प्रज्ञा पातु
या प्रज्ञा मोहरात्रिप्रबलरिपुचय-
ध्वंसिनी मुक्तिदात्री
सानन्दाशाविधात्री मधुमयरुचिरा
पावनी पातु भव्या ।
सौजन्याम्भोजशोभा विलसतु विमला
सर्वदा सर्वथाऽत्र
साम्यस्निग्धा विशुद्धा भवतु च वसुधा
पुण्यवार्ताविमुग्धा ॥ १॥
या प्रज्ञा विश्वकाव्यामृतरसलहरी-
सारतत्त्वानुसन्धा
सद्भावानन्दकन्दा ह्यभयविभवदा
साम्यधर्मानुबद्धा ।
शुद्धाचारप्रदात्री निरुपमरुचिरा
सत्यपूताऽनवद्या
कल्याणं सन्ततं सा वितरतु विमला
शान्तिदा वेदविद्या ॥ २॥
या ज्ञानामृतमिष्टदं प्रददते
या लोकरक्षाकरी ।
या चोदारसुशीलशान्तविमला
या भक्तिसञ्चारिणी ।
या गोवृन्दनियन्त्रणातिकुशला
सा शारदा पातु नः ।
गीतावद् गरकण्ठवद् गगनवद्
गौराङ्गवद् गोपवत् ॥ ३॥
ॐ शान्तिः ! शान्तिः !! शान्तिः !!!
-श्रीगङ्गाधरगुरुः
Encoded and proofread by Mohan Chettoor