श्री प्रत्यङ्गिरा सर्वार्थसाधककवचम्
देव्युवाच ।
भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ।
देव्याः प्रत्यङ्गिरायाश्च कवचं यत्प्रकाशितम् ॥ १॥
सर्वार्थसाधनं नाम कथयस्व मयि प्रभो ।
भैरव उवाच ।
शृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ॥ २॥
सर्वार्थसाधनं नाम त्रैलोक्ये चाऽतिदुर्लभम् ।
सर्वसिद्धिमयं देवि सर्वैश्वर्यप्रदायकम् ॥ ३॥
पठनाच्छ्र्वणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ।
सर्वार्थसाधकस्याऽस्य कवचस्य ऋषिः शिवः ॥ ४॥
छन्दो विराट् पराशक्तिर्जगद्धात्री च देवता ।
धर्माऽर्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ५॥
विनियोगः-
ॐ श्रीसर्वार्थसाधककवचस्य शिव ऋषिः ।
विराट् छन्दः । श्रीमत्प्रत्यङ्गिरा देवता । ऐं बीजम् । ह्रीं शक्तिः ।
श्रीं कीलकं श्रीसदाशिवदेवता प्रीत्यर्थे पाठे विनियोगः ॥
ॐ प्रणवं मे शिरः पातु वाग्भवं च ललाटकम् ।
ह्रीं पातु दक्षनेत्रं मे लक्ष्मीर्वाम सुरेश्वरी ॥ १॥
प्रत्यङ्गिरा दक्षकर्ण वामे कामेश्वरी तथा ।
लक्ष्मीः प्राणं सदा पातु वदनं पातु केशवः ॥ २॥
गौरी तु रसनां पातु कण्ठं पातु महेश्वरः ।
स्कन्धदेशं रतिः पातु भुजौ तु मकरध्वजः ॥ ३॥
शङ्खनिधिः करौ पातु वक्षः पद्मनिधिस्तथा ।
ब्राह्मी मध्यं सदा पातु नाभिं पातु महेश्वरी ॥ ४॥
कौमारी पृष्ठदेशं तु गुह्यं रक्षतु वैष्णवी ।
वाराही च कटिम्पातु चैन्द्री पातु पदद्वयम् ॥ ५॥
भार्यां रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान् ।
इन्द्रः पूर्वे सदा पातु आग्नेय्यां अग्निदेवता ॥ ६॥
याम्ये यमः सदा पातु नैरृत्यां निरृतिस्तथा ।
पश्चिमे वरुणः पातु वायव्यां वायुदेवता ॥ ७॥
सौम्यां सोमः सदा पातु चैशान्यामीश्वरो विभुः ।
ऊर्ध्वं प्रजापतिः पातु ह्यधश्चाऽनन्तदेवता ॥ ८॥
राजद्वारे श्मशाने तु अरण्ये प्रान्तरे तथा ।
जले स्थले चाऽन्तरिक्षे शत्रूणां निग्रहे तथा ॥ ९॥
एताभिः सहिता देवी चतुर्बीजा महेश्वरी ।
प्रत्यङ्गिरा महाशक्तिः सर्वत्र मां सदाऽवतु ॥ १०॥
फलश्रुतिः ।
इति ते कथितं देवि सारात्सारं परात्परम् ।
सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ॥ १॥
अस्याऽपि पठनात्सद्यः कुबेरोऽपि धनेश्वरः ।
इन्द्राद्याः सकला देवाः धारणात्पठनाद्यतः ॥ २॥
सर्वसिद्धीश्वरो सन्तः सर्वैश्वर्यमवाप्नुयुः ।
प्रीतिमन्येऽन्यतः कृत्वा कमला निश्चला गृहे ॥ ३॥
वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः ।
यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ॥ ४॥
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ ५॥
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।
बहुपुत्रवती भूयाद्वन्ध्याऽपि लभते सुतम् ॥ ६॥
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तत्तनुम् ।
एतत्कवचमज्ञात्वा यो जपेत्परमेश्वरीम् ॥ ७॥
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥
श्री रुद्रयामल तन्त्रे पञ्चाङ्गखण्डे प्रत्यङ्गिरायाः
सर्वार्थसाधनं नामकं कवचं परिपूर्णम् ॥
Encoded by krishna vallapareddy krishna321 at hotmail.com
Proofread by krishna vallapareddy, PSA Easwaran