श्रीपद्मावतीस्तोत्रम् ४
श्रीधराचार्यविरचितं
ॐ जयन्तीभमातङ्गी सर्चदुष्टक्षयङ्करी ।
पद्मासने पद्मदेवी च महापद्मे नमोनमः ॥ १॥
देवी त्वं ध्यायिता इन्द्रे पूजिता शिवसङ्करे ।
कृष्णेन संस्तुता देवो महापद्मे नमोनमः ॥ २॥
सावित्रि पतिमाराध्य वासुकै सेविता भृशम् ।
तेषां सन्तुक्षते देवी महापद्मे नमोनमः ॥ ३॥
पद्माम्बरधरा देवी पद्मद्रहनिवासिनी !
पद्मायुधधरा नित्यं महापद्मे नमोनमः ॥ ४॥
यस्यां प्रसन्नतां पद्मे तस्यो दारिद्र्यनाशने ।
जय त्वं सुखदाता च महापद्मे नमोनमः ॥ ५॥
देवि ! दारिद्र्यदग्धाहं तन्मेसं सङ्करीभव ।
चिञ्तिता वरदाता च महापद्मे नमोनमः ॥ ६॥
पद्मावती यस्या गृहे पूजिता जगदीश्वरी ।
हृदये यस्य वर्तन्ते तस्य सौख्यं निरन्तरम् ॥ ७॥
इदं स्तोत्रं पवित्रं च श्रीधराचार्यभाषितम् ।
एकाग्रमनसा साध्यं तस्य सौख्यं निरन्तरम् ॥ ८॥
रणे राजकुले चैव दुर्ग्गमे शत्रुसङ्कटे ।
महावने महाभीमे विध्नो यान्ति दिसो दिसा ॥ ९॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां सुखार्थी लभते सुखम् ॥ १०॥
इति श्रीधराचार्यविरचितं श्रीपद्मावतीस्तोत्रं सम्पूर्णम् ।
Proofread by DPD