प्राधानिकरहस्यम्
श्रीगणेशाय नमः ॥
अस्य श्रीसप्तशतीरहस्पत्रयस्य ब्रह्मविष्णुरुद्रा ऋषयः ,
महाकालीमहालक्ष्मीमहासरस्वत्यो देवताः , अनुष्टुप् छन्दः ,
नवदुर्गामहालक्ष्मीर्बीजं , श्रीं शक्तिः ,
ममाभीष्टफलसिद्धये जपे विनियोगः ॥
राजोवाच ॥
भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः ।
एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि ॥ १॥
आराध्यं यन्मया देव्याः स्वरूपं येन वै द्विज ।
विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ॥ २॥
ऋषिरुवाच ॥
इदं रहस्यं परममनाख्येयं प्रचक्षते ।
भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप ॥ ३॥
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी ।
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥ ४॥
मातुलिङ्गं गदां खेटं पानपात्रं च बिभ्रती ।
नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि ॥ ५॥
तप्तकाञ्चनवर्णाभा तप्तक्ञ्चनभूषणा ।
शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ ६॥
शून्यं तदखिलं लोकं विलोक्य परमेश्वरी ।
बभार रूपमपरं तमसा केवलेन हि ॥ ७॥
सा भिन्नाञ्जनसङ्काशा दंष्ट्राचितवरानना ।
विशाललोचना नारी बभूव तनुमध्यमा ॥ ८॥
खड्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा ॥
कबन्धहारं शिरसा बिभ्राणाहिशिरःस्रजम् ॥ ९॥
तां प्रोवाच महालक्ष्मीस्तामसी प्रमदोत्तमाम् ।
ददामि तव नामानि यानि कर्माणि तानि ते ॥ १०॥
महामाया महाकाली महामारी क्षुधा तृषा ।
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥ ११॥
इमानि तव नामानि प्रतिपाद्यानि कर्मभिः ।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ॥ १२॥
तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरं नृप ।
सत्त्वाख्येनातिशुद्धेन गुणेनेदुप्रभ्रं दधौ ॥ १३॥
अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी ।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १४॥
महाविद्या महावाणी भारती वाक् सरस्वती ।
आर्या ब्राह्मी कामधेनुर्वेदगर्भा सुरेश्वरी ॥ १५॥
अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ॥
युवां जनयतां देव्यौ मिथुने स्वानुरूपतः ॥ १६॥
इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् ।
हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ ॥ १७॥
ब्रह्मन्विधे विरञ्चेति धातरित्याह तं नरम् ॥
श्रीः पद्मे कमले लक्ष्मीत्याह माता स्त्रियं च ताम् ॥ १८॥
महाकाली भारती च मिथुने सृजतः सह ।
एतयोरपि रूपाणि नामानि च वदामि ते ॥ १९॥
नीलकण्ठं रक्तबाहु श्वेताङ्गं चद्रशेखरम् ।
जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ २०॥
स रुद्रः शङ्करः स्थाणुः कपर्दी च त्रिलोचनः ।
त्रयीविद्याकामधेनुः सा स्त्री भाषास्वराक्षरा ॥ २१॥
सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप ।
जनयामास नामानि तयोरपि वदामि ते ॥ २२॥
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ।
उमा गौरी सती चण्डी सुन्दरी सुभगा शुभा ॥ २३॥
एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे ।
चक्षुष्मन्तो नु पश्यन्ति नेतरे तद्विदो जनाः ॥ २४॥
ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नृप त्रयीम् ।
रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥ २५॥
स्वरया सह सम्भूय विरञ्चोऽण्डमजीजनत् ।
बिभेद भगवान् रुद्रस्तद्गौर्या सह वीर्यवान् ॥ २६॥
अण्डमध्ये प्रधानादि कार्यजातमभून्नृप ।
महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥ २७॥
पुपोष पालयामास तल्लक्ष्म्या सह केशवः ।
महालक्ष्मीरेवमजा राजन् सर्वेश्वरेश्वरी ॥ २८॥
निराकारा च साकारा सैव नानाभिधानभृत् ।
नामातरैर्निरूप्यैषा नाम्ना नान्येन केनचित् ॥ २९॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
प्राधानिकरहस्यं सम्पूर्णम् ॥ अध्याय १४
See also vaikRitikararahasyam and mUrtirahasyam
Proofread by Pallasena Narayanaswami ppnswami at gmail.com