धर्माचार्यकृता श्रीपञ्चस्तवी
पञ्चानां स्तवानां समाहारा - A collection of five eulogiums
१. लघुस्तवः ।
२. चर्चास्तवः ।
३. घटस्तवः ।
४. अम्बास्तवः ।
५. सकलजननीस्तवः ।
॥ श्रीः ॥
श्रीगणेशाय नमः ।
श्रीगुरुभ्यो नमः ।
ॐ नमस्त्रिपुरसुन्दर्यै ।
अथ लघुस्तवः प्रथमः ।
(श्री बालाविंशतिस्तवः अथवा श्रीबालालघुस्तवराजः लघुस्तवः इत्यपि नामान्तरम् ।)
% १ लघुभट्टारकाख्य अथवा कालिदासविरचितः
ऐन्द्रस्येव शरासनस्य दधती मध्येललाटं प्रभां
शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः ।
एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहः स्थिता
छिन्द्यान्नः सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥ १॥
या मात्रा त्रपुसीलतातनुलसत्तन्तूत्थितिस्पर्धिनी
वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् ।
शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमां
ज्ञात्वेत्थं न पुनः स्पृशन्ति जननी गर्भेऽर्भकत्वं नराः ॥ २॥
दृष्ट्वा संभ्रमकारि वस्तुसहसा ऐ ऐ इति व्याहृतं
येनाऽकूतवशादऽपीह वरदे ! बिन्दुं विनाप्यक्षरम् ।
तस्यापि ध्रुवमेव देवि तरसा जाते तवानुग्रहे
वाचःसूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्राम्बुजात् ॥ ३॥
यन्नित्ये तव कामराजमपरं मन्त्राक्षरं निष्कलं
तत्सारस्वतमित्यवैति विरलः कश्चिद्बुधश्चेद्भुवि ।
आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः
प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥ ४॥
यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैः
तार्तीयीकमहं नमामि मनसा त्वद्बीजमिन्दुप्रभम् ।
अस्त्वौर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये
गौः शब्दो गिरि वर्तते सनियतं योगं विना सिद्धिदः ॥ ५॥
एकैकं तव देवि बीजमनघं सव्यञ्जनाऽव्यञ्जनं
कूटस्थं यदि वा पृथक् क्रमगतं यद्वा स्थितं व्युत्क्रमात् ।
यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं
जप्तं वा सफलीकरोति सहसा तं तं समस्तं नृणाम् ॥ ६॥
वामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे
भक्तेभ्यो वरदानपेशलकरां कर्पूरकुन्दोज्ज्वलाम् ।
उज्जृम्भाम्बुजपत्रकान्तिनयनस्निग्धप्रभालोकिनीं
ये त्वामम्ब न शीलयन्ति मनसा तेषां कवित्वं कुतः ॥ ७॥
ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां
सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् ।
अश्रान्तं विकटस्फुटाक्षरपदा निर्यान्ति वक्त्राम्बुजात्
तेषां भारति भारती सुरसरित्कल्लोललोलोर्मिवत् ॥ ८॥
ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमा-
मुर्वीं चापि विलीनयावकरसप्रस्तारमग्नामिव ।
पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर-
क्लान्तास्त्रस्तकुरङ्गशावकदृशोवश्याः भवन्ति स्फुटम् ॥ ९॥
चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीस्रजं
ये त्वां चेतसि तद्गतेक्षणमपि ध्यायन्ति कृत्वा स्थिराम् ।
तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरम् ।
माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्यं भजन्ते श्रियः ॥ १०॥
आर्भट्याशशिखण्डमण्डितजटाजूटां नृमुण्डस्रजं
बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् । variation कुसुमारुणा
त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनीं
मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥ ११॥
जातोऽप्य्ऽल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले
निःशेषावनिचक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नतः ।
यद्विद्याधर वृन्दवन्दितपदः श्रीवत्सराजोऽभवत्
देवि त्वच्चरणाम्बुज प्रणतिजः सोऽयं प्रसादोदयः ॥ १२॥
चण्डि त्वच्चरणाम्बुजार्चनविधौ बिल्वीदलोल्लुण्ठन-
त्रुट्यत्कण्टककोटिभिः परिचयं येषां न जग्मुः कराः ।
ते दण्डाङ्कुशचक्रचापकुलिशश्रीवत्समत्स्याङ्कितै-
र्जायन्ते पृथिवीभुजः कथमिवाम्भोजप्रभैः पाणिभिः ॥ १३॥
विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः ।
त्वां देवि त्रिपुरे परापरमयीं सन्तर्प्य पूजाविधौ ।
