श्रीपार्वत्यष्टोत्तरशतनामस्तोत्रम्
महेश्वरी महादेवी महेश्वरविमोहिनी ।
महाप्रभा महामाया महासुरनिषूदनी ॥ १॥
उमा कुमारजननी हिमाचलतनूभवा ।
भवानी भावनागम्या भवपाशविमोचिनी ॥ २॥
शिवा भवाङ्कनिलया मृगाङ्कसदृशानना ।
अपङ्का शङ्करी शान्ता हृदयान्तःप्रकाशिनी ॥ ३॥
विजया दुर्जयामेया जयदा जगदीश्वरी ।
आर्या परापरमयी त्रिपुरा परमेश्वरी ॥ ४॥
कात्यायनी हैमवती शाम्भवी सुम्भमर्दिनी ।
शाकम्भरी कला कालि भैरवी भयहारिणी ॥ ५॥
नारायणी प्राणमयी शर्वाणी सर्वमङ्गला ।
अरुणा भूरिकरुणा शरणागतवत्सला ॥ ६॥
हरिणाङ्ककलाभूषा हरिणाक्षा हरप्रिया ।
भक्तप्रिया भगवती सुदया दनुजादया ॥ ७॥
पङ्कजाक्षसमाराध्या पङ्कजाक्षसहोदरी ।
किङ्करीमूतगीर्वाणा पङ्कजास्त्रोद्भवेक्षणा ॥ ८॥
ह्रीङ्कारी शबरी तारा मातङ्गी मङ्गलप्रदा ।
अङ्गीकृतहरार्द्धाङ्गा शृङ्गारशरणानना ॥ ९॥
शृङ्गारनायिका बाला जया सिंहासनेश्वरी ।
कामेश्वरी च कल्याणी सुन्दरी सुरसेविता ॥ १०॥
चक्रेश्वरी मधुमती पार्वती पद्मलोचना ।
कोदण्डिनी कुण्डलिनी चामुण्डा चण्डिकाम्बिका ॥ ११॥
चर्च्चिका गिरिजा दुर्गा सर्गस्थित्यन्तकारिणी ।
सुभगा ललिता गौरी मातामणिर्गृहेश्वरी ॥ १२॥
लोकेश्वरी महाराज्ञी मालिनी मेनकात्मजा ।
रुद्राणी शङ्करी शर्मदायिनी सर्वसाक्षिणी ॥ १३॥
श्रीविद्या श्रीकरी शक्तिष्षोडशी श्रीदिपूजिता ।
वाग्वादिनी विन्दुगृहा भवसङ्कटहारणी ॥ १४॥
करपङ्कजसंस्पर्शप्रधूतसुरशासना ।
पादपल्लवनिष्पिष्टमहिषासुरविग्रहा ॥ १५॥
तरुणार्कसहस्राभतनुच्छायाविजृम्भणा ।
वदनामोदबिभ्राम्यदलिपालिनिभालका ॥ १६॥
नवकुङ्कुमकस्तूरीतिलकालङ्कृतालिका ।
अधरारुणिमारक्तमुक्ताशोभितनासिका ॥ १७॥
कनत्कपोलयुगलप्रतिबिम्बितकुण्डला ।
तमःप्रवाहप्रतिमचिकुरभ्राजिदिङ्मुखा ॥ १८॥
इदमष्टोत्तरशतं पार्वत्यास्सर्वकामदम् ।
सर्वसम्पत्प्रदं श्रेष्ठं सर्वसौभाग्यपुष्टिदम् ॥ १९॥
सर्वविद्याप्रदं सर्वपुरुषार्थप्रदं परम् ।
रहस्यमिदमुत्कृष्टं न मीमांसमितस्ततः ॥ २०॥
यः पठेत्परया भक्त्या सन्ध्याकाले समाहितः ।
स्मरन्नपि महादेवं पार्वतीसहितं शिवम् ।
स भुक्त्वात्र महाभोगान् शिवलोके महीयते ॥ २१॥
इति पार्वत्यष्टोत्तरशतं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran