श्रीपद्मावतीकवचम् २
भगवन् ! सर्वमाख्यातं मन्त्रं यन्त्रं शुभप्रदम् ।
पद्मायाः कवचं ब्रूहि यद्यहं तव वल्लभः ॥ १॥
महागोप्यं महागुह्यं पद्मायाः सर्वकामदम् ।
कवचं मोहनं देवि ! गुरुभक्ताय दीयते ॥ २॥
राज्ये देयं च सर्वस्वं कवचं न प्रकाशयेत् ।
गुरुभक्ताय दातव्यमन्यथा सिद्धिदं न हि ॥ ३॥
ऐं बीजम् । क्लीँ शक्तिः । ह्सौँ कीलकम् ।
पद्मावतीप्रीत्यर्थ जपे विनियोगः ।
ॐ परब्रह्मणे नमः शिरसि । अनुष्टुप्छन्दो यो नमः मुखे ।
श्रीपद्मावतीशक्तिदेवतायै नमः हृदये । आं बीजाय नम कण्ठे ।
ह्रीं शक्तये नमः गुह्ये । क्रौँ कीलकाय नमः पादयोः ।
श्रीपद्मावतीकवचसिद्ध्यर्थं जपे विनियोगः ॥
ॐ पद्मा बीजं शिरः पातु ललाटं पञ्चमी परा ।
नेत्रे कामप्रदा पातु मुखं भुवनसुन्दरी ॥ ४॥
नाशिकां नागनाथश्च जिह्वां वागीश्वरी तथा ।
श्रुतिरूपा जगद्धात्री करौ हृथिमवासिनी ॥ ५॥
उदरं मोहदमनी कुण्डली नाभिमण्डलम् ।
पार्श्व पृष्ठं कटिं गुह्यं शक्तिस्थाननिवासिनी ॥ ६॥
ऊरू जङ्घे तथा पादौ सर्वविघ्नविनाशिनी ।
रक्ष रक्ष महामाये पद्मे ! पद्मालये शिवे ॥ ७॥
वाञ्छितं पूरयत्याशु पद्मा सा पात सर्वतः ।
भवद तु कवचं ढेगृया यो जानाति स मन्त्रवित ॥ ८॥
राजद्वारे श्मशाने च भूतप्रेतोपचारके ।
बन्धने च महादुःखे भये शत्रुसमागमे ॥ ९॥
स्मरणात्कवचस्याम्य भयं किञ्चिन्न जायने ।
प्रयोगमुपचार च पद्मायाः कर्तुमिच्छति ॥ १०॥
कवचं प्रपठेदादौ ततः सिद्धिमवानुप्नुयात् ।
भूर्यपत्रे लिखित्वा तु कवचं यस्तु धारयेत् ॥ ११॥
देहे च यत्र कुत्रापि सर्वसिद्धिर्भवेद ध्रुवम् ।
शस्त्राग्निजं भयं नेव भूतादिभयनाशनम् ॥ १२॥
गुरुभक्तिं समासाद्य पद्मायाः स्तवनं कुरु ।
सहस्रनामपठने कवचं प्रथमं कुरु ॥ १३॥
नन्दिना कथितं देवि ! तवाग्रे तत्प्रकाशितम् ।
साङ्गता जायते देवि ! नान्यथा गिरिनन्दिनी ॥ १४॥
इद कवचमज्ञात्वा पद्मायाः स्तौति यो नर ।
कल्पकोटीशतेनापि न भवेत्सिद्धिदायिनी ॥ १५॥
इति श्रीपद्मावतीकवचं सम्पूर्णम् ।
Proofread by DPD