यां यां प्रार्थयते मनः स्थिरधियां तेषां त एव ध्रुवं
तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृताः ॥ १४॥
शब्दानां जननी त्वमत्र भुवने वाग्वादिनीत्युच्यसे
त्वत्तः केशववासव प्रभृतयोऽप्याविर्भवन्ति स्फुटम् ।
लीयन्ते खलु यत्र कल्पविरमे ब्रह्मादयस्तेऽप्यमी
सा त्वं काचिदचिन्त्यरूपमहिमा शक्तिः परा गीयसे ॥ १५॥
देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा-
स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथो त्रिब्रह्म वर्णास्त्रयः ।
यत्किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गामकं
तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥ १६॥
लक्ष्मी राजकुले जयां रणभिवि क्षेमङ्करीमध्वनि
क्रव्यादद्विपसर्पभाजि शवरीं कान्तारदुर्गे गिरौ ।
भूतप्रेतपिशाचजम्बुकभये स्मृत्वा महाभैरवीं
व्यामोहे त्रिपुरां तरन्ति विपदस्ताराञ्च तोयप्लवे ॥ १७॥
माया कुण्डलिनी क्रिया मधुमती काली कला मालिनी
मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी ।
शक्तिः शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी
ह्रिङ्कारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥ १८॥
आईपल्लवितैपरस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः
काद्यैः क्षान्तगतैः स्वरादिभिरथो क्षान्तैश्च तैः सस्वरैः ।
नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते
तेभ्यो भैरवपत्नि विंशतिसहस्रेभ्यः परेभ्यो नमः ॥ १९॥
बोद्धव्या निपुणं बुधैः स्तुतिरियं कृत्वा मनस्तद्गतं
भारत्यास्त्रिपुरेत्यनन्यमनसो यत्राद्यवृत्ते स्फुटम् ।
एकद्वित्रिपदक्रमेण कथितस्तत्पाद सङ्ख्याक्षरै-
र्मन्त्रोद्धारविधिर्विशेषसहितः सत्संप्रदायान्वितः ॥ २०॥
सावद्यं निरवद्यमस्तु यदि वा किं वानया चिन्तया
नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि ।
सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सञ्जायमानं हठात्
त्वद्भक्त्या मुखरीकृतेन रचितं यस्मान्मयापि स्फुटम् ॥ २१॥
इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां लघुस्तवः प्रथमः समाप्तः । १
अथ चर्चास्तवो द्वितीयः ।
ॐ नमस्त्रिपुरसुन्दर्यै ।
आनन्दसुन्दरपुरन्दरमुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य ।
पादाम्बुजं भवतु मे विजयाय मञ्जु-
मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ १॥
सौन्दर्यविभ्रमभुवो भुवनाधिपत्य-
सम्पत्तिकल्पतरवस्त्रिपुरे! जयन्ति ।
एते कवित्वकुमदप्रकरावबोध-
पूर्णेन्दवस्त्वयि जगज्जननि प्रणामाः ॥ २॥
देवि ! स्तुतिव्यतिकरे कृतबुद्धयस्ते
वाचस्पति प्रभृतयोऽपि जडी भवन्ति ।
तस्मान्निसर्गजडिमा कतमोऽहमत्र
स्तोत्रर्ं तव त्रिपुरतापनपत्नि ! कर्तुम् ॥ ३॥
मातस्तथापि भवतीं भवतीव्रताप-
विच्छित्तये स्तुतिमहार्णव कर्णधारः ।
स्तोतुं भवानि स भवच्चरणारविन्द-
भक्तिग्रहः किमपि मां मुखरी करोति ॥ ४॥
सूते जगन्ति भवती भवती बिभर्ति
जागर्ति तत्क्षयकृते भवती भवानि ।
मोहं भिनत्ति भवती भवती रुणद्धि
लीलायितं जयति चित्रमिदं भवत्याः ॥ ५॥
यस्मिन्मनागपि नवाम्बुजपत्रगौरि!
गौरि! प्रसादमधुरां दृशमादधासि ।
तस्मिन्निरन्तरमनङ्गशरावकीर्ण-
सीमन्तिनीनयनसन्ततयः पतन्ति ॥ ६॥
पृथ्वीभुजोऽप्युदयनप्रवरस्य तस्य
विद्याधर प्रणति चुम्बित पाद पीठः ।
यच्चक्रवर्तिपदवीप्रणयः स एष (स एव)
त्वत्पादपङ्कजरजः कणजः प्रसादः ॥ ७॥
कल्पद्रुमप्रसवकल्पितचित्रपूजा-
मुद्दीपित प्रियतमामदरक्तगीतिम् ।
नित्यं भवानि! भवतीमुपवीणयन्ति
विद्याधराः कनकशैल गुहागृहेषु ॥ ८॥
लक्ष्मीवशीकरणकर्मणिकामिनीना-
माकर्षणव्यतिकरेषु च सिद्धमन्त्रः ।
नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो
देवि! त्वदऽङ्घ्रिजनितो जयति प्रसादः ॥ ९॥
देवि! त्वदऽङ्घ्रनखरत्नभुवो मयूखाः
प्रत्यग्रमौक्तिकरुचो मुदमुद्वहन्ति ।
सेवानतिव्यतिकरे सुरसुन्दरीणां
सीमन्तसीम्नि कुसुमस्तवकायितं यैः ॥ १०॥
मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तिदीप्तं
मध्ये ललाटममरायुधरश्मिचित्रम् ।
हृच्चक्रचुम्बि हुतभुक्कणिकानुरूपं
ज्योतिर्यदेतदिदमम्ब! तव स्वरूपम् ॥ ११॥
रूपं तव स्फुरितचन्द्रमरीचिगौर-
माम्लोकते शिरसि वागधिदैवतं यः ।
निःसीमसूक्तिरचनामृतनिर्भरस्य
तस्य प्रसादमधुराः प्रसरन्ति वाचः ॥ १२॥
सिन्दूरपांसुपटलच्छुरितामिव द्यां
त्वत्तेजसा जतुरसस्नपितामिवोर्वीम् ।
यः पश्यति क्षणमपि त्रिपुरे! विहाय
व्रीडां मृडानि! सुदृशस्तमनुद्रवन्ति ॥ १३॥
मातर्मुहूर्तमपि यः स्मरति स्वरूपं
लाक्षारसप्रसरतन्तुनिभं भवत्याः ।
ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः
प्रद्युम्नसीम्नि सुभगत्वगुणं तरुण्यः ॥ १४॥
योऽयं चकास्ति गगनार्णवरत्नमिन्दु-
र्योऽयं सुरासुरगुरुः पुरुषः पुराणः ।
यद्वाममर्धमिदमन्धकसूदनस्य
देवि! त्वमेव तदिति प्रतिपादयन्ति ॥ १५॥
इच्छानुरूपमनुरूपगुणप्रकर्षं
सङ्कर्षिणि ! त्वमनुसृत्य यदा विभर्षि ।
जायेत स त्रिभुवनैक गुरुस्तदानीं
देवः शिवोऽपि भुवनत्रयसूत्रधारः ॥ १६॥
रुद्राणि ! विद्रुममयीं प्रतिमामिव त्वां
ये चिन्तयन्त्यरुणकान्तिमऽनन्यरूपाम् ।
तानेत्य पक्ष्मलदृशः प्रसभं भजन्ते
कण्ठावसक्तमृदुबाहुलतास्तरुण्यः ॥ १७॥
त्वद्रूपमुल्लसितदाडिमपुष्परक्त-
मुद्भावयेन्मदनदैवतमक्षरं यः ।
तं रूपहीनमपि मन्मथनिर्विशेष-
मालोकयन्त्युरुनितम्बभरास्तरुण्यः ॥ १८॥
ध्याताऽसि हैमवति! येन हिमांशुरश्मि-
मालाऽमलद्युतिरकल्मष मानसेन ।
तस्याऽविलम्बमनवद्यमनल्पकल्प-
मल्पैर्दिनैः सृजसि सुन्दरि! वाग्विलासम् ॥ १९॥
आधारमारुतनिरोधवशेन येषां
सिन्दूररञ्जितसरोजगुणानुकारि ।
दीप्तं हृदि स्फुरति देवि! वपुस्त्वदीयं (तीव्रं हृदि)
ध्यायन्ति तानिह समीहितसिद्धसाध्याः ॥ २०॥
त्वामैन्दवीमिव कलामनुभालदेश-
मुद्भासिताम्बरतलामवलोकयन्तः ।
सद्यो भवानि! सुधियः कवयो भवन्ति
त्वं भावनाहितधियां कुल कामधेनुः ॥ २१॥
त्वां व्यापिनीति समना इति कुण्डलीति
त्वां कामिनीति कमलेति कलावतीति ।
त्वां मालिनीति ललितेत्यपराजितेति
देवि! स्तुवन्ति विजयेति जयेत्युमेति ॥ २२॥
ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति
रूपं तवाम्ब! नवयावकपङ्कपिङ्गम् ।
तेषां सदैव कुसुमायुधबाणभिन्न-
वक्षःस्थला मृगदृशो वशगा भवन्ति ॥ २३॥
उत्तप्तहेमरुचिरे त्रिपुरे! पुनीहि
चेतश्चिरन्तनमघौघवनं लुनीहि ।
कारागृहे निगडबन्धनपीडितस्य
त्वत्संस्मृतौ झटिति मे निगडास्त्रुटन्तु ॥ २४॥
शर्वाणि! सर्वजनवन्दितपादपद्मे!
पद्मच्छदच्छविविडम्बितनेत्रलक्ष्मि! ।
निष्पापमूर्ति जनमानसराजहंसि!
हंसि त्वमापदमनेकविधां जनस्य ॥ २५॥
त्वत्पादपङ्कजरजः प्रणिपातपूतैः
पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः ।
क्षीरक्षपाकरदुकूलहिमावदाता
कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥ २६॥
त्वद्रूपैकनिरूपणप्रणयिताबन्धो दृशोस्त्वद्वगुण-
ग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि ।
त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तनं वाचि मे
कुत्रापि त्वदुपासनव्यसनिता मे देवि! मा शाम्यतु ॥ २७॥
उद्दामकामपरमार्थसरोजषण्ड-
चण्डद्युतिर्द्युतिमुपासितषट्प्रकाराम् ।
मोहद्विपेन्द्रकदनोद्यतबोधसिंह-
लीलागुहां भगवतीं त्रिपुरां नमामि ॥ २८॥
गणेशवटुकस्तुता रतिसहायकामान्विता
स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता ।
अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः
कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः ॥ २९॥
यः स्तोत्रमेतदनुवासरमीश्वरायाः
श्रेयस्करं पठति वा यदिवा शृणोति ।
तस्येप्सितं फलति राजभिरीड्यतेऽसौ
जायेत स प्रियतमो हरिणेक्षणानाम् ॥ ३०॥
ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि-
स्कन्दद्विपाननहुताश्मवन्दितायै ।
वागीश्वरि! त्रिभुवनेश्वरि! विश्वमात-
रन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥ ३१॥
इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां चर्चास्तवो द्वितीयः समाप्तः । २
अथ तृतीयो घटस्तवः ।
ॐ
देवि! त्र्यम्बकपत्नि! पार्वति सति! त्रैलोक्यमातः! शिवे!
शर्वाणि! त्रिपुरे! मृडानि वरदे! रुद्राणि! कात्यायिनि! ।
भीमे! भैरवि !चण्डि! शर्वरि! कले! कालक्षये शूलिनि!
