नेहतः ।
इत्युक्त्वा जगतां धाता तस्थौ च पुरतस्तयोः ॥ ८४॥
प्राणम्य चरणाम्भोजं सर्वेषां वन्द्यमीप्सितम् ।
ब्रह्मणः स्तवनं श्रुत्वा तमुवाच ह राधिका ॥ ८५॥
वरं वृणु विधातस्त्वं यत्ते मनसि वर्तते ।
राधिकावचनं श्रत्वा तामुवाच जगद्विधिः ॥ ८६॥
वरं च युवयोः पादपद्मभक्तिं च देहि मे ।
इत्युक्ते विधिना राधा तूर्णमोमित्युवाच ह ॥ ८७॥
पुनर्ननाम तां भक्त्या विधाता जगतां पतिः ।
तदा ब्रह्मा तयोर्मध्ये प्रज्वाल्य च हुताशनम् ॥ ८८॥
हरिं संस्मृत्य हवनं चकार विधिना विधिः ।
उत्थाय शयनात्कृष्णः उवास वह्निसन्निधौ ॥ ८९॥
ब्रह्मणोक्तेन विधिना चकार हवनं स्वयम् ।
प्रणमय्य पुनः कृष्णं राधां तां जनकः स्वयम् ॥ ९०॥
कौतुकं कारयामास सप्तधा च प्रदक्षिणम् ।
पुनः प्रदक्षिणां राधां कारयित्वा हुताशनम् ॥ ९१॥
प्रणमय्य ततः कृष्णं वासयामास तं विधिः ।
तस्या हस्तं च श्रीकृष्णं ग्राहयामास तं विधिः ॥ ९२॥
वेदोक्तसप्तमन्त्रांश्च पाठयामास माधवम् ।
संस्थाप्य राधिकाहस्तं हरेर्वक्षसि वेदवित् ॥ ९३॥
श्रीकृष्णहस्तं राधायाः पृष्ठदेशे प्रजाप्रतिः ।
स्थापयामास मन्त्रांस्त्रीन् पाठयामास राधिकाम् ॥ ९४॥
पारिजातप्रसुनानां मालां जानुविलम्बिताम् ।
श्रीकृष्णस्य गले ब्रह्मा राधाद्धारा ददौ मुदा ॥ ९५॥
प्रणमय्य पुनः कृष्णं राधां च कमलोद्भवः ।
राधागले हरिद्वारा ददौ मालां मनोहराम् ॥ ९६॥
पुनश्च वासयामास श्रीकृष्णं कमलोद्भवः ।
तद्वामपार्श्वे राधां च सस्मितां कृष्णचेतसम् ॥ ९७॥
पुटाञ्जलिं कारयित्वा माधवं राधिकां विधिः ।
पाठयामास वेदोक्तान् पञ्च मन्त्रांश्च नारद ॥ ९८॥
प्रणमय्य पुनः कृष्णं समर्प्य राधिकां विधिः ।
कन्यकां च यथा तातो भक्त्या तस्थौ हरेः पुरः ॥ ९९॥
एतस्मिन्नन्तरे देवाः सानन्दपुलकोद्गमाः ।
दुन्दुभिं वादयामासुः चानकं मुरजादिकम् ॥ १००॥
पारिजातप्रसूनानां पुष्पवृष्टिर्बभुव ह ।
जगुर्गन्धर्वप्रवराः ननृतुश्चाप्सरोगणाः ॥ १०१॥
इति ब्रह्मवैवर्तपुराणात् सङ्ग्रहीतं श्रीराधाकल्याणं समाप्तम् ॥
From kalyANamanjarI, dvitIya bhAgaH rAdhAkalyaNam
sangrahItaM rA. dattagopAlakRRiShNaH, svarNaprakAshanam
Proofread by PSA Easwaran