त्वत्पादप्रणतानऽनन्यमनसः पर्याकुलान्पाहिनः ॥ १॥
उन्मत्ता इव सग्रहा इव विषव्यासक्तमूर्च्छा इव
प्राप्तप्रौढमदा इवाति विरहग्रस्ता इवार्ता इव ।
ये ध्यायन्ति हि शैलराजतनयां धन्यास्त एकाग्रत-
स्त्यक्तोपाधिविवृद्धरागमनसो ध्यायन्ति वामभ्रुवः ॥ २॥
देवि! त्वां सकृदेव यः प्रणमति क्षोणीभृतस्तं नम-
न्त्याजन्मस्फुरदङिघ्र्पीठविलुठत्कोटीरकोटिच्छटाः ।
यस्त्वामर्चति सोऽर्च्यते सुरगणैर्यः स्तौति स स्तूयते
यस्त्वां ध्यायति तं स्मरार्तिविधुरा ध्यायन्ति वामभ्रुवः ॥ ३॥
ध्यायन्ति ये क्षणमपि त्रिपुरे! हृदि त्वां
लावण्ययौवनधनैरपि विप्रयुक्ताः ।
ते विस्फुरन्ति ललितायतलोचनानां
चित्तैकभित्तिलिखितप्रतिमाः पुमांसः ॥ ४॥
एतं किं नु दृशा पिबाम्युत विशाम्यस्याङ्गमङ्गैर्निजैः
किं वामु निगलाम्यनेन सहसा किं वैकतामाश्रये ।
तस्येत्थं विवशो विकल्पघटनाकूतेन योषिज्जनः
किं तद्यन्न करोति देवि! हृदये यस्य त्वमावर्तसे ॥ ५॥
विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः
शब्दः शक्तिरिति त्रिलोकजननि! त्वय्येव तथ्यस्थितिः ।
इत्थं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितुं
त्यद्भक्तानऽपि न क्षिणोषि च रुषा तद्देवि! चित्रं महत् ॥ ६॥
इन्दोर्मध्यगतां मृगाङ्कसदृशच्छायां मनोहारिणी
पाण्डूत्फुल्लसरोरुहासनगता स्निग्धप्रदीपच्छविम् ।
वर्षन्तीममृतं भवानि! भगवतीं ध्यायन्ति ये देहिन-
स्ते निर्मुक्तरुजो भवन्ति विपदः प्रोज्झन्ति तान्दूरतः ॥ ७॥
पूर्णेन्दोः शकलैरिवातिबहलैः पीयूषपूरैरिव
क्षीराब्धेर्लहरीभरैरिव सुधापङ्कस्य पिण्डैरिव ।
प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया
चित्रान्तर्निहतार्तितापविपदस्ते सम्पदं बिभ्रति ॥ ८॥
ये संस्मरन्ति तरलां सहसोल्लसन्तीं
त्वां ग्रन्थिपञ्चकभिदं तरुणार्कशोणाम् ।
रागार्णवे बहलरागिणि मज्जयन्तीं
कृत्स्नं जगद्दधति चेतसि तान्मृगाक्ष्यः ॥ ९॥
लाक्षारसस्नपितपङ्कजतन्तुतन्वी-
मन्तः स्मरत्यनुदिनं भवतीं भवानि ।
यस्तं स्मरप्रतिममप्रतिमस्वरूपा
नेत्रोत्पलैर्मृगदृशो भृशमर्चयन्ति ॥ १०॥
स्तुमस्त्वां वाचमव्यक्तां हिमकुन्देन्दुरोचिषम् ।
कदम्बमालां बिभ्राणाम्ऽऽपादतललम्बिनीम् ॥ ११॥
मूर्ध्नीन्दोः सितपङ्कजासनगतां प्रालेयपाण्डुत्विषं
वर्षन्तीममृतं सरोरुहभुवो वक्त्रेऽपि रन्ध्रेऽपि च ।
अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च
त्वामेव स्मरतां स्मरारिदयिते ! वाक् सर्वतो वल्गति ॥ १२॥
ददातीष्टान्भोगान्क्षपयति रिपून्हन्ति विपदो
दहत्याधीन्व्याधीञ्छमयति सुखानि प्रतनुते ।
हठादन्तर्दुःखं दलयति पिनष्टीष्टविरहं
सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥ १३॥
यस्त्वां ध्यायति वेत्ति विन्दति जपत्यालोकते चिन्तय-
त्यन्वेति प्रतिपद्यते कलयति स्तौत्याश्रयत्यर्चति ।
यश्च त्र्यम्बकवल्लभे! तव गुणानाकर्णयत्यादरा-
त्तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ॥ १४॥
किं किं दुःखं दनुजदलिनि! क्षीयते न स्मृतायां
का का कीर्तिः कुलकमलिनि! ख्याप्यते न स्तुतायाम् ।
का का सिद्धिः सुरवरनुते! प्राप्यते नार्चितायां
कं कं योगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥ १५॥
ये देवि! दुर्धरकृतान्तमुखान्तरस्था
ये कालि! कालघनपाशनितान्त बद्धाः ।
ये चण्डि! चण्डगुरुकल्मषसिन्धुमग्ना-
स्तान्यासि मोचयसि तारयसि स्मृतैव ॥ १६॥
लक्ष्मीवशीकरणचूर्णसहोदराणि
त्वत्पादपङ्कजरजांसि चिरं जयन्ति ।
यानि प्रणाममिलितानि नृणां ललाटे
लुम्पति दैवलिखितानि दुरक्षराणि ॥ १७॥
रे मूढाः! किमयं वृथैव तपसा कायः परिक्लिश्यते
यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः ।
भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यता-
मुन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ १८॥
याचे न कञ्चन न कञ्चन वञ्चयामि
सेवे न कञ्चन निरस्तसमस्तदैन्यः ।
श्लक्ष्णं वसे मधुरमद्मि भजे वरस्त्री-
देवी हृदि स्फुरति मे कुलकामधेनुः ॥ १९॥
शब्दब्रह्ममयि! स्वच्छे देवि त्रिपुरसुन्दरि! ।
यथाशक्ति जपं पूजां गृहाण परमेश्वरि ॥ २०॥
नन्दन्तु साधकाः सर्वे विनश्यन्तु विदूषकाः ।
अवस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा ॥ २१॥
दर्शनात्पापशमनी जपान्मृत्युविनाशिनी ।
पूजिता दुःखदौर्भाग्यहरा त्रिपुरसुन्दरी ॥ २२॥
नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् ।
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥ २३॥
मन्त्रहीनं क्रियाहीनं विधिहीनं च यद्गतम् ।
त्वया तत्क्षम्यतां देवि! कृपया परमेश्वरि! ॥ २४॥
इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां घटस्तवः तृतीयः समाप्तः । ३
अथ पञ्चस्तव्यामम्बास्तवश्चतुर्थः ।
ॐ यामामनन्ति मुनयः प्रकृतिं पुराणीं
विद्येति यां श्रुतिरहस्यविदोवदन्ति ।
तामर्धपल्लवितशङ्कररूपमुद्रां
देवीमनन्यशरणः शरणं प्रपद्ये ॥ १॥
अम्ब! स्तवेषु तव तावदकर्तुकाणि
कुण्ठीभवन्ति वचसामपि गुम्फनानि ।
डिम्बस्य मे स्तुतिरसावऽसमञ्जसापि
वात्सल्यनिघ्नहृदयां भवतीं धिनोति ॥ २॥
व्योमेति बिन्दुरिति नाद इतीन्दुलेखा-
रूपेति वाग्भवतनूरिति मातृकेति ।
निःष्यन्दमानसुखबोधसुधास्वरूपा
विद्योतसे मनसि भाग्यवतां जनानाम् ॥ ३॥
आविर्भवत्पुलकसन्ततिभिः शरीरै-
र्निःष्यन्दमानसलिलैर्नवनेश्च नित्यम् ।
वाग्भिश्च गद्गदपदाभिरुपासते ये
पादौ तवाम्ब! हृदयेषु त एव धन्याः ॥ ४॥
वक्त्रं यदुद्यतमभिष्टुतये भवत्या-
स्तुभ्यं नमो यदपि देवि! शिरः करोति ।
चेतश्च यत्त्वयि परायणमम्ब! तानि
कस्यापि कैरपि भवन्ति तपोविशेषैः ॥ ५॥
मूलालवालकुहरादुदिता भवानि!
निर्भिद्य षट्सरसिजानि तडिल्लतेव ।
भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दु-
निःष्यन्दमानपरमामृततोयरूपा ॥ ६॥
दग्धं यदा मदनमेकमनेकधा ते
मुग्धः कटाक्षविधिरङ्कुरयाञ्चकार ।
धत्ते तदा प्रभृति देवि! ललाटनेत्रं
सत्यं ह्रियेव मुकुलीकृतमिन्दुमौलिः ॥ ७॥
अज्ञातसम्भवमनाकलितान्ववायं
भिक्षुं कपालिनमवाससमद्वितीयम् ।
पूर्वं करग्रहणमङ्गलतो भवत्याः
शम्भुं क एव बुबुधे गिरिराजकन्ये ॥ ८॥
चर्माम्बरं च शवभस्मविलेपनं च
भिक्षाटनं च नटनं च परेतभूमौ ।
वेतालसंहतिपरिग्रहता च शम्भोः
शोभां बिभर्ति गिरिजे! तव साहचर्यात् ॥ ९॥
कल्पोपसंहरणकेलिषु पण्डितानि
चण्डानि खण्डपरशोरपि ताण्डवानि ।
आलोकनेन तव कोमलितानि मात-
र्लास्यात्मना परिणमन्ति जगद्विभूत्यै ॥ १०॥
जन्तोरपश्चिमतनोः सति कर्मसाम्ये
निःशेषपाशपटलच्छिदुरा निमेषात् ।
कल्याणि दैशिककटाक्षसमाश्रयेण
कारुण्यतो भवसि शाम्भववेददीक्षा ॥ ११॥
मुक्ताविभूषणवती नवविद्रुमाभा
यच्चेतसि स्फुरसि तारकितेव सन्ध्या ।
एकः स एव भुवनत्रयसुन्दरीणां
कन्दर्पतां व्रजति पञ्चशरी विनापि ॥ १२॥
ये भावयन्त्यमृतवाहिभिरंशुजालै-
राप्यायमानभुवनाममृतेश्वरीं त्वाम् ।
ते लङ्घयन्ति ननु मातरऽलङ्घनीयां
ब्रह्मादिभिः सुरवरैरपि कालकक्ष्याम् ॥ १३॥
यः स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां
व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् ।
पद्मासनां च हृदये भवतीमुपास्ते
मातः स विश्वकवितार्किकचक्रवर्ती ॥ १४॥
बर्हावतंसयुतबर्बरकेशपाशां
गुञ्जावलीकृतघनस्तनहारशोभाम् ।
श्यामां प्रवालवदनां सुकुमारहस्ता
त्वामेव नौमि शवरीं शवरस्य जायाम् ॥ १५॥
अधेन किं नवलताललितेन मुग्धे!
क्रीतं विभोः परुषमर्धमिदं त्वयेति ।
आलीजनस्य परिहासवचांसि मन्ये
मन्दस्मितेन तव देवि! जडी भवन्ति ॥ १६॥
ब्रह्माण्ड बुद्बुदकदम्बकसङ्कुलोऽयं
मायोदधिर्विविधदुःखतरङ्गमालः ।
आश्चर्यमम्ब! झटिति प्रलयं प्रयाति
त्वद्ध्यानसन्ततिमहावडवामुखाग्नौ ॥ १७॥
दाक्षायणीति कुटिलेति गुहारणीति
कात्यायनीति कमलेति कलावतीति ।
एका सती भगवती परमार्थतोऽपि
संदृश्यसे बहुविधा ननु नर्तकीव ॥ १८॥
आनन्दलक्षणमनाहतनाम्नि देशे
नादात्मना परिणतं तव रूपमीशे ।
प्रत्यङ्मुखेन मनसा परिचीयमानं
शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥ १९॥
त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं
त्वं चेतनासि पुरुषे पवने बलं त्वम् ।
त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा
निःसारमेव निखिलं त्वदृते यदि स्यात् ॥ २०॥
ज्योतींषि यद्दिवि चरन्ति यदन्तरिक्षं
सूतेपयांसि यदहिर्धरणीं च धत्ते ।
यद्वाति वायुरनलोयदुदर्चिरास्ते
तत्सर्वमम्ब! तव केवलमाज्ञयैव ॥ २१॥
सङ्कोचमिच्छसि यदा गिरिजे! तदानीं
वाक्तर्कयोस्त्वमसि भूमिरनामरूपा ।
यद्वा विकासमुपयासि यदा तदानीं
त्वन्नामरूपगणनाः सुकरीभवन्ति ॥ २२॥
भोगाय देवि भवतीं कृतिनः प्रणम्य
भ्रूकिङ्करीकृतसरोजगृहा सहस्राः ।
चिन्तामणिप्रचयकल्पितकेलिशैले
कल्पद्रमोपवन एव चिरं रमन्ते ॥ २३॥
हन्तुं त्वमेव भवसि त्वदधीनमीशे
संसारतापमखिलं दयया पशूनाम् ।
वैकर्तनीकिरणसंहतिरेव शक्ता
धर्मं निजं शमयितुं निजयैव वृष्ट्या ॥ २४॥
शक्तिः शरीरमधिदैवतमन्तरात्मा
ज्ञानं क्रिया करणमासनजालमिच्छा ।
ऐश्वर्यमायतनमावरणानि च त्वं
किं तन्न यद्भवसि देवि शशाङ्कमौलेः ॥ २५॥
भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा
विद्याऽनले मरुति शान्तिरतीतशान्तिः ।
व्योम्नीति याः किल कलाः कलयन्ति विश्वं
तासां विदूरतरमम्ब !पदं त्वदीयम् ॥ २६॥
यावत्पदं पदसरोजयुगं त्वदीयं
नाङ्गीकरोति हृदयेषु जगच्छरण्ये ।
तावद्विकल्प जटिलाः कुटिलप्रकारा-
स्तर्कग्रहाः समयिनां प्रलयं न यान्ति ॥ २७॥
यद्देवयानपितृयानविहारमेके
कृत्वा मनः करणमण्डलसार्वभौमम् ।
याने निवेश्य तव कारणपञ्चकस्य
पर्वाणि पार्वति नयन्ति निजासनत्वम् ॥ २८॥
शूलासु मूर्तिषु महीप्रमुखासु मूर्तेः
कस्याश्चनापि तव वैभवमम्ब यस्याः ।
पत्या गिरामपि न शक्यते एव वक्तुं
सासि स्तुता किल मयेति तितिक्षितव्यम् ॥ २९॥
कालाग्निकोटिरुचिमम्ब षडध्वशुद्धौ-
वाप्लावनेषु भवतीममृतौघवृष्टिम् ।
श्यामां घनस्तनतटां सकलीकृतौ च
ध्यायन्त एव जगतां गुरवो भवन्ति ॥ ३०॥
विद्यां परां कतिचिदम्बरमम्ब केचि-
दानन्दमेव कतिचित्कतिचिच्च मायाम् ।
त्वां विश्वमाहुरपरे वयमामनाम
साक्षादपारकरुणां गुरुमूर्तिमेव ॥ ३१॥
कुवलयदलनीलम् बर्बरस्निग्धकेशं
पृथुतरकुचभाराक्रान्तकान्तावलग्नम् ।
किमिह बहुभिरुक्तैस्त्वत्स्वरूपं परं नः
सकलभुवनमातः सन्ततं सन्निधत्ताम् ॥ ३२॥
इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां अम्बास्तवः चतुर्थः समाप्तः । ४
अथ सकलजननीस्तवः पञ्चमः ।
ॐ अजानन्तो यान्ति क्षयमवशमन्योन्यकलहै-
रमी मायाग्रन्थौ तव परिलुठन्तः समयिनः ।
जगन्मातर्जन्मज्वरभयतमः कौमुदि! वयं
नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥ १॥
वचस्तर्कागम्यस्वरसपरमानन्दविभव-
प्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे ।
शिवस्याराध्याय स्तनभरविनम्राय सततं
नमो यस्मै कस्मैचन भवतु मुग्धाय महसे ॥ २॥
लुठद्गुञ्जाहारस्तनभरनमन्मध्यलतिका-
मुदञ्चद्धर्माम्भः कणगुणितनीलोत्पलरुचम् ।
शिवं पार्थत्राणप्रवणमृगयाकारगुणितं
शिवामन्वग्यान्तीं शवरमहमन्वेमि शवरीम् ॥ ३॥
मिथः केशाकेशिप्रधननिधनास्तर्कघटना
बहुश्रद्धाभक्तिप्रणयविषयाश्चाप्तविधयः ।
प्रसीद प्रत्यक्षीभव गिरिसुते! देहि शरणं
निरालम्बं चेतः परिलुठति पारिप्लवमिदम् ॥ ४॥
शुनां वा वह्नेर्वा खगपरिषदो वा यदशनं
कदा केन क्वेति क्वचिदपि न कश्चित्कलयति ।
अमुष्मिन्विश्वासं विजहिहिममाह्नाय वपुषि
प्रपद्येथाश्चेतः सकलजननीमेव शरणम् ॥ ५॥
अनाद्यन्ताभेदप्रणयरसिकापि प्रणयिनी
शिवस्यासीर्यत्त्वं परिणयविधौ देवि! गृहिणी ।
सवित्री भूतानामपि यदुदभूः शैलतनया
नदेतत्संसारप्रणयनमहानाटकसुखम् ॥ ६॥
ब्रुवन्त्येके तत्त्वं भगवति सदन्ये विदुरस-
त्परे मातः! प्राहुस्तव सदसदन्ये सुकवयः ।
परे नैतत्सर्वं समभिदधते देवि! सुधिय-
स्तदेतत्त्वन्मायाविलसितमशेषं ननु शिवे! ॥ ७॥
तडित्कोटिज्योतिर्द्युतिदलितषड्ग्रन्थिगहनं
प्रविष्टं स्वाधारं पुनरपि सुधावृष्टिवपुषा ।
किमप्यष्टात्रिंशत्किरणसकलीभूतमनिशं
भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥ ८॥
चतुष्पत्रान्तः षड्दलभगपुटान्तस्त्रिवलय-
स्फुरद्विद्युद्वह्निद्युमणिनियुताभद्युतियुते ।
षडश्रं भित्त्वादौ दशदलमथ द्वादशदलं
कलाश्रं च द्व्यश्रं गतवति! नमस्ते गिरिसुते! ॥ ९॥
कुलं केचित्प्राहुर्वपुरकुलमन्ये तव बुधाः
परे तत्सम्भेदं समभिदधते कौलमपरे ।
चतुर्णामप्येषामुपरि किमपि प्राहुरपरे
महामाये! तत्त्वं तव कुथुममी निश्चिनुमहे ॥ १०॥
षडध्वारण्यानीं प्रलयरविकोटिप्रतिरुचा
रुचा भस्मीकृत्य स्वपदकमलप्रह्वशिरसाम् ।
वितन्वानः शैवं किमपि वपुरिन्दीवररुचिः
कुचाभ्यामानम्रः शिवपुरुषकारो विजयते ॥ ११॥
प्रकाशानन्दाभ्यामविदितचरीं मध्यपदवीं
प्रविश्यैतद्द्वन्द्वं रविशशिसमाख्यं कवलयन् ।
प्रविश्योर्ध्वं नादं लयदहनभस्मीकृतकुलः
प्रसादात्ते जन्तुः शिवमकुलमम्ब! प्रविशति ॥ १२॥
प्रियङ्गुश्यामाङ्गीमरुणतरवासः किसलयां
समुन्मीलन्मुक्ताफलबहुलनेपथ्यकुसुमाम् ।
स्तनद्वन्द्वस्फारस्तबकनमितां कल्पलतिकां
सकृद्ध्यायन्तस्त्वां दधति शिवचिन्तामणि पदम् ॥ १३॥
षडाधारावर्तैरपरिमितमन्त्रोर्मिपटलै-
श्चलन्मुद्राफेनैर्बहुविधलसद्दैवत झषैः ।
क्रमस्रोतोभिस्त्वं वहसि परनादामृतनदी
भवानि! प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥ १४॥
महीपाथोवह्निश्वसनवियदात्मेन्दुरविभि-
र्वपुर्भिग्रस्तांशैरपि तव कियानम्ब! महिमा ।
अमून्यालोक्यन्ते भगवति! नकुत्राप्यणुतरा-
मवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥ १५॥
मनुष्यास्तिर्यञ्चो मरुत इति लोकत्रयमिदं
भवाम्भोधौमग्नं त्रिगुणलहरीकोटिलुठितम् ।
कटाक्षश्चेदत्रक्वचन तव मातः! करुणया
शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥ १६॥
कलां प्रज्ञामाद्यां समयमनुभूतिं समरसां
गुरुं पारम्पर्यं विनयमुपदेशं शिवकथाम् ।
प्रमाणं निर्वाणं परममतिभूतिं परगुहां
विधिं विद्यामाहुः सकलजननीमेव मुनयः ॥ १७॥
प्रलीने शब्दौघे तदनु विरते बिन्दुविभवे
ततस्तत्त्वे चाष्टध्वनिभिरनुपाधिन्युपरते ।
श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्र गहनां
स्वसंवित्तिं योगी रसयति शिवाख्यां परतनुम् ॥ १८॥
परानन्दाकारां निरवधिशिवैश्वर्य वपुषं
निराकारज्ञान प्रकृतिमनवच्छिन्नकरुणाम् ।
सवित्रीं भूतानां निरतिशयधामास्पदपदां
भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥ १९॥
जगत्काये कृत्वा तमपि हृदये तच्च पुरुषे
पुमांसं बिन्दुस्थं तमपि परनादाख्यगहने ।
तदेतज्ज्ञानाख्ये तदपि परमानन्दविभवे
महाव्योमाकारे! त्वदनुभवशीलो विजयते ॥ २०॥
विधे विद्ये वेद्ये विविधसमये वेदजननि!
विचित्रे विश्वाद्ये विनयसुलभे वेदगुलिके ।
शिवाज्ञे शीलस्थे शिवपदवदान्ये शिवनिधे
शिवे मातर्मह्यं त्वयि वितरभक्तिं निरुपमाम् ॥ २१॥
विधेर्मुण्डं हृत्वा यदकुरुत पात्रं करतले
हरिं शूलप्रोतं यदऽगमयदंसाभरणताम् ।
अलञ्चक्रे कण्ठं यदपि गरलेनाम्ब ! गिरिशः
शिवस्थायाः शक्तेस्तदिदमखिलं ते विलसितम् ॥ २२॥
विरिञ्च्याख्या मातः! सृजसि हरिसंज्ञा त्वमवसि
त्रिलोकीं रुद्राख्या हरसि विदधासीश्वरदशाम् ।
भवन्ती सादाख्या शिवयसि च पाशौघदलिनी
त्वमेवैकाऽनेका भवसि कृतिभेदैर्गिरिसुते! ॥ २३॥
मुनीनां चेतोभिः प्रमृदितकषायैरपि मना-
गऽशक्ये संस्प्रष्टुं चकितचकितैरम्ब! सततम् ।
श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे
कथं ते विन्दन्ते पदकिसलये पार्वति! पदम् ॥ २४॥
तडिद्वल्लीं नित्याममृत सरितं पाररहितां
मलोत्तीर्णां ज्योत्स्नां प्रकृतिमगुणग्रन्थिगहनाम् ।
गिरां दूरां विद्यामविनतकुचां विश्वजननी-
मपर्यन्तां लक्ष्मीमभिदधति सन्तो भगवतीम् ॥ २५॥
शरीरं क्षित्यम्भः प्रभृतिरचितं केवलमिदं
सुखं दुःखं चायं कलयति पुमांश्चेतन इति ।
स्फुटं जानानोऽपि प्रभवति न देही रहयितुं
शरीराहङ्कारं तव समयबाह्यो गिरिसुते! ॥ २६॥
पिता माता भ्राता सुहृदऽनुचरः सद्म गृहिणी
वपुः पुत्रो मित्रं धनमपि यदा मां विजहति ।
तदा मे भिन्दाना सपदि भयमोहान्धतमसं
महाज्योत्स्ने मातर्भव करुणया सन्निधिकरी ॥ २७॥
सुता दक्षस्यादौ किल सकलमातस्त्वमुदभूः
सदोषं तं हित्वा तदनु गिरिराजस्य तनया ।
अनाद्यन्ता शम्भोरपृथगपि शक्तिर्भगवती
विवाहाज्जायासीत्यहह चरितं वेत्ति तव कः ॥ २८॥
कणास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः
परं ब्रह्म क्षुद्रं तव नियतमान्दकणिका ।
शीवादिक्षित्यन्तं त्रिवलयतनोः सर्वमुदरे
तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥ २९॥
त्वया यो जानीते रचयति भवत्यैव सततं
त्वयैवेच्छत्यम्ब! त्वमसि निखिला यस्य तनवः ।
गतः साम्यं शम्भुर्वहति परमं व्योम भवती
तथाप्येवं हित्वा विहरति शिवस्येति किमिदम् ॥ ३०॥
पुरः पश्चादन्तर्बहिरपरिमेयं परिमितं
परं स्थूलं सूक्ष्मं सकुलमकुलं गुह्यमगुहम् ।
दवीयो नेदीयः सदसदिति विश्वं भगवतीं
सदा पश्यन्त्याज्ञां वहसि भुवनक्षोभ जननीम् ॥ ३१॥
मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः
पयोधौ कल्लोलप्रतिहतमहिम्नीव पृषतः ।
उदेत्योदेत्याम्ब त्वयि सह निजैस्तात्त्विककुलै-
र्भजन्ते तत्त्वौघाः प्रशममनुकल्पं परवशाः ॥ ३२॥
विधुर्विष्णुर्ब्रह्माप्रकृतिरणुरात्मादिनकरः
स्वभावो जैनेन्द्रः सुगतमुनिराकाशमनिलः ।
शिवः शक्तिश्चेति श्रुतिविषयतां तामुपगतां
विकल्पैरेभिस्त्वामऽभिदधति सन्तो भगवतीम् ॥ ३३॥
प्रविश्य स्वं मार्गं सहजदयया दैशिकदृशा
षडध्वध्वान्तौघच्छिदुरगणनातीतकरुणाम् ।
परानन्दाकारां सपदि शिवयन्तीमपि तनुं
स्वमात्मानं धन्याश्चिरमुपलभन्ते भगवतीम् ॥ ३४॥
शिवस्त्वं शाक्तस्त्वं त्वमसि समया त्वं समयिनी
त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः ।
अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं
पृथक्तत्त्वं त्वत्तो भगवति! न वीक्षामह इमे ॥ ३५॥
असंख्यैः प्राचीनैर्जननि जननैःकर्मविलया-
द्गते जन्मन्यन्तं गुरुवपुषमासाद्य गिरिशम् ।
अवाप्याज्ञां शैवीं क्रमतनुरपि त्वां विदितवा-
न्नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥ ३६॥
यत्षट्पत्रं कमलमुदितं तस्य या कर्णिकाख्या
योनिस्तस्याः प्रथितमुदरे यत्तदोङ्कारपीठम् ।
तस्मिन्नऽन्तः कुचभरनतां कुण्डलीतः प्रवृत्तां
श्यामाकारां सकलजननीं सन्ततं भावयामि ॥ ३७॥
भुवि पयसि कृशानौ मारुते खे शशाङ्के
सवितरि यजमानेऽप्यष्टधा शक्तिरेका ।
वहति कुचभराभ्यां या विनम्रापि विश्वं
सकलजननि! सात्वं पाहि मामित्यवश्यम् ॥ ३८॥
इति श्रीधर्माचार्यकृतौ श्री पञ्चस्तव्यां सकलजननीस्तवः पञ्चमः समाप्तः । ५
इति पञ्चस्तवी समाप्ता